"ज्ञानयोगः" इत्यस्य संस्करणे भेदः

लिपिप्रदूषणं निष्कासनम्।
लिपिप्रदूषणं निष्कासनम् ।
पङ्क्तिः १:
 
 
'''ज्ञानयोगः''' योगस्य विविधासु शाखासु अन्यतमा । युज् धातुतः आगतस्य योगशब्दस्य कश्चन अर्थः अस्ति चित्तैकाग्रता इति । योगस्य इदं मुखं राजयोगस्य विषयवस्तु । उभयोः वस्तुनोः संयोगः इति अन्यः अर्थः । जीवात्म-परमात्मनोः संयोगः प्रकृतः विषयः । इदं मुखं [[वेदान्तदर्शनम्|वेदान्तदर्शनस्य]] विषयवस्तु । कश्चन जनः यत् प्राप्तुम् इच्छति तत् प्राप्तुं (तेन सह संयोक्तुम् एकीभवितुम्) ये मार्गाः अनुस्रियन्ते ते योगाः इति निर्दिश्यन्ते । [[पुरुषार्थः|पुरुषार्थाः]] चत्वारः । एतेषु प्रमुखः अस्ति [[मोक्ष-पुरुषार्थः|मोक्षः]], मुक्तिः । अस्य प्राप्तिमार्गाः एव योगाः । तेषु अन्यतमः अस्ति ज्ञानयोगः ।
 
==ज्ञानस्य महत्ता==
आहार-निद्रा-भय-मैथुनञ्च सर्वेषु प्राणिषु यथा तथा मनुष्यप्राणौ अपि विद्यते । मानवस्य वैशिष्ट्यं नाम तस्य ज्ञानम् । इदं ज्ञानं द्विविधम् - प्रपञ्चज्ञानम् आत्मज्ञानञ्चेति । बाह्यप्रपञ्चज्ञानम् इन्द्रियं, मनः बुद्धिः इत्येतेषां व्यापारेण ज्ञायते । केषाञ्चन प्राणिनाम् इन्द्रियशक्तिः अधिका स्यात् । किन्तु मनः बुद्धिश्च मानवविशेषः । मानवः स्वस्य विशेषबुद्धिशक्त्या प्रकृत्याः सूक्ष्मानुसन्धानं कृतवान् अस्ति । बहिः अदृश्यमानानि निगूढसत्यानि वैज्ञानिकप्रयोगाणां द्वारा मानवः आविष्कृतवान् अस्ति । अस्य विज्ञानस्य आधारेण प्राकृतिकशक्तीः वशीकृत्य भोगसाधनानि यन्त्रोपकरणानि आविष्कृतवान् अस्ति । अस्य फलरूपेण मानवजीवनस्य भौतिकस्तरः नितरां परिष्कृतः अस्ति । अस्याः प्रगतेः अन्त्यं न विद्यते । बाह्यज्ञानक्षेत्रे अयम् अद्भुतः विजयः ।
 
==तत्त्वानि==
पङ्क्तिः ३२:
शमदमैः शिक्षितं चित्तं स्वाभाविकतया बाह्यव्यापारात् मुक्तिम् इच्छति यत् सा एव उपरतिः ।
===तितिक्षा===
तितिक्षा नाम सहनम् । प्रत्येकस्य मानवस्य जीवने अपि सुखदुःखे, लाभनष्टौ, मानापमानौ, जयापजयौ च अवश्यं भवन्ति एव । ते संसारसागरस्य तरङ्गाः। समचित्तेन तेषां सहनमेव तितिक्षा ।
===समाधानम्===
वस्तुनः यथास्तितिज्ञानमेव समाधानम् इति उच्यते । पूर्वाग्रहेण विना तटस्थभावेन अवलोकनस्य अभ्यासः कर्तव्यः ।
पङ्क्तिः ४०:
किं वस्तु नित्यं किम् अनित्यम् इत्येषः विवेकः तीक्ष्णबुद्ध्या प्राप्तव्यः । कर्माणि उत्तमानि चेदपि तेषां फलं न नित्यम् । आत्मज्ञानादेव शाश्वतफलप्राप्तिः इत्येतस्य अवगमनमेव विवेकः । सत्कर्मकारणात् अस्मिन् जन्मनि अन्यलोकेषु च प्राप्यमाणानां भोगानां विषये अपेक्षा न स्यात् । अपेक्षा यदि स्यात् तर्हि तादृशेषु कर्मसु एव आसक्तः भवेत् । ततः ज्ञानयोगस्य अधिकारी न भवेत् । कुलं जातिः मतं लिङ्गं वृत्तिः देशः इत्यादयः अंशाः अस्य अधिकारस्य प्राप्तेः हेतवः न भवन्ति । अधिकारस्म्पद्युक्तः यः कोपि जनः इदं प्राप्तुम् अर्हति ।
 
अस्य प्राप्त्यर्थं पूर्वजन्मसु पुण्यकर्माणि आचरितवान् स्यात् । पापेभ्यः मुक्तिं साधितवान् स्यात् । परमात्मनि अचला श्रद्धा, भक्तिः च स्यात् । देवता शास्त्रं गुरुः इत्येतेषां विषये अचलः विश्वासः स्यात् । एताः पूर्वसज्जताः कर्मयोगेन भक्तियोगेन कर्तुं शक्याः । कर्मयोगेन चित्तशुद्धिः भक्तियोगेन चित्तैकाग्रता च प्राप्यते ।
 
==साधनमार्गः==
"https://sa.wikipedia.org/wiki/ज्ञानयोगः" इत्यस्माद् प्रतिप्राप्तम्