"संस्कृतसाहित्यशास्त्रम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) NehalDaveND इत्यनेन शीर्षकं परिवर्त्य संस्कृतवाङ्मयम् पृष्ठं संस्कृतसाहित्यशास्त्रम् प्रति स्थ... |
{{मुख्यलेखः| |
||
पङ्क्तिः १०१:
==भूगर्भशास्त्रम् ==
{{
भूमेः गोलाकृतिंम् ऐदम्प्राथम्येन मागल्लनामकः प्रतिपादितवान् इति वयं पाठ्यपुस्तकेषु पठामः । संस्कृतभाषायां तु आप्राचीनकालतः व्यवहारः भूगोलम् इत्येव । एषः व्यवहारः एव खलु समर्थयति भूमेः गोलाकारताम् ? अपि च गोलपरिभाषायाम् उच्च्यते । <br />
::मृदम्ब्वग्न्यनिलाकाशपिण्डोऽयं पाञ्चभौतिकः।
पङ्क्तिः ११३:
==गणितम्==
{{
आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया [[वेदगणितम्|वेदगणित]]पद्धतिः । शून्यं, दशांशपद्धतिः, सङख्याः, मूल्यम् इत्यादयः बहवः अंशाः भारतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः । पैथगोरियन् सिद्धान्तः इति यत् इदानीं पाठ्यते (कर्णवर्गः उ पादवर्गः अ लम्बवर्गः ) स च सिद्धान्तः पैथगोरसस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरूपितः आसीत् ।
::तत्कृत्योर्योगपदं कर्णः दोष्कर्णवर्गयोर्विवरात् ।
पङ्क्तिः १२१:
==भौतशास्त्रम्==
{{
सायणाचार्यः प्रकाशस्य वेगम् एवं प्रतिपादयति –
::योजनानं सहस्रे द्वे द्वे शते द्वे च योजने ।
पङ्क्तिः १३१:
==विमानशास्त्रम्==
{{
वायुप्रवाहतः उत्पन्नम् ऊर्जं, सौरोर्जम्, एतरेन्धनोर्जं च उपयुज्य सञ्चार्यमाणानि विमानानि अत्र आसन् । [[भरद्वाजः|भरद्वाज]]महर्षेः यन्त्रसर्वस्वम्, [[अगस्त्यः|अगस्त्यस्य]] शक्तिसूत्रम्, ईश्वरस्य सौदामिनिकला, भरद्वाजस्यैव अंशुमात्तन्त्रं, [[शाकटायनः|शाकटायन]]स्य वायुतत्त्त्वप्रकरणं वैश्व मारुततन्त्रं च, [[नारदः|नारद]]स्य धूमप्रकराणम् इत्यादीनां विमानशास्त्रसम्बद्धानां ग्रन्थानाम् उल्लेखाः दृश्यन्ते । भोजस्य समराङगणसूत्रधारं, शौनकमहर्षेः व्योमयानतन्त्रं, गर्गस्य यन्त्त्त्रकल्पः, नारायणस्य विमानचन्द्रिका, वाचस्पतेः यानबिन्दुः [[दुण्डिनाथः|दुण्डिनाथ]]स्य व्योमयानार्कप्रकाशिका, चक्रायणिमुनेः केतुयानप्रदीपिका इत्यादयः अनेके ग्रन्थाः अपि विमानशास्त्रसम्बद्धाः एव ।<br />
विमानस्य अवरोहणकाले, भूस्पर्षसमये चैव अपघातस्य सम्भावना अधिक इति भरद्वाजमहर्षिः कथयति । अद्यापि समस्ति खलु सा एव स्थितिः ? विस्तारभयात् विषयोऽयं न विस्तार्यते । ।
==रसतन्त्रम्==
{{
चिकित्सायाम् अपि अस्य रसतन्त्रस्य उपयोगः आसीत् । पातञ्जलमहर्षेः लोहशास्त्रं लोहसंस्करणेन लवणनिर्माणरीतिं वर्णयति । क्रि.पू. द्वितीये शतके जातस्य नागर्जुनस्य रसरत्नाकरग्रन्थः लोह्यायनिर्माणार्थं साङकेतिकव्यवस्थां निरूपयति । परीक्षणशालायाः रचनाम्, तत्रत्यानि उपकरणानि, एकैकस्यापि प्रक्रियायाः कृते आवश्यकाः तापविशेषाः, रसतः औषधनिर्माणरीतिः इत्यादयः अपि अस्मिन् ग्रन्थे सन्ति । रसस्तम्भनादयः नवदशप्रक्रियाः अपि अत्रैव वर्ण्यन्ते । एकादशशतकीयः (क्रि.श.११) रसार्णवग्रन्थः लोहस्य विविच्य ज्ञानाय ज्वालापरीक्षणव्यवस्थां (flame test) वर्णयति । देहलीस्थः विष्णुस्थम्भः अजन्ताचित्राणि च भारतीयरसतन्त्रस्य प्रत्यक्षोदाहरणानि सन्ति ।
