"माधवभट्टः" इत्यस्य संस्करणे भेदः

माधवभट्टः
 
पङ्क्तिः ६:
=== टीकायाः वैशिष्टयम् ===
माधवस्यास्य टीका यथार्थतः भाष्यमेवाऽस्ति । अस्यानुसरणं सायणमाधवेन कृतम् । तद्वदेव वेङ्कटमाधवेनाऽपि स्वच्छन्दरूपेण अस्यानुसरणं कृतम् । स्कन्दस्वामिनः टीकायाम् अप्यस्यानुक्रमण्याः अनुकरणं प्राप्यते। किश्च ऋक्संहितायाः अल्पाशंस्य एकाष्टकस्य भाष्यं समुपलब्धं भवति । तथाप्येतावदेवांशः पूर्वोक्तकथनस्य पर्याप्तप्रमाणमुपस्थापयति । देवराजयज्वना माधवस्य निर्देशं कृत्वा स्वग्रन्थे यत्स्वरवर्णनं कृतं तत्सर्वम् अस्मिनल्पकायिकांशे एवोपलब्धं भवति । देवराजयज्वा सर्वानपि स्वनिर्देशान् अस्मादेव संहिता-भाष्यादेवालिखत्। अनेन ज्ञातो भवति यद्देवराजयज्वनः सविधे प्रायः माघवस्य सम्पूर्णं भाष्यमासीत्, किञ्च ‘कोऽयं माधवः' इति सोऽपि नाजानात् । सन्दिग्धस्थलस्य स्वरभेदेन प्रातिशाख्यभेदेन च विशदीकरणस्यास्य विचित्रा शैली वर्त्तते । यद्यपि भाष्यमिदं लघुकायमस्ति तथाप्यस्यार्थः निःसन्दिग्धोऽस्ति । अस्य भाष्यस्य अनुसरणं स्कन्दस्वामी-वेङ्कटमाधव-सायणप्रभृतयः विद्वांसः कृतवन्तः । इतिहासकाराणां मते ख्रीष्टाब्दस्य चतुर्दशशतके सायणाचार्योऽभवत् । ख्रीष्टस्य दशमशतके वेङ्कटमाधवोऽभवतु तथा ख्रीष्टस्य सप्तमशतके स्कन्दस्वामी आसीत् । अनेन प्रणीतस्य भाष्यस्योद्धरणानि [[स्कन्दस्वामी|स्कन्दस्वामिना]], [[वेङ्कटमाधवः|वेङ्कटमाधवेन]] [[सायणः|सायणे]]<nowiki/>न च स्वीयेषु ग्रन्थेषु दत्तानि, अतोऽयं ख्रीष्टस्य षष्ठशतकोत्तरभागे अवर्त्ततेति कल्पनां कर्तुं शक्यते।
 
[[वर्गः:भाष्यकाराः]]
[[वर्गः:संस्कृतलेखकाः]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:संचित्रसारमञ्जूषे योजनीये]]
"https://sa.wikipedia.org/wiki/माधवभट्टः" इत्यस्माद् प्रतिप्राप्तम्