"श्राद्धम्" इत्यस्य संस्करणे भेदः

भाषा संस्कृतिस्च
श्राद्धम्
(भेदः नास्ति)

०७:२४, १४ नवेम्बर् २०२० इत्यस्य संस्करणं

श्राद्धकर्म हिन्दूधर्मस्य अनुसारं, प्रत्येकं शुभकार्यस्य प्रारम्भे पितृभ्यः, पूर्वजेभ्यः च नमस्कारम् उत प्रणामं कर्तुम् आचर्यते। पूर्वजानां वंशपरम्परायाः कारणेन एव सन्ततिः अद्य एतत् जीवनं पश्यति। एतस्य जीवनस्य आनन्दं प्राप्नोति च। एतस्मिन् धर्मे ऋषयः वर्षे एकं पक्षं पितृपक्षस्य कृते निश्चितवन्तः, यस्मिन् पक्षे सन्ततिः स्वपितॄणां श्राद्धं, तर्पणं च कृत्वा तेषां मुक्तिहेतवे विशेषक्रियाः कृत्वा तेभ्यः अर्घ्यं समर्पयन्ति। यदि केनापि कारणेन तेषाम् आत्मा मुक्तिं न प्रापत्, तर्हि सन्ततिः तेषां शान्त्यै विशिष्टकर्म करोति, यत् 'श्राद्ध' इति प्रसिद्धम्।

व्याख्या

ब्रह्मपुराणे श्राद्धस्य परिभाषाः प्रदत्ताः सन्ति। 'यत्किमपि उचितकालस्य, पात्रस्य, स्थानस्य अनुसारम् उचितेन (शास्त्रानुमोदितेन) विधिना पितृभ्यः लक्ष्यीकृत्य श्रद्धापूर्वकं ब्राह्मणेभ्यः दीयते, तत् श्राद्धम् इति उच्यते।'

देशे काले च पात्रे च श्रद्धया विधिना च यत्।

पितृनुद्दिश्य विप्रभ्यों दत्तं श्राद्धमुदाह्रतम्।।[१]

मिताक्षरा मध्ये प्राप्यते –

'श्राद्धं नाम्तदनीयस्य तत्स्यानीयसय वा द्रव्यस्य प्रेतोद्देशेन श्रद्धया त्यागः।'[२]

श्राद्धकल्पतरुः मध्ये एतादृशम् उच्यते –

'एतेन पितृनुद्दिश्य द्रव्योत्यागो ब्राह्मणस्वीकरणपर्यन्तं श्राद्धस्वरूपं प्रधानम्।'[३]

श्राद्धक्रियाकौमुद्याः कथनमस्ति –

'कल्पतरुलक्षणमय्यनुर्वादय सन्यासिनामात्मश्राद्धे देवश्राद्धे सनकादिश्राद्धे चाव्याप्ते:।'[४]

श्रीदत्तकृत-पितृभक्तौ प्राप्यते –

'अत्र कल्पतरुकार: पितृनुद्दिश्य द्रव्यपातो ब्राह्मणस्वीकरणपर्यन्ती हि श्राद्धमित्याह तदयुक्तम्।'

दीपकलिका (याज्ञवल्क्यस्मृतिः 1/128) कल्पतरोः मतम् अङ्गीकरोति। श्राद्धविवेकः निम्नतया कथयति –

'श्राद्धं नाम वेदवोधितपात्रम्भनपूर्वकप्रमीतपित्रादिदेवतोद्देश्यको द्रव्यत्यागविशेष:।'[५]

श्राद्धप्रकाशः कथयति यत् –

'अत्रापस्तम्बादिसकलवचनपर्यालोचनया प्रमीतमात्रोद्देश्यकान्नत्यागविशेषस्य ब्राह्मणद्यधिककरण प्रतिपत्त्ययंगकस्य श्राद्धपदार्थत्वं प्रतीययते।'[६]

