"मार्कण्डेयः" इत्यस्य संस्करणे भेदः

0
वर्धितः लेखः
पङ्क्तिः १:
{{Infobox character
'''मार्कण्डेयः''' दुर्गासप्तशत्याः रचयिता वर्तते। सः मृत्युञ्जयमहामन्त्रेण अभयं प्राप्नोत्।
| alt = मार्कण्डेयः
| caption = मार्कण्डेयः
| family = मृकण्डुः (पिता) मरुद्वति (माता)
| spouse = धूमोर्णा
}}
 
मार्कण्डेयः पुराणे प्रसिद्धः ऋषिः। महाभारते अपि अस्य उल्लेखः विद्यते। एषः भृगुमहर्षेः वंशे जातः मृकण्डुमहर्षेः पुत्रः। मार्कण्डेयजैमिन्योः संवादः मार्कण्डेयपुराणे उक्तः विद्यते। भागवते अपि मार्कण्डेयेन कृता स्तुतिः, मार्कण्डेयस्य उपदेशाः च वर्तन्ते<ref>[http://srimadbhagavatam.com/12/8/en1 Srimad Bhagavatam, Canto 12, Chapter 8: Markandeya's Prayers to Nara-Narayana Rishi] {{webarchive|url=https://web.archive.org/web/20080314234023/http://srimadbhagavatam.com/12/8/en1 |date=14 March 2008 }}</ref>। अद्यत्वे उत्तराखण्डस्य उत्तरकाश्यां यमुनोत्रीगमनमार्गे मार्कण्डेयाश्रमः विद्यते<ref name=utt>[http://uttarkashi.nic.in/aboutDistt/Temple.htm Yamunotri Temple] {{webarchive|url=https://web.archive.org/web/20090731232226/http://uttarkashi.nic.in/aboutDistt/Temple.htm |date=31 July 2009 }} [[Uttarkashi district]] website.</ref>।
 
==जन्म==
मृकण्डुऋषेः अपत्यम् नासीत्। अतः सः शिवमुद्दिश्य तपः आचरितवान्। शिवः प्रत्यक्षः सन् मृकण्डुमुनये विकल्पद्वयं दत्तवान्। कश्चन बुद्धिहीनः दीर्घायुः बालः जायते, आहोस्वित् बुद्धिमान् अल्पायुः बालः जायते इति। मृकण्डुः बुद्धिमान् अल्पायुः एव बालः भवेत् इति वरम् अपृच्छत्। एवं तस्य मरुद्मत्यां मार्कण्डेयः जातः। तस्य आयुः षोडशवर्षाणि इति निर्णीतम् आसीत्।
 
==मृत्योः तारणम्==
[[File:Raja Ravi Varma, Markandeya.jpg|left|thumb|यमाद् मार्कण्डेयं रक्षन् शिवः]]
मार्कण्डेयः सर्वदा अपि शिवपूजने एव रतः आसीत्। शिवलिङ्गस्य अर्चने एव सः समयं यापयति स्म। यदा तस्य आयुः षोडशवर्षं भवति, तदानीं यमः तं नेतुम् आगच्छति। परन्तु सः शिवपूजायां निरतः इति कारणतः तं स्प्रष्टं न शक्नोति। परन्तु समाप्तायुः सः कथञ्चित् नेतव्यः इति कृत्वा नासिकायां गृहीत्वा कर्षति। तदानीं मार्कण्डेयः शिवलिङ्गस्योपरि पतति। शिवः तत्रागत्य यमेन सह युद्धं करोति। यमः पराजितः भवति। शिवः मार्कण्डेयः चिरञ्जीवी भवतु इति वरं दत्तवान्। अतः एव सप्तानां चिरञ्जीविनां नामोच्चारणानन्तरं मार्कण्डेयस्यापि नामोच्चारणं क्रियते। यथा-
<poem>अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः।
कृपः परशुरामश्च सप्तैते चिरजीविनः॥
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयं तथाष्टमम्।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः<ref>[https://books.google.co.in/books?id=jWB1AgAAQBAJ&pg=PA118&lpg=PA118&dq=%E0%A4%85%E0%A4%AA%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%81+%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%9C%E0%A4%BF%E0%A4%A4&source=bl&ots=ZB-r-UCO5M&sig=ACfU3U3hYDrQbO_eRqmkdCbbfVYEJL0QUQ&hl=en&sa=X&ved=2ahUKEwizm6KT6ozmAhWOwJQKHcgrCeIQ6AEwAnoECAoQAQ#v=onepage&q=%E0%A4%85%E0%A4%AA%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%81%20%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%9C%E0%A4%BF%E0%A4%A4&f=false मृत्युञ्जयभारतम्]</ref>॥<poem>
महाभारतानुसारं शिवयमयोः युद्धं न वर्णितम्। मार्कण्डेयस्य निरन्तरपूजया सन्तुष्टः शिवः एव आगत्य मार्कण्डेस्य चिरञ्जीवित्वं समकल्पयत् इति कथा वर्तते <ref>[https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-03-%E0%A4%86%E0%A4%B0%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-130 महाभारतम् अरण्यपर्व १३० (विकिस्रोतः)]</ref>।
 
