"कृष्णयजुर्वेदः" इत्यस्य संस्करणे भेदः

तैत्तिरीयसंहिता
पङ्क्तिः १२:
 
तैत्तिरीयसंहितायाः प्रसारः [[दक्षिणभारतम्|दक्षिणभारते]] अस्ति । अांशिकरूपेण [[महाराष्ट्रराज्यम्|महाराष्ट्र]]<nowiki/>प्रदेशः समग्ररूपेण च आन्घ्रद्रविडदेशीयाः अस्याः शाखायाः अनुयायिनः सन्ति। अस्याः संहितायाः स्वकीयाः ब्राह्मण-आारण्यक-उपनिषद्-श्रौतसूत्र-गृह्यसूत्रप्रभृतयः अक्षुण्णाः सन्ति । तैत्तिरीयसंहितायाः परिमाणमपि न्यूनं नास्ति । आचार्यसायणस्य इयं स्वकीया शाखाऽऽसीत् ।
 
== [[मैत्रायणीसंहिता]] ==
{{Main|मैत्रायणीसंहिता}}
 
मैत्रायणीसंहिता कृष्णयजुर्वेदस्य अन्यतमा संहिता। इयं संहिता गद्य-पद्यात्मिकाऽस्ति । अस्यां संहितायां चत्वारः काण्डाः सन्ति ।
 
== [[कठसंहिता]] ==
{{Main|कठसंहिता}}कठसंहिता [[यजुर्वेद]]<nowiki/>स्य सप्तविंशति-शाखासु अन्यतमाऽस्ति । [[पुराणानि|पुराणे]]<nowiki/>षु काठकजनाः [[मध्यप्रदेशराज्यम्|मध्यप्रदेशीया]] वा माध्यमनाम्ना विख्याताः सन्तिः । अनेन ज्ञातो भवति यत्ते प्राचीनकाले मध्यप्रदेशेऽवसन्। [[पतञ्जलिः|पतञ्जलेः]] कथनानुसारेण कठसंहितायाः प्रसारस्तथा पठनं-पाठनं प्रतिग्रामम् आसीत् ('ग्रामे ग्रामे काठको कालापकं च प्रोच्यते') । अनेनास्याः संहितायाः प्राचीनकाले विपुलप्रचारस्य बोधो भवति । किञ्च अधुनाऽस्याः अध्येतृृणां संख्या नगण्याऽस्ति।
 
== [[कपिष्ठलकठसंहिता]] ==
{{Main|कपिष्ठलकठसंहिता}}कपिष्ठलकठसंहितायाः नाम कस्यचित् ऋषेः नाम्ना अस्ति। एतस्याः संहितायाः पूर्णः ग्रन्थः अनुलब्धः। एतस्मिन् ग्रन्थे [[ऋग्वेद]]<nowiki/>स्य प्रभावः दरीदृश्यते। चरणव्यूहस्य मतानुसारेण चरकशाखान्तर्गते कष्ठानां, प्राच्यकठानां कपिष्ठलकठानाञ्च उल्लेखो लभते, येनोल्लेखेन अस्य शाखा-सम्बन्धस्य पूर्णपरिचयो भवति ।
 
== वैशिष्ट्यम् ==
"https://sa.wikipedia.org/wiki/कृष्णयजुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्