"यजुर्वेदः" इत्यस्य संस्करणे भेदः

प्रस्तावना
विभागः
पङ्क्तिः ५:
 
वस्तुतः आाध्वर्यव-कर्मणे उपादेये यजुर्वेदे यजुषां सङ्ग्रहो वर्त्तते । यजुःशब्दस्य व्याख्या आपाततः भिन्नाः प्रतीता भवन्ति, किञ्च तासु एकमेव लक्षणं प्रति सङ्केतो लभते। ‘अनियताक्षरावसानो यजुः’ अर्थात् यत्राक्षराणां संख्या नियता निश्चिता वा नास्ति तद्यजुः । ‘गद्यात्मको यजुस्तथा शेषे यजुः'-शब्दस्य तात्पर्यमिदमेवास्ति यदृक्-सामभ्यां भिन्नं गत्यात्मक-मन्त्राणामभिधानमेव ‘यजुः' वर्त्तते ।
 
== यजुः ==
आध्वर्युकर्मसम्पादनाय यजुषां संकलनं यत्रास्ति सा यजुर्वेदसंहिता इत्युच्यते । यजुष् शब्दस्य व्याख्या भिन्नभिन्नरूपेण भवति । यथा - अनियताक्षरावसानो यजुः, गद्यात्मको यजुः,शेषे यजुश्शब्द इत्यादयः । परन्तु एतेषां तात्पर्यं एकमेव भवति यत् ऋग् सामादिभ्यः भिन्नानां गद्यात्मकमन्त्राणां अभिधानमेव यजुः ।
 
== स्वरूपम् ==
Line २० ⟶ १७:
 
==यजुर्वेदस्य विभागः==
यजुर्वेदः द्विधा विभज्यते । यथा – [[शुक्लयजुर्वेदः]], [[कृष्णयजुर्वेदः|कृष्णयजुर्वेदश्चेति]] । तत्र ब्रह्मसम्प्रदायस्य प्रतिनिधिः कृष्णयजुर्वेदो भवति , आदित्यसम्प्रदायस्य प्रतिनिधिश्च शुक्लयजुर्वेदोऽस्ति ।शुक्लयजुर्वेदस्य मन्त्रसंहिता वाजसनेयीसंहिता इत्युच्यते । कृष्णयजुर्वेदस्य संहिता च मैत्रायणीसंहिता इति कथ्यते । वेदस्य द्वौ सम्प्रदायौ स्तः - ( १ ) ब्रह्म-सम्प्रदायः ( २) आदित्यसम्प्रदायः च। शतपथब्राह्मणानुसारेण अादित्ययजुः शुक्लयजुर्वेदनाम्ना विख्यातोऽस्ति, तथा याज्ञवल्क्येनाख्यातोऽस्ति - '''‘अादित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते''''।<ref>(श० ब्रा० १४।।९।।५।। ३३)</ref> अतः अादित्यसम्प्रदायस्य प्रतिनिधिः शुक्लयजुर्वेदोऽस्ति तथा ब्रह्मसम्प्रदायस्य प्रतिनिधिः कृष्णयजुर्वेदोऽस्ति । यजुर्वेदस्य शुक्लत्वकृष्णत्वयोर्भेदस्तस्य स्वरूपस्योपरि अाश्रितोऽस्ति । शुक्लयजुर्वेदे दर्शपौर्णमासाद्यनुष्ठानाय एव मन्त्राणां सङ्कलनमस्ति । कृष्णयजुर्वेदे तु मन्त्रैः सह तन्नियोजकानां ब्राह्मणानां सम्मिश्रणमस्ति । मन्त्रब्राह्मणयोर्भागस्य एकत्र मिश्रणमेव कृष्णयजुर्वेदाय कृष्णत्वस्य कारणमस्ति । अनेनैव रूपेण मन्त्राणां विशुद्धं तथा अमिश्रितरूपमेव शुक्लयजुर्वेदस्य शुक्लत्वस्य कारणमस्ति
 
आर्याणां कुरुषु अधिनिवेशकाले संग्रथितो यजुर्वेद इति अभिप्रायः । यजुर्वेदस्य अध्वरवेद इति नामान्तरमस्ति । यजुषः एकोत्तरशतं शाखाः सन्ति इति पतञ्जलिः प्रपञ्चहृदयकारः च प्रस्तौति । वाजसनेयापरनाम कृष्णयजु‍वेदः गद्यपद्यात्मा । यदीया रचना विश्ववश्या देदीप्यते ।
"https://sa.wikipedia.org/wiki/यजुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्