"स्वामी दयानन्दसरस्वती" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २२:
}}
 
स्वामी '''दयानन्दसरस्वती''' महान् वेदवेत्ता, समाजपरिवर्तकः, [[आर्यसमाजः|आर्यसमाजस्य]] स्थापकः च । वैदेशिकैः आक्रान्ते [[भारतम्|भारतवर्षे]] सः सर्वप्रथमतः स्वतन्त्रतायाः आवश्यकताम् अवगतवान् । स्वातन्त्र्यस्य प्राप्त्यर्थं सः प्रयासम् आरब्धवान् । यदा भारते वेदानां विषये महत् अज्ञानम्, उपेक्षा, अन्यथा अर्थग्रहणं च आसीत्, तदा सः चतुर्णाम् अपि वेदानाम् बोधनं कृतवान् । विधवास्त्रीणाम् पुनर्विवाहः, गोरक्षणं, अग्निहोत्रस्य पुनरुज्जीवनम् इत्येतेषु विषयेषु तेन महान् प्रचारः कृतः । तस्य '''[http://easycms.in/clientportal/38/file_uploader/281_1_2.pdf सत्यार्थप्रकाशः]''' इति युगपरिवर्तके ग्रन्थे सः वर्तमानान् अनेकान् अन्धविश्वासान् समूलम् उत्पाटितवान् अस्ति । सः ऋषिभिः प्रणीतानाम् आर्षग्रन्थानां महत्त्वं प्रतिपादितवान् । अनार्षग्रन्थाः त्याज्याः यतो हि तेषाम् अध्ययनाय परिश्रमः अधिकः अपेक्षितः अस्ति परन्तु लाभः न्यूनः एव अस्ति इति तस्य दृढं मतम् आसीत् । अतः सः पाणिनेः अष्टाध्यायी, यास्कस्य निरुक्तं, दर्शनग्रन्थाः इत्यादीन् समर्थितवान्, न तु सिद्धान्तकौमुदीं, नवन्यायं वा । तस्मिन् संस्कृतविषये विशेषा प्रीतिः आसीत् । प्रायः तस्य प्रवचनानि सरलसंस्कृतेन एव भवति स्म । संस्कृताज्ञानिनः जनाः अपि तान् अवगन्तुं समर्थाः आसन्, सन्तोषम् अपि अनुभूतवन्तः । संस्कृतपठनपाठनविषये सः विशेषं प्रयत्नं कृतवान् । तस्य रक्षणार्थं, वेदानाम् अध्ययनस्य च रक्षणार्थं, सः अनेकान् गुरुकुलान् स्थापितवान् । व्याकरणस्य, सरलप्रयोगसंस्कृतस्य च सः अनेकानि पुस्तकानि स्वयं रचितवान् । तस्य प्रयासेन, न केवलं भारतवर्षे अपि तु समग्रे संसारे, अष्टाध्यायीपद्धत्या संस्कृतपठनपाठनं पुनरुज्जीवितम् अभवत्, तत्र न अतिशयोक्तिः ।
 
==बाल्यघटना==
"https://sa.wikipedia.org/wiki/स्वामी_दयानन्दसरस्वती" इत्यस्माद् प्रतिप्राप्तम्