"सामवेदः" इत्यस्य संस्करणे भेदः

=== जैमिनीय शाखा ===
अस्याः शाखायाः समग्रांशाः, ब्राह्मण-श्रौत-गृह्यसूत्रसहिताः समुपलब्धाः सन्ति । जैमिनीयसंहिता नागराक्षरेऽपि [[लाहोर|लाहौर]]<nowiki/>नगरात् प्रकाशिताऽभवत् । अस्याः मन्त्राणां संख्या १६८७ वर्तते । तवलकारशाखा अस्या एव अवान्तरशाखा वर्तते । [[तवलकारः|तवलकारो]]<nowiki/>ऽयं [[जैमिनिः|जैमिनि]]<nowiki/>ऋषेः पट्टशिष्यः आसीत् । जैमिनीयसामगानस्य प्रथमप्रकाशन संस्कृतविश्वविद्यालयवाराणसीतोऽभवत् । सामगानमिदं पूर्वार्चिकेन सम्बद्धमस्ति । अस्य त्रयो भागाः सन्ति - आग्नेयः, ऐन्द्रः, पवमानश्चेति । एतेष्वादिमस्य चान्तिमस्य च पर्वस्य – विशेषविभागो नास्ति, किञ्चैन्द्रपर्वस्य चत्वारो भागाः सन्ति । सम्पूर्णग्रन्थे गानसंख्या १,२२४ वर्तते । कौथुमीयसामसंहितातः जैमिनीयसामसंहितायाः पाठे सर्वथा भेदी नास्ति, किञ्च गानप्रकारस्तु सर्वथा भिन्ना एवास्ति । अद्यपर्यन्तं केवलमस्य प्रथमभाग एव प्रकाशितोऽस्ति। द्वितीयखण्डस्तु हस्तलेखे एवास्ति ।
 
== सामवेदविमर्शः ==
‘साम'-शब्दस्तु रूढोऽस्ति । अस्यार्थः गानमथवा गीतिरस्ति । अस्मिन् सन्दर्भे जैमिनिनाऽप्युक्तम्- ‘गीतिषु सामाख्या' इति।<ref>( जै० सू० २॥१॥३६ )</ref> सामगानविशेषस्य रथन्तरम्, बृहदादि च नामकरणमस्ति । सामशब्दस्तु सामान्यगानवाचकोऽस्ति तथा रथन्तर-बृहदादिशब्दास्तु विशेषगानवाचकाः सन्ति । रथन्तर-बृहदादिनामकरणस्य प्रयोजकः अध्येतृप्रसिद्ध एवास्ति । गायत्र्यादिषु सर्वेषु छन्दःसु सामगानमस्ति । उदाहरणार्थम् — 'अग्न आयाहि वीतये'<ref>(छन्द आर्थिकः १॥१॥१ )</ref>, अस्य गायत्रीच्छन्दसः ऋचामुपरि वेयगाने साममस्ति।<ref>( १॥१॥१ )</ref>
 
'पुरुत्वादाशिव'<ref>(छ० आ० २।१।१)</ref>, अस्योष्णिकछन्दस्क-ऋचामुपरि वेयगाने<ref>(२॥२॥१९)</ref> सामस्ति । ‘यज्ञयज्ञा वो'<ref>( छं० अा० १।१॥३५ )</ref>, अस्य बृहतीच्छन्दसः ऋचामुपरि वेयगाने<ref>( १॥२॥२७ )</ref> सामगानमस्ति । ‘स्वादोरित्थ विषुवतो'<ref>(छ० अा० ५॥१॥(१९)</ref>, अस्य पङ्क्तिच्छन्दस्क-ऋचामुपरि वेयगाने<ref>( ११॥ १॥६ )</ref> ‘अाजुहोता हविषा'<ref>(छ० अा० १॥२॥९)</ref>, अस्य त्रिष्टुप्छन्दसः ऋचामुपरि वेयगाने<ref>( २॥१॥३४ )</ref>, ‘चित्र इच्छिषो'<ref>(छं० आा० १॥२॥१० )</ref>, अस्य जगतीच्छन्दसः ऋचामुपरि वेयगाने<ref>( २॥१॥३५ )</ref> सामगानमस्ति । अनेन प्रकारेणैव अतिजगती-शक्वरी-अतिशक्वरी-अष्टि-अत्यष्टिप्रभूतीनामतिच्छन्दक-ऋचामुपरि सामगानमस्ति । साम्नः परस्परवैशिष्ट्य-विकार-विश्लेषण-विकर्षण-अभ्यास-विराम-स्तोमादीनां कारणम्भवति ।
 