==पार्वत्याः वरदानम्==
मार्कण्डेयपुराणान्तर्गते सतीपुराणे पार्वत्याः वरदानस्य उल्लेखः विद्यते। चिरञ्जीविने मार्कण्डेयाय पार्वती वीरचरिताख्यं स्तोत्रं रचयितुं शक्तिं दत्तवती। तेन मार्कण्डेयः पार्वत्याः चरितम् लिखितवान्। तदेव अद्यत्वे दुर्गासप्तशती इति प्रसिद्धं विद्यते<ref>Sati Purana | David Kinsely Englis translation | 2012 edition</ref>।
 
==भागवते==
[[Image:Shesh shaiya Vishnu.jpg|thumb|विष्णुं प्रार्थयमानः मार्कण्डेयः]]
भागवतपुराणे मार्कण्डेयस्य अपरा कथा वर्तते। तत्र कदाचित् मार्कण्डेयः विष्णोः सन्निधानं गत्वा मायाशक्तिः दर्शनीया इति न्यवेदयत्। विष्णुः स्वमायां दर्शयितुं समुद्रे वटपत्रे शिशुरूपेण शयनम् अकरोत्। मार्कण्डेयं परितः जलं व्यापृतम्। मार्कण्डेयः रक्षां प्राप्तुं विष्णोः मुखं प्रविष्टः। विष्णोः उदरे प्रविश्य सप्त लोकान् सर्वाणि सम्राज्यानि च दृष्टवान्। विष्णोः स्मरणेन ततः बहिः आगतवान्। तदनन्तरं १००० वर्षाणि यावत् विष्णोः सह एव जीवनं यापितवान्। तस्मिन् एव काले बालमुकुन्दाष्टकम् अरचयत् च<ref>http://srimadbhagavatam.com/12/9/en1 Bhagavata Purana, Canto 12, Chapter 9: Mārkaṇḍeya Ṛiṣhi Sees the Illusory Potency of the Lord Narayana</ref>।
 
==महाभारते==
महाभारते अपि मार्कण्डेयऋषेः उल्लेखः विद्यते। पाण्डवानां वनवासकाले मार्कण्डेयः काम्यकवनमागत्य पाण्डवान् अबोधयत्। तथैव नारदेन सह सम्भाषणं च अकरोत् इत्युल्लेखः दृश्यते।
 
 
==उल्लेखाः==
{{reflist}}
 
[[वर्गः:ऋषयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाःपुराणपात्राणि]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:संचित्रसारमञ्जूषे योजनीये]]
"https://sa.wikipedia.org/wiki/मार्कण्डेयः" इत्यस्माद् प्रतिप्राप्तम्