"रससम्प्रदायः" इत्यस्य संस्करणे भेदः

* [[अलङ्कारसम्प्रदायः
 
पङ्क्तिः ३१:
अलङ्कारशास्त्रे सम्प्रत्युपलभ्यमानो रससिद्धान्तो भरतेनैव प्रवत्ततः । तदीयम् - विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति सूत्रमेव रसस्वरूपनिर्णायकेष्वादिमं प्रसिद्धम् । अस्य सुत्रस्य बहवो व्याख्यातारः सञ्जाताः । तेषु चत्वार एव सर्वतः प्रधानाः । तेषां ‘[[भट्टलोल्लटः|भट्टलोल्लट]]<nowiki/>-[[शङ्कुकः|शङ्कुक]]<nowiki/>-[[भट्टनायकः|भट्टनायक]]<nowiki/>-[[अभिनवगुप्त]]<nowiki/>पादा इति नामान्यवगन्तव्यानि । रससम्प्रदायश्चैतेषामेव मतमादाय साम्प्रतं प्रचलति।
 
== वादाः ==
= भट्टलोल्लटस्य उत्पत्तिवादः =
 
=== भट्टलोल्लटस्य उत्पत्तिवादः ===
अभिनवगुप्तपादाचार्येण स्वकीयाम् [[अभिनवभारती|अभिनवभारत्यां]] भट्टलोल्लटस्य मतस्योल्लेखः कृतः । अनेनैव सम्भाव्यते यदेतेनाऽपि नाट्यशास्त्रस्योपरि काचित् व्याख्या कृता या साम्प्रतं नोपलभ्यते । रससूत्रस्याऽपि सर्वप्रथमोऽयमेव व्याख्याताऽसीत् । एतेन हि संयोगात् इत्यस्य '''<nowiki/>'कार्यकारणभावरूप-सम्बन्धात्'''' इत्यर्थः, '''‘निष्पत्तिः'''' इत्यस्य उत्पत्तिरित्यर्थः, अनेनरूपेणैव व्याख्यातम् । मुख्यतः अयं संयोगादित्यस्य जन्यः जनकभावरूपात्सम्बन्धादित्यर्थं कृत्वा रसं विभावादीनां कार्यमाहुः । अयम् आसीत् [[मीमांसकाः|मीमांसको]]<nowiki/>ऽभिधावादी च, समस्तकाव्यार्थस्य साधनमभिधाशक्तिरेवेति स्वीकृतवान् । एतस्य मतमासीत् यच्छब्दस्य प्रत्येकार्थप्रतिपत्तिरभिधया एव तथा भवति यथा एक एव बाणः कवचं निभिद्य शरीरे प्रविश्य प्राणानपहरतीति । एतन्मतं मम्मटो ह्येवमुद्धृतवान् -
 
Line ३८ ⟶ ४०:
विश्वनाथेनाप्येवमेवोक्तम् । लोल्लटमतस्य प्रभावो हि दशरूपककारधनञ्जयस्यावलोककार धनिकस्योपरि स्पष्टरूपेण सञ्जातः ।
 
==== एतन्मत सारांशः ====
( १ ) स्थायीभावस्य सूत्रे उल्लेखो नास्ति, किन्तु मतेऽस्मिन् तस्य रसमूलरूपेण पृथगुल्लेखः सञ्जातः । स्थायीभावेन सह संयोगः स्वीकृतः ।
 
Line ४७ ⟶ ४९:
(४) अभिनयकुशलतया आरोपितः स्थायीभावः सामाजिकेषु चमत्कारहेतुः सञ्जायते । नटस्यानुकृत्तिः सफलतयोत्पन्नः सामाजिकमनसि चमत्कारजन्यः आनन्दात्मकरसो निष्पद्यते ।
 
==== मतसमीक्षा ====
भरतसूत्रे स्थायीभावस्य पृथगुल्लेखो न वर्तते । इदं च तादृशं वस्तु नास्ति यत्पूर्वमपुष्टरूपेण विद्यमानं सत् पश्चात् पुष्टीभूय रसरूपं धत्ते । विभावादिकं विना मुलाश्रये स्थायीभावो भवितुमेव नार्हति, कुतः पुनस्तेन पुष्टिरिति ?
 
