"आमेरदुर्गम्" इत्यस्य संस्करणे भेदः

(लघु) वर्गः
म्
पङ्क्तिः २६:
 
== नाम्नः व्युत्पत्तिः ==
आम्बेर उत आमेर इति नाम अत्र निकटस्थे "''चील के टीले'' " नामक-गिरिकायां स्थितस्य अम्बिकेश्वरमन्दिरस्य कारणेन प्राप्तम् अस्ति। अम्बिकेश्वर इति नाम भगवतः [[शिवः|शिव]]<nowiki/>स्य तत् स्वरूपस्य अस्ति, यत् मन्दिरेऽस्मिन् विराजते। अर्थात [[दुर्गा|अम्बिका]]<nowiki/>याः ईश्वरः। अत्रस्थाः काश्चन स्थानीयाः किंवदन्त्यः प्रचलिताः, तासाम् अनुसारं दुर्गस्य नाम [[दुर्गा]]<nowiki/>देव्याः पर्यायवाचिना शब्देन अम्बा इत्यनेन प्रसिद्धम् अस्ति। एतन्नाम विहाय अम्बावती, अमरपुरा, अम्बरंअम्बरम्, आम्रदाद्री, अमरगढ इत्यादिनी अपि नामानि सन्ति अस्य। इतिहासकारः कर्नल जेम्स टॉड इत्यस्य अनुसारंअनुसारम् एत्रस्थाः राजपूताः आत्मानं अयोध्यापतेः [[रामः|रामचन्द्र]]<nowiki/>स्य [[कुशः|कुश]]<nowiki/>-नामकपुत्रस्य वंशजत्वेन मन्यमानाः आसन्।अतः एव ते कुशवाहा-नाम्ना अपि प्रसिद्धाः जाताः, ततश्च कालान्तरे कछवाहा इति अपभ्रंशः जातः। आमेर-स्थितात् संघी-जूथाराम-मन्दिरात् मिर्जा-राजा-जयसिंहस्य वि॰सं॰ १७१४ तदनुसारं १६५७ ई॰ कालस्य शिलालेखानुसारम् अम्बावती इति नाम '''ढूंढाड-'''क्षेत्रस्य राजधानी उल्लिखिता। शिलालेखमिदं राजस्थानसर्वकारस्य पुरातत्त्व-एवं-इतिहास-विभागस्य सङ्ग्रहालये सुरक्षितम् अस्ति।
 
अत्रस्थाः अधिकांशजनाः एतस्य मूलनाम [[अयोध्या]]<nowiki/>याः इक्ष्वाकु-वंशस्य विष्णुभक्तस्य राज्ञः [[अम्बरीषः|अम्बरीष]]<nowiki/>स्य नाम्ना सह संयोजयन्ति। कस्याश्चित् मान्यतायाः अनुसारम् अम्बरीषः दीन-दुःखितानां सहायतायै स्वराज्यस्य  भण्डारान् सार्वजनिकान् अकरोत्। अतः राज्ये सर्वत्र सुखंं, शांतिः च आसीत्। परन्तु राज्यस्य भण्डारः प्रतिदिनं न्यूनः जायमानः आसीत्। यदा तस्य पिता राजा नाभागः अम्बरीशम् अपृच्छत्, तदा सः प्रत्युदतरत् यत्, धनकोषः भगवतः भक्तानाम् एव अस्ति, तेभ्यश्च सदैव उद्घाटितः भविष्यति। तदा अम्बरीशः राज्यहित-विरुद्धं कार्यं करोति इति आरोपत्वात् सः दोषी घोषितः। किन्तु यदा राजकोषे सम्पत्तेः मूल्याङ्कनम् अभवत्, तदा सर्वे चकिताः, यतः दिने रिक्तः कृतः राजकोषः रात्रौ पुनः पूर्णः भवति स्म। अम्बरीशः ईश्वरकृपां मन्यमानः ईश्वराय कृतज्ञतां प्राकटयत्। ततः तस्य पिता अपि राज्ञः भक्तेः शक्तिम् अनजानत्। ततः ईश्वरस्य आराधनां कर्तुम् अम्बरीशः अरावली-पर्वतमायां मन्दिरनिर्माणस्य निर्णयम् अकरोत्। तन्मन्दिरं तस्य नाम्ना एव प्रसिद्धम् अभवत्, परन्तु कालान्तर अपभ्रंशत्वात् अम्बरीशात् "आम्बेर" इति अभवत्।
"https://sa.wikipedia.org/wiki/आमेरदुर्गम्" इत्यस्माद् प्रतिप्राप्तम्