"ऋग्वेदः" इत्यस्य संस्करणे भेदः

,
अनाश्यकपाठ्यस्य अपाकरणम्
पङ्क्तिः १:
 
{{हिन्दूधर्मः}}
'''ऋग्वेदः''' अर्थात् ऋच्यते स्तूयते यया सा ऋक्, तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्थाः सा ऋगिति मीमांसकाः । तत्र बहुभिर्भिन्नभिन्नैः ऋषिभिः सुललितैः भावभव्यैः शब्दैर्विभिन्ना देवताः सादरं स्तुताः सन्ति । पाश्चात्यदृशि भाषायाः भावस्य च विचारेण अन्यवेदेभ्यः अतीवप्राचीनः अस्त्ययमृग्वेदः।<ref>p. 126, ''History of British Folklore'', Richard Mercer Dorson, 1999, ISBN 9780415204774</ref> भारतीयदृष्ट्याऽपि ऋग्वेदस्याभ्यहितत्वं पूजनीयता च वर्तते।<ref>वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ।। १६.३८ कूर्मपुराणम्-उत्तरभागः/षोडशो‍ऽध्यायः</ref> तैत्तिरीयसंहितानुसारेण यज्ञस्य यद्विधानं क्रियते, तत्तु शिथिलं भवति किञ्च ऋग्वेदेन विहितानुष्ठानं दृढम्भवति। यथा-
Line १० ⟶ ९:
 
'''छन्दांसि यज्ञिरे तस्मात् यजुस्तम्मादजायत ॥''''
 
==ऋग्वेदः==
 
ऋग्वेदः सोऽयं मण्डलानुवाकवर्गभेदेन अष्टकाध्यायसूक्तभेदेन च द्विधा । बालखिल्यसूक्तानि विहाय सम्पूर्णायामृग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरशतद्वयमिताश्च वर्गाः (इति प्रथमो भेदः) अष्टौ अष्टकानि, चतुष्षाष्टिरध्यायाः, सप्तदशोत्तरसहस्राणि च सूक्तानि (इति द्वितीयो भेदमार्गः) ।
मन्त्राश्च सर्वे दशसहस्त्रचतुः शतसप्तषष्ठिमिताः (१०४६७) इति शाकलः, शौनकानुक्रमणी तु दशसहस्रपञ्चाशतशीतिमितान् (१०५८०) मन्त्रान् आह । अत्र भेदे कालभेदेन मन्त्रवृध्दिलोपावेव हेतुतयोन्नेयौ भवतः । शब्दसंख्या -१५३८२६, अक्षरसंख्या -४३२००० । सर्वेऽपि मन्त्राः चतुर्दशसु छन्दस्सु विभक्ता बोध्याः । ऋग्वेदगतमन्त्रद्रष्टारो ऋषयः गृत्समदविश्वामित्रवामदेवात्रिभरद्वाजवसिष्ठादयः सन्ति ।
ऋग्वेदस्य दशसु मण्डलेषु नवमं मण्डलं पवमानमण्डलनाम्ना प्रथितम् । तत्र हि सोमविषयकमन्त्राणां सङ्कलनं कृतम् । पवमानः – सोमः । पूर्वोक्ताः सप्तापि मन्त्रद्रष्टारो ऋषयो द्वितीयमण्डलतः सप्तमण्डलपर्यन्तगताभिः ऋग्भिः सम्बध्दाः, दशमण्डले मन्त्रा नानर्षिसम्बध्दाः । दशमे मण्डले न केवलं देवतास्तुतय एव, अन्यप्रकारका अपि मन्त्राः दृश्यन्ते ।
द्वितीयमण्डलादारभ्य सप्तममण्डलपर्यन्तस्य ऋग्वेदभागस्य रचना सर्वतः प्राचीना, दशमं मण्डलं सर्वतोऽर्वाचीनम्, शेषाणि मध्यकालिकानीति साम्प्रतिका आलोचकाः कथयन्ति ।
 
चतुर्षु वेदेषु प्रथमगणनीयः अयम् ऋग्वेदः । ऋचां भूयस्त्वात् ऋग्वेद इति व्यपदेशः । ऋच्यते स्तूयते अनया इति ऋक् । स्तुतिपरकाणां मन्त्राणां समूह एव अत्र वेदे सामान्यतः दृश्यते । सर्ववेदानामिव अस्यापि संहिता –ब्राह्मण –आरण्यक-उपनिषद्भागाः सन्त्येव । तदधिकृत्य अनन्तरं सूच्यते ॥
 
== ऋग्वेदस्य विभागः==
"https://sa.wikipedia.org/wiki/ऋग्वेदः" इत्यस्माद् प्रतिप्राप्तम्