मतेऽस्मिन् द्वितीयो दोष एवमापतति यत्स्थायीभावोऽयं न कार्यरूपः । यदि कार्यरूपः स्यात्तदा निमित्तकारणक एव स्यात् । तथा च सति निमित्तकारणव्यपगमे नटादिकं कार्यं स्वात्मना तिष्ठति, किन्तु न ह्येवं तथा, विभावादिनष्टे सति रसोऽपि न तिष्ठति । अत एव विभावादिः कारकहेतुर्न वा जनकहेतुः । पूर्वमविद्यमानत्वान्न ज्ञापकहेतुरपि । रस उत्पद्यते इति यद्येतन्मृतं तर्हि दर्शके केन प्रकारेण सङ्क्रमितो भवति ? रतिर्यत्र, तिष्ठेत्तत्रैव रसोऽपि भवितुर्युक्तः, कार्यकारणयोः एकाधिकरणवृत्तित्वनियमात् । अनुकार्योऽस्मद्दृष्टिगोचरात्परः । अनुकर्तरि तस्यारोपो भवति । आरोपितो रसो दर्शकेषु कथं चमत्कारमुत्पादयेत्; तत्राधारत्वस्य मिथ्यात्वं स्पष्टमेव भवेदिति ।
 
=== श्रीशङ्कुकस्य अनुमितिवादः ===
अभिनवभारत्यामेव श्रीशङ्कुकस्यापि मतोल्लेखो वर्तते । अनुमितिवादनाम्ना भरतसूत्रस्य व्याख्या चैतस्य प्रसिद्धा । अयञ्च [[नैयायिकाः|नैयायिकः]] सन् विभावादिसाधनेषु रसरूपसाध्येषु च अनुमाप्यानुमापकभावं कल्पयतीति । यथा पर्वते धूमं दृष्ट्वा ‘पर्वतोऽयं वह्निमान्' यतो धूमवान् एतत्परामर्शद्वारा पर्वते वह्निस्थितेरनुमितिरिति तथैव नटे रामादिवदनुभावादिकं दृष्ट्वा सामाजिकास्तत्र रसस्थितिमनुमिन्वन्ति । एवञ्च रसोऽनुमेयोऽनुमितिगम्यो वेति श्रीशङ्कुको मनुते । अथ चैतदतिरिक्तां ‘चित्रतुरगादिन्यायस्य कल्पनां करोति । एतत्कल्पनानुसारेण नटो न वास्तविको दुष्यन्तः, किन्तु चित्रे लिखिताश्ववत् दुष्यन्तः । कल्पनामेनां [[दशरूपकम् (ग्रन्थः)|दशरूपक]]<nowiki/>कारोऽपि स्वीकरोति । सहृदये सामाजिके वा रसस्य स्थितिः तथैव स्वीकरोति श्रीशङ्कुको यथा - अश्वस्य चित्रं दृष्ट्वाऽनुभवो भवति। श्रीशङ्कुक एवं हि सर्वप्रथमं लोल्लटस्योत्पत्तिवादं सहृदयेषु रसानुभवाभावसिद्धान्तं खण्डितवान् । एवञ्चैतन्मते सामाजिकेऽपि रसानुभवो भवतीति पूर्वस्माद्विशेषः ।
 
==== मतसारांशः ====
( १ ) वास्तविकरूपेण अनुकार्यरूपान् एव विभावपदव्यपदेश्यान् वक्तुं शक्यते अस्माभिः । तदनुभावान् सञ्चारिणश्चानुभावान् सञ्चारिणः कथयिष्यते ।
 
( २ ) नटो ह्येतामनुकरोति । सामाजिकास्तु चित्रतुरगन्यायेन नटमेवानुकार्यं बुध्वा तत् अनुभावादिद्वारा नटे स्थायिभावस्य अनुमानं कुर्वन्ति ।
 
==== मतसमीक्षा ====
श्रीशङ्कुकेन हि अनुकरणानुमानयोरुपयॆवाग्रहः कृतः । तत्र न स्थायिभावस्य न वा सहचारिणः अनुकरणं भवितुमर्हति । वेशभूषानुभावानामेवानुकरणसम्भवात् । समुद्रलङ्घनाद्युत्साहस्य मानसिकप्रत्यक्ष तु साधारणमनुष्यस्य कथं कथमपि न भवितुमर्हति । वास्तविकं तु नटः स्ववेशभूषायां तन्नायकस्थितेः साधारणरूपेण धारणं करोति । अनुमाने चित्रतुरगादिन्यायानुसारणेना सत्याधारात्सत्यं प्रतिष्ठापयितुकामोऽयं बालकानां यथाकथञ्चित् प्रतीयते भवेन्नान्येषां मृगतृष्णाजलेन न कस्यापि पिपासाशान्तिः स्नानं वा सम्भवितुम् अर्हति। अथ चानुमानं बद्धेः विषयो व्यवहितञ्च । अन्यस्य रतिरन्यं कथा सङ्गच्छत्। तथाभावे रसानुमितिः कथम् ?
 