==जीवशास्त्रम्==
{{
[[चरकसंहिता]], [[सुश्रुतसंहिता]], [[अष्टाङगहृदयम्|अष्टाङगहृदयं]], [[भावप्रकाशः]] इत्यादयः प्रसिद्धाः [[आयुर्वेदग्रन्थाः]] केचन । शस्त्रक्रिया, प्रतिरोधचिकित्सा च प्राचीनकालात् एव अत्र आसीत् । ९२७ तमे क्रिस्ताब्दे भोजराजस्य मस्तिष्कशस्त्रक्रियां [[जीवकः]] नाम वैद्यः कृतवान् इति श्रूयते । सुश्रुतसंहितायां शस्त्रक्रियोपकारकाणि शस्त्रयन्त्रादीनि बहूनि उल्लिखितनि । भावमिश्रस्य भावप्रकाशे रक्तसञ्चारविषये अपि उच्यते । चिकित्सार्थं मोहनिद्रायाः (हिप्नाटिसम्) उपयोगः भारते एव ऐदम्प्राथम्येन कृतः ।<br />
[[वृक्षायुर्वेदः]], [[गजायुर्वेदः]], [[अश्वायुर्वदः]] इत्यादयः निरवधिशाखाः तिर्यग्जीवशास्त्रम् अधिकृत्य प्रवृत्ताः । तेषां रोगाः, तच्चिकित्सा, तेषाम् [[आहारः]] इत्यादयाः अपि तत्र वर्णिताः । मृगवैद्यकस्य पिता इति विख्यातेन शालिहोत्रेण अश्वलक्षणम्, अश्वप्रश्नः इत्यादयः ग्रन्थाः रचिताः । [[गौतमः|गौतम]]स्य [[गावायुर्वेदः]], पालकाप्यस्य [[हस्तायुर्वेदः]] च लोके प्रसिद्धौ । [[वराहमिहिर]]स्य [[बृहत्संहिता]] वृक्षशुश्रूषाम् अधिकृत्य वदति ।
==ज्योतिश्शास्त्रम्==
{{
असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रूढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्य स्वरूपं चपलः सरक्तगौरः मज्जासारश्च माहेयः इत्येवम् उक्तवान् अस्ति । उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते इति । कुजः (भूमिपुत्रः) इति शब्दः एव तद्ग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? सूर्यादीनां सञ्चारः भ्रममूलः, ग्रहाणां स्वप्रकाशता नास्ति इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः । एते विषयाः इतःपूर्वं परिचायिताः इत्यतः विरम्यते विस्तरात् ।
==वास्तुविद्या==
{{
सिन्धुसभ्यताचित्राणि प्रायः सर्वानपि आश्चर्यचकितान् कुर्वन्ति एव । तत्रत्या वास्तुविद्या अतिप्राचीना अत्युत्कृष्टा च । कर्णाटके बेलूरे विद्यमानः भूमिस्पर्शरहितः स्तम्भः, [[कोणार्क]]क्षेत्रे सूर्यदेवालयः, [[शृङगेरी|शृङगेरि]]स्तम्भाः, अनन्तपुरीस्थाः सप्तस्वरप्रभावाः मण्डपाधारः स्तम्भाः, [[अजन्ता]]–[[एल्लोर]]गुहाः [[देहली]]स्थः विष्णुस्तम्भः इत्यादयः अनेके अंशाः भारतीयवास्तुविद्यायाः गरिमाणं प्रामाणीकुर्वन्ति । मयमतं, [[मयसारः]], मनुष्यालयचन्द्रिका, सुप्रभेदागमः, वास्तुरत्नावली, कामिकागमः, बृहद्वास्तुमाला इत्यादिषु अनेकेषु ग्रन्थेषु वास्तुशास्त्रं निरूपितम् अस्ति ।
==सङ्गीतम्==
{{
संङ्गीतम् अधिकृत्य न बहु वक्तव्यम् अस्ति । यतः एतस्मिन् विषये सर्वे जानन्ति एव । चिकित्सार्थम् अपि सङ्गीतम् उपयुज्यते स्म अस्मदाचार्यैः । [[संङ्गीतचिकित्सारत्नाकरः|संङ्गीतचिकित्सारत्नाकर]]नामकः ग्रन्थः ३४८०० रोगाणां विषये विस्तरेण वदति । तेषां चिकित्सोपयोगिताम् अपि प्रतिपादयति सः ग्रन्थः ।
एकैकः अपि संस्कृतज्ञाः एकैकशास्त्रस्य पारङगतः सन् तत्तच्छास्त्रस्य परिरक्षणं प्रसारं च करोतु इति अपेक्षा ।
|