श्राद्धविवेकस्य कथनम् अस्ति यत्, 'द्रव्यत्यागः' वेदस्य शब्दद्वारा विहितम् (वेदबोधतम्) अस्ति। त्यक्तवस्तु सुपात्राय ब्राह्मणाय (पात्रालम्भनपूर्वकं) दीयते। श्राद्धप्रकाशे 'प्रतिपत्ति'शब्दस्य अर्थः अस्ति यत्, यज्ञे प्रयुक्तस्य कस्यापि वस्तोः अन्तिमपरिणतिः, यथा - दर्शपूर्णमासयज्ञे 'सह शाखया प्रस्तरं प्रहरति' वाक्यं प्राप्यते। अत्र 'शाखाप्रहरणं' 'प्रतिपत्तिकर्म' अस्ति,[७] न तु अर्थकर्म। एवम् आहिताग्निना सह तस्य यज्ञपात्राणाम् अपि दाहप्रतिपत्तिकर्म अस्ति (अनेन सह यज्ञपात्राणां सम्बन्धः अस्ति)।

मिताक्षरा[८] श्राद्धं निम्नतया परिभाषितं करोति - 'पितॄणाम् उद्देश्यं (तेषां कल्याणाय) श्राद्धापूर्वकं कस्यापि वस्तोः उत तत्सम्बद्धस्य द्रव्यस्य त्यागः एव श्राद्धम् इति उच्यते।' कल्पतरोः परिभाषा निम्नानुसारम् अस्ति, 'पितॄन् उद्देश्य (तेषां लाभाय) यज्ञीयवस्तोः त्यागद्वारा, ब्राह्मणद्वारा च तस्य ग्रहणप्रधानः श्राद्धस्वरूपः अस्ति।' इति। रुद्रधरस्य श्राद्धविवेकः, श्राद्धप्रकाशः च मिताक्षरास्य मतम् एव पुष्टयति, किन्तु तत्र परिभाषा मिश्रिता अस्ति। याज्ञवल्क्यस्मृतेः[९] कथनम् अस्ति यत्, पितरः, यथा–वसुः, रुद्रः, आदित्यः च। एताः श्राद्धस्य देवताः सन्ति, श्राद्धात् सन्तुष्टिं प्राप्य मानवानां पूर्वपुरुषेभ्यः ते सन्तुष्टिं प्रयच्छन्ति। एतत् वचनं मनोः[१०] उक्तिं स्पष्टयति यत्, मनुष्यस्य त्रयः पूर्वजाः, यथा – पिता, पितामहः, प्रपितामहः क्रमशः पितृ-देवाः, अर्थात् वसूनां, रुद्राणां च आदित्यवत् सन्ति। श्राद्धसमये पूर्वजानां प्रतिनिधयः मन्यन्ते। केषाञ्चन मते श्राद्धेन निम्नविषयाणां निर्देशः भवति - होमः, पिण्डदानं, ब्राह्मणतर्पणः (ब्राह्मणसंतुष्टिभोजनादिना); किन्तु श्राद्ध-शब्दस्य प्रयोगः एतैः सह गौणार्थे उपयुक्तः मन्यते।

  1. ब्रह्मपुराणं (श्राद्धप्रकाशः, पृ. 3 - 6; श्राद्धकल्पलता, पृ. 3; परा. मा. 1/2, पृ. 299)
  2. (याज्ञ. 1/217)
  3. पृ. 4
  4. (पृ. 3-4)
  5. (पृ. 1)
  6. (पृ. 4)
  7. जैमिनि. 4|2|10-13
  8. (याज्ञवल्क्यस्मृति 1|217)
  9. याज्ञवल्क्यस्मृति (1|268=अग्निपुराण 163|40-41)
  10. मनु (3|284)
"https://sa.wikipedia.org/w/index.php?title=श्राद्धम्&oldid=456378" इत्यस्माद् प्रतिप्राप्तम्