यज्ञेषु औद्गातृगणस्य चतुर्णामृत्विजां कार्यकलापेषु क्वापि भिन्नता क्वचिच्च सहकारिताऽपि भवति । अस्य विधानं श्रौतसूत्रेण अवगन्तुं शक्यते । साम्नां यज्ञेषु क्वचित् केवलं प्रस्तोत्रे क्वचिच्चोद्गात्रे गानविधानमस्ति । क्वचिच्च प्रस्ताव-उद्गीथ-प्रतीहार-उपद्रव-निधनरूपैः गानस्य पञ्चविभागं कृत्वा विभिन्नांशाय ऋत्विग्भिः उच्चारण्यविधिरस्ति ।
 
पूर्वार्चिकस्य उत्तरार्चिके नैतदेव सम्बन्धमस्ति यदुत्तरार्चिके यत्प्रगाथः किंवा ऋचां सूक्तानि सन्ति, तास्वधिकतराः प्राक् ऋचः पूर्वार्चिके पठिताः सन्ति । पूर्वार्चिके नानाविधसाम्नां योनिभूताः ऋचः पठिताः सन्ति, तथोत्तरार्चिके प्रगाथतृचादिसूक्तानि पठितानि सन्ति । एकस्मिन् प्रगाथात्मके वा तृचाद्यात्मके पर्याप्तपर्यालोचनं कृतवन्तः डा० कैलेण्डरमहोदयस्तु पूर्वमुत्तरार्चिकम् एव उभयोः मध्ये अपेक्षाकृतप्राचीनतरम् अमन्यत्, किञ्च सम्प्रति सः पूर्वमतं भ्रान्तं मत्वा तं त्यक्तवान् । सामविधानब्राह्मणे उत्तरार्चिकस्य मन्त्राणामुद्धरणं कुत्राऽपि न दृश्यते । अथर्वपरिशिष्टस्य<ref>( ४६॥३॥६)</ref> अनुसारेण पूर्वार्चकस्य उपान्ता ऋगेव सामवेदस्य अन्तिमा ऋगस्ति।<ref>( सा० सं० ५८४ )</ref> अस्य एव प्रमाणस्य आधारे डॉ० ओल्डनवर्गमहोदयेन पूर्वार्चिकं पूर्वतरं स्वीकृतम्। उत्तरार्चिकस्तु निश्चितरूपेण यज्ञोपयोगिनामृचाम् अवान्तरकालिकः सङ्ग्रह एवास्ति । एतावदेव नास्ति, प्रत्युत अस्योपरि आश्रितम् ऊह्यगानमूहगानश्च तैः सामवेदीयग्रन्थस्य पश्चाद् विरचितं मन्यते। ते एतान् गानग्रन्थान् ताण्ड्यब्राह्मणात्पश्चात्, लाटयायनश्रौतसूत्राद् पश्वाद्, आर्षेयकल्पसूत्रात्, पुष्यसूत्रादपि पश्चाद्वर्त्तिनी रचनाज्ञातुं आग्रहं कुर्वन्ति। ब्राह्मायणश्रौतसूत्रस्य टीकाकारः धन्वी वदति-ऊहयानन्तु सूत्रकारादपि पश्चान्निर्मित्तम् अभवत्।
 
== सामवेदस्य पदकाराः ==
७५,२१७

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/423511" इत्यस्माद् पुनः प्राप्तिः