"पश्चिमवङ्गराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ७४:
३ शतके बङ्ग राज्यस्य महान् भागः चक्रवर्तिना अशोकेन जितः आसीत् । ४ शतके अयं भागः गुप्तसाम्राज्येन वशीकृता । १८ शतके ब्रिटिश्जनानां शासनस्य आरम्भपर्यन्तम् इदं राज्यं बहुभिः सुल्तानपदवाचैः, समर्थहिन्दुराजैश्च शासितम् । १७५७ तमे वर्षे जाते प्लास्सीसङ्ग्रामस्य अनन्तरम् अयं प्रदेशः ब्रिटिश्-ईस्ट्-इण्डियासंस्थया वशीकृतः । तेषां राजधानीत्वेन कलिकाता(कोलकाता)नगरम् आसीत् । ब्रिटिश्जनानां सुदीर्घशासनस्य कारणतः पाश्चात्यशिक्षणं, वैज्ञानिकप्रगतिः, सांस्थिकशिक्षणं, धर्मस्य सामाजिकपरिवर्तनं च जातम् । ततः -बाङ्गला -नवोदयःजातः । १९४७ तमे वर्षे स्वातन्त्र्यसङ्ग्रामस्य अनन्तरम् इदं राज्यं द्विधा विभक्तम् - भारतस्य राज्यं पश्चिमबङ्ग, पूर्वबङ्ग यच्च आदौ पाकिस्थानस्य भागः आसीत् । १९७१ तमे वर्षे बाङ्गलादेशस्य भागः जातः ।
 
कृषिप्रधानराज्यमिदं भारतस्य गृहोत्पादने षष्ठे स्थाने विद्यते । दशकत्रयात् साम्यवादिसर्वकारः राज्यं शास्ति । कलिकाता(कोलकाता) भारतस्य 'सांस्कृतिकराजधानी' इति प्रसिद्धा । नोबेल्प्रशस्तिविजेता विश्वकवि रवीन्द्रनाथठाक्कुरः अत्रत्यः । सङ्गीतज्ञाः चित्रनिर्मापकाः कलाविदश्च बहवः विद्यन्ते अत्र । क्रिकेट्-सासर्-क्रीडाश्च अत्र आधिक्येन दृश्यते ।
 
== शब्दनिष्पत्तिः ==
"https://sa.wikipedia.org/wiki/पश्चिमवङ्गराज्यम्" इत्यस्माद् प्रतिप्राप्तम्