"काली" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
देव्येः नाम
 
 
'''गायत्री'''
 
ॐ महाकाल्यै च विद्महे श्मशानवासिन्यै च धीमहि ।
तन्नो काली प्रचोदयात् ॥
 
 
'''ध्यानम्'''
 
करालवदनां घोरां मुक्तकेशीं चतुर्भुजां ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभुषिताम् ॥
 
सद्यश्छिन्नशिरःखड्गवामाधोर्द्ध्वकराम्भुजां ।
अभयां वरदाञ्चैव दक्षिणोर्द्धाधःपाणिकाम् ॥
 
महामेघप्रभां श्यामां तथा चैव दिगम्बरीं ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चितां ॥
 
कर्णावतंसतानीतशव युग्मभयानकां ।
घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् ॥
 
शवानां करसङ्घातैःकृतकाञ्चीं हसन्मुखीं ।
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननां ॥
 
घोररावां महारौद्रीं श्मशानालयवासिनीम् ।
बालार्कमण्डलाकारलोचनत्रितयान्वितां ॥
 
दन्तुरां दक्षिणव्यापि मुक्तालन्विकचोच्चयां ।
शवरूप महादेवहृदयोपरिसंस्थितां ॥
 
शिवाभिर्घोररवाभिश्चतुर्द्दिक्षु समन्वितां ।
महाकालेन च समं विपरीतरतातुरां ॥
 
सुखप्रसन्नवदनां स्मेराननसरोरुहां ।
एवं संचिन्तयेत् कालीं सर्वकामसमृद्धिदाम् ॥
 
 
==पश्य==
"https://sa.wikipedia.org/wiki/काली" इत्यस्माद् प्रतिप्राप्तम्