"श्राद्धम्" इत्यस्य संस्करणे भेदः

3
पङ्क्तिः ७७:
 
एकोदिष्टश्राद्धे केवलम् एकस्य पितुः सन्तुष्ट्यै श्राद्धं भवति। तत्र एकपिण्डस्य दानं, एकब्राह्मणभोजनं च कारणीयं भवति। यदि कोऽपि पूर्वजस्य मृत्युतिथिं न स्मरति, तर्हि सः अमावस्यायाः दिने ज्ञात-अज्ञातानां पूर्वजनां विधि-विधानेन सह पिण्डदानं, तर्पणं, श्राद्धं च कर्तुं प्रभवति। एतस्मिन् दिने कृतं तर्पणं १५ दिनानां तर्पणवत् पुण्यं प्रयच्छति। गृहे, परिवारे, व्यवसाये, आजीविकायां च विशेषोन्नतिः प्राप्यते। यदि परिवारस्य कस्यापि जनस्य अकालमृत्युः जातः, तर्हि पितृदोषस्य निवारणाय शास्त्रीयविध्यनुसारं तस्य आत्मशान्त्यै तस्मिँश्चित् पवित्रस्थले श्राद्धं करणीयं भवति। सामर्थ्यनुसारं केनापि सुयोग्येन कर्मनिष्ठेन ब्राह्मणेन [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवतपुराण]]<nowiki/>स्य कथा स्वपितॄणाम् आत्मशान्त्यै कारणीया भवति। एवं विशेषपुण्यफलस्य प्राप्तिः भवति। एतस्य फलतः परिवारात् अशांतिः, वंशवृद्धौ अवरोधः, आकस्मिकरोगः, निर्धनता, सुविधायां सत्याम् अपि मनसि अशान्तिः, असन्तुष्टिः च व्यपगच्छति।
 
==मातामहश्राद्धम्==
मातामहश्राद्धं किञ्चन श्राद्धम् अस्ति, यत् पुत्री स्वपितृभ्यः, पुत्रः स्वमातृपक्षस्य पितृभ्यः च कर्तुं प्रभवति। एतत् श्राद्धं सुखस्य, शान्तेः च प्रतीकं मन्यते, यतो हि एतत् श्राद्धं कर्तुं काश्चन शरव्यताः भवन्ति। अतः तदनुसारम् एव एतत् श्राद्धं कर्तव्यं भवति। ताः शरव्यताः एवं सन्ति - मातामहश्राद्धं तस्याः महिलायाः पितुः एव भवितुम् अर्हति, यस्याः पतिः, पुत्रः च जीवितः स्यात्। यदि तथा नास्ति, तयोः उत एकस्य निधनं जातम् अस्ति, तर्हि मातामहश्राद्धस्य तर्पणं भवितुं नार्हति। एवम् एतत् मन्यते यत्, मातामहश्राद्धं सुखस्य, शान्तेः, सम्पन्नतायाः चिह्नम् अस्ति। अत्र ध्यातव्यम् अस्ति यत्, कश्चन जनः स्वजीवनकाले स्वपुत्र्याः गृहस्य जलम् अपि न पिबति, तत्कृत्यं वर्जितं मन्यते। परन्तु मृत्योः अनन्तरं तस्मै तर्पणं तस्य दोहित्रः कर्तुं शक्नोति इति शास्त्रसङ्गतम् अस्ति।
 
==श्राद्धे कुशस्य, तिलस्य च महत्त्वम्==
दर्भः उत कुशः जलस्य, वनस्पतेः च सारः मन्यते। एतदपि मन्यते यत्, कुशः, तिलः च [[विष्णु|विष्णोः]] शरीरात् निर्गतौ स्तः। [[गरुडपुराण]]<nowiki/>स्य अनुसारं, त्रयः देवताः [[ब्रह्मा]], [[विष्णुः]], [[महेश|महेशः]] च कुशे क्रमश: मूले, मध्ये, अग्रभागे च निवसन्ति इति। कुशस्य अग्रभागः देवतानां, मध्यभागः मनुष्याणां, मूलभागः पितॄणां च मन्यते। तिलः पितृभ्यः प्रियः अस्ति। तिलात् दुष्टात्मनः दूरे धावन्ति। मान्यता अस्ति यत्, विना तिलं विकीर्य श्राद्धं क्रियते, तर्हि दुष्टात्मनः हविं गृह्णन्ति।
==अल्पव्यये श्राद्धम्==
[[विष्णुपुराण]]<nowiki/>स्य अनुसारं दरिद्रजनः केवलं अन्नस्य, वन्यशाकस्य, पत्तानां, फलानां, न्यूनतमधनस्य च दक्षिणां दातुं शक्नोति। तदपि शक्यं नास्ति चेत्, सप्त उत अष्ट अञ्जलियावत् जलं नीत्वा [[ब्राह्मण|ब्राह्मणाय]] दातव्यानि भवन्ति उत गवे आदिनं ग्रासं भोजयितुं शक्नुवन्ति। अन्यथा हस्तम् उन्नीय दिक्पालेभ्यः, [[सूर्य देवता|सूर्यात्]] च याचना करणीया भवति यत् हे! प्रभो अहं मे हस्तौ वायौ उन्नितवान्, मम पितरः मम भक्त्या सन्तुष्टाः भवेयुः।
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/श्राद्धम्" इत्यस्माद् प्रतिप्राप्तम्