"काव्यम्" इत्यस्य संस्करणे भेदः

ग्रन्तप्रकाराः
पङ्क्तिः ५:
== काव्यग्रन्थानां प्रकाराः ==
 
काव्यशास्त्रप्रणाल्यां मुख्यतः पञ्चविधाषड् विधा ग्रन्था दृश्यन्ते। काव्यसर्वाङ्गविवेचकाः, कव्यालङ्कारमात्रविवेचकाः, ध्वनिसम्बद्धाः (समर्थकाः, विरोधिनः), रससम्बद्धाः, नाट्यसम्बद्धाः, विचारग्रन्थाः च।
 
दण्डिनः काव्यादर्शः, वामनस्य काव्यालङ्कारसूत्रवृत्तिः, रुद्रटस्य काव्यालङ्कारः, भोजस्य सरस्वतीकण्ठाभरणं, कुन्तकस्य वक्रोक्तिजीवितं, मम्मटस्य काव्यप्रकाशः, हेमचन्द्रस्य काव्यनुशासनम्, वाग्भटस्य वाग्भटालङ्कारः, वाग्भटस्य काव्यानुशासनम्, मलयजपण्डितस्य साहित्यसारः, जयदेवस्य चन्द्रालोकः, विश्वनाथस्य साहित्यदर्पण:, जगन्नाथस्य रसगङ्गाधरः काव्यसर्वाङ्गविवेचकाः ।
पङ्क्तिः १६:
 
भरतस्य नाट्यशास्त्रं, धनञ्जयस्य दशरूपकं, सागरनन्दिनो नाटकलक्षणरत्नकोशः, रामचन्द्रगुणचन्द्रयोर्नाटयदर्पणः, विद्यानाथस्य प्रताप्ररुद्रयशोभूषणं, शारदातनयस्य भावप्रकाशनम्, रूपगोस्वामिनो नाटकचन्द्रिका च नाट्यग्रन्थाः ।
 
रुद्रटस्य सहृदयलीला, क्षेमेन्द्रस्य कविकण्ठाभरणं, सुवृत्ततिलकमौचित्यविचारचर्चा च, राजशेखरस्य काव्यमीमांसा, अरिसिंहामरचन्द्रयोः काव्यकल्पलता, देवेश्वरस्य कविकल्पलता, विश्वेश्वरस्य कवीन्द्रकणभरणं रामानन्दस्य रसिकजीवनं च विचारग्रन्थाः।
 
==काव्यविमर्शः==
"https://sa.wikipedia.org/wiki/काव्यम्" इत्यस्माद् प्रतिप्राप्तम्