=== भट्टनायकस्य भुक्तिवादः ===
रसविषये भक्तिवादस्य परिपोषकोऽयम्। काव्यादिद्वारा रसनिष्पत्तौ व्यापारत्रयमामनन्ति । तत्र प्रथमाभिधा, यया शब्दार्थयोः ज्ञानं भवति, भावकत्वव्यापारः येन विभावादयो रत्यादिस्थायिभावाश्च साधारणीकृताः सन्तः '''<nowiki/>'परस्य न परस्य मम न मम'''' इत्यादि बन्धनान्मुक्ता उपभोगयोग्याः भवन्ति । सीता जनकतनया रामकान्ता भूत्वा साधारणतया रमणीमात्र व्यपदेशयोग्या भवति । अयमाचार्यो भोगव्यापारं भोजकत्वमिति कथयति । नाटके च नोक्तव्यापारत्रयं किन्त्वाद्य द्वयमेव । भोजकत्वव्यापारेण हि रजस्तमसी अभिभूय सत्त्वस्योद्रेकः भवति । चित्तवृत्तिनां शान्ततया स एवानन्दस्य कारणं भवति । मतमिदं साङ्ख्यमतस्य अनुकूलम् । एवञ्च रससूत्रस्थ 'संयोगात्' इत्यस्य 'भोज्यभोजकभावसम्बन्धात्' 'निष्पत्तिः' इति, अस्य भुक्तिरित्यर्थः । तथा चोक्तं काव्यप्रदीपे – तस्मात् विभावादिभिः संयोगात् भोज्यभोजकभावसम्बन्धात् रसस्य निष्पत्तिरिति सूत्रार्थः । केचिदेतन्मतानुसारिणस्तु संयोगादित्यस्य साधारणीकृत विभावादिभिः सह सम्यग् योगादित्यर्थं निरूपयन्ति ।
 
==== मतसारांशः ====
भट्टनायकस्येयमेव विशेषता यदेतेन स्वमनस्येवं चिन्तितं दुःखेन कथं सुखमिति ? नायकादिविभावेषु सामाजिकानाम् आनन्दावाप्त्यर्थम् अभिधादिव्यापारत्रयमङ्गीकृतम् । तत्र भावकत्वद्वारा निजपरादिभेदं दूरीकृत्य तद्भागस्य पूर्तिर्भवति । एतन्मतानुसारेण काव्यनाटकादौ विभावादयोऽभिधाद्वारा बोधगम्या भवन्ति। तदनन्तरं विभावादयो भावकत्वद्वारा निजपरबन्धनाद्विमुच्यार्थात् साधारणीकृताः सन्तः सहृदयोपभोगयोग्या भवन्ति ।
 
==== मतसमीक्षा ====
मतेऽस्मिन् भावकत्वभोजकत्व-व्यापारद्वयकल्पने मानाभावात् व्यापारद्वयमपि व्यञ्जनायामेवान्तर्भावयन्त्यभिनवगुप्तपादाः। तदुक्तं [[ध्वन्यालोकलोचनम्|ध्वन्यालोकलोचने]] -
 
"त्र्यंशानामपि भावनायां कारणांशे ध्वननमेव निपतति । भोगोऽपि न काव्यशब्दे क्रियते अपितु........ लोकोत्तरो ध्वननव्यापार एव मूर्धाभिषिक्तः इति ।
 
=== अभिनवगुप्तस्य अभिव्यक्तिवादः ===
भरतसूत्रव्याख्यानविषये व्यञ्जनावादिनोऽभिनवगुप्तस्यैवान्तिमं मतम् । रसशास्त्रालङ्कारशास्त्रयोर्मध्ये मतमिदं दार्शनिकमनोवैज्ञानिकाधारभित्तिहेतुनात्यधिकं प्रसिद्धत्वमुपगतम् । अयमभिनवगुप्तो व्यञ्जनावादी तथा ध्वनिवादी आलङ्कारिकः । आनन्दवर्धनद्वारा प्रतिष्ठापितसिद्धान्तानुसारेणायं रसं ध्वनेरेवैकं प्रमुखभेदमर्थात् रसध्वनिं स्वीकरोति । अत एव रसो व्यङ्ग्यः, अभिधावृत्तित्रयागम्यः केवलं व्यञ्जनावृत्तिद्वाराऽभिव्यक्तो भवति । काव्यनाटकादिषु प्रयुक्ता विभावादयो रसव्यञ्जका रसश्चाभिव्यङ्ग्यः । इत्त्थमभिनवगुप्तपादोऽयं रसविभावादिषु परस्परं व्यङ्गयव्यञ्जकभावं स्वीकरोति ।
 
==== मतसारांशः ====
( १ ) रसनिष्पत्तिः (रसाभिव्यक्तिः) सामाजिकेषु।
 
"https://sa.wikipedia.org/wiki/रससम्प्रदायः" इत्यस्माद् प्रतिप्राप्तम्