"सामवेदः" इत्यस्य संस्करणे भेदः

1
→‎सामवेदस्य शाखाः: सामवेदस्य पदकाराः
पङ्क्तिः २३:
==सामवेदस्य शाखाः==
सामवेदस्य एकसहस्रशाखाः सन्ति विदुषामभिप्रायः । यथोक्तं पतञ्जलिना – “सहस्रवर्त्मा सामवेदः” इति । सामवेदस्य आद्याचार्यः जैमिनि एव भवतीति स्वीक्रियते । तदनन्तरं तत्पुत्राः शिष्याश्च सामाध्ययनं कृत्वा सामशाखानां विस्तारं कृतवन्तः । तेषु कतिपयानां नामानि दीयन्ते । यथा –सुमन्तु –सुन्वान् –सुनु –हिरण्यनाभ –पौषञ्जि-कार्त्ता –लौगाक्षि –माङ्गलिकुल्य –कुसीद –कुक्षीप्रमुखाः । अधुना प्रपञ्चहृदय –दिव्यावदान- चरणव्यूह जैमिनिगृह्यसूत्रादीनां पर्यालोचनया ज्ञायते यत् सामवेदस्य त्रयोदशशाखाः सन्ति । तेषु त्रयाणामाचार्याणां शाखा एव समुपलभ्यन्ते । यथा –कौथुमीयशाखाराणायनीयशाखा, जैमिनियशाखा च ।
 
== सामवेदस्य पदकाराः ==
गाग्र्यः सामवेदस्य पदकारः अस्ति, यस्य नाम, कार्यं च अनेकेषु प्राचीनग्रन्थेषु उपलब्धं भवति। [[निरुक्तम्|निरुक्ते]] (४।३४ ) 'मेहन'-शब्दस्य प्रसङ्गे एका रोचकी वार्ता वर्तते । दुर्गाचार्यस्य अत्र कथनमस्ति यत्, ऋग्वेदिनां मतानुसारेण अयमेकमेव पदोऽस्ति, किञ्च सामवेदिनां मतानुसारेणात्र पदत्रयमस्ति ( म + इह + न ) । [[यास्कः|यास्केन]] तु उभयोः पदकारयोः मतानामेकत्र समीकरणं कृतम्। यथा - ‘‘बह्वचानां 'मेहना' इत्येक पदम्। छन्दोगानां त्रीण्येतानि पदानि - 'म+ इह+न' इति। तदुभयं पश्यता भाष्यकारेणोभयोः शाकल्यगाग्र्ययोः अभिप्रायौ अनुविहितौ इति।<ref>दुर्गवृत्ति-वेङ्कटेश्वरसंस्करणम्, पृ० २७६</ref> स्कन्दस्वामिनः अपीयमेव सम्मतिः अस्ति — ‘एकमिति शाकल्यः त्रीणीति गाग्र्यः॥' गाग्र्यस्य पदपाठानाम् इयमेव विशेषताऽस्ति यत्, एतेषां पदानां छेदः अत्यधिकमात्रायां वर्त्तते । यथा ‘मित्रस्य’ पदपाठोऽस्ति—‘मि+त्रम्’ ‘अन्ये' इत्येतस्य पदस्य 'अन् + ये' 'समुद्र' इत्येतस्य पदस्य ‘सम्+उद्रम्' एतान् पदपाठान् प्रामाणिकं मत्वा यास्कस्तु स्वनिरुक्ते ‘प्रमीतेः त्रायते इति मित्रः (१०॥२१ ) – मरणात्त्रायते इति, अर्थात् वर्षादानात् इति मित्रः=[[सूर्यः]] ।' तथा--‘समुद्द्रवन्ति अस्माद् अापः = [[जलम्]], यस्मिन् प्रवहति असौ समुद्र इति ( २॥१० )।' गाग्र्यस्य इयं विशेषता ध्यातव्या ।
 
==पश्यतु==
"https://sa.wikipedia.org/wiki/सामवेदः" इत्यस्माद् प्रतिप्राप्तम्