"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
रक्षाबन्धनम्:-
गौतमबुद्धः:
 
रक्षाबन्धन श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः । मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति । ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति । भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।सूत्रबन्धनस्य पृष्ठे रक्षायाः भावत्वात् रक्षाबन्धनम् इति उच्यते । "आपत्तिभ्यः, रोगेभ्यः, दूषणेभ्यः च भ्रातुः रक्षणं भवतु" इति भगिनी प्रार्थनां करोति । ततः भ्राता अपि भगिन्यै रक्षणस्य वचनं यच्छति । अतः रक्षाबन्धनम् इति । आदिभारतीयसंस्कृतौ रक्षाबन्धनं न केवलं भ्रातृभगिन्योः सम्बन्धे सीमितम् आसीत्, अपि तु अन्यसम्बन्धेषु अपि रक्षाबन्धनस्य व्यवहारः आसीत् । यतो हि सूत्रं अविच्छिन्नतायाः प्रतीकत्वेनापि परिगण्यते । मौक्तिकमालायाः, पुष्पमालायाः च आधारः यथा सूत्रं भवति, तथैव रक्षासूत्रं प्रेमप्रतीकत्वेन जनानां सम्बन्धस्य आधाररूपं मन्यते । प्राचीनकिंवदन्त्यानुसारं संसारे यदा यदा नैतिकतायाः न्यूनता भवति,
निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत । सोऽयं महापुरुषः कपिलवस्तुनरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । बाल्यादेव सिदार्थस्य चित्तं विषयेषु नारमत । पुत्रस्य एतादृशीं विरक्तिं विलोक्य पिता तत् कृते सकलानि सुखसाधनानि समयोजयत् । परं सिद्धार्थस्य चित्तं तेषु मनागपि आसक्तं नाभवत् । अथ कदाचित् आतुरं कदाचि्त् वृद्धम्, अनन्तरं मृतकं ततः संन्यसिनं च विलोक्य तस्य हृदये महदवैराग्यम् अजायत । अतः मानवानां दुःखनिवृत्तये राजकुमारः सिद्धार्थः रात्रौ पियां पन्तीं नवजातं पुत्रं च विहाय गृहात् प्राव्रजत् । ततः स प्रथमं पंचभिः ब्राह्मणैः सह तपः आचरत्, किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्यासेन तपस्यया च एकस्मिन् दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुःखमयम्, दुःखस्य मूलं कामना, कामनायाः उन्मूलनम् साध्यम्, एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपादिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिकसुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न चोरयेत् । सर्वान् समदृष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्