"नीरज चोपडा" इत्यस्य संस्करणे भेदः

(लघु) Spellings
नुक्ता संस्कृते न
पङ्क्तिः १:
{{तलं गच्छतु}}
{{Infobox sportsperson|headercolor=|name=नीरज चोपडा|image=Neeraj Chopra Of India(Javelin).jpg|nationality=भारतीयः|residence=|birth_date={{Birth date and age|df=yes|1997|12|24}}<ref name="DOB">{{cite web|publisher = IAAF|title = NEERAJ CHOPRA: Athlete profile|url=http://www.iaaf.org/athletes/india/neeraj-chopra-277499}}</ref>|birth_place=खान्द्रा, [[पानीपतमण्डलम्]], [[हरियाणा]]राज्यं, [[भारतम्]]|country=भारतम्|sport=शल्यक्षेपणम्|event=|coach=गेरी कल्वर्ट् (Garry Calvert)|pb=JWR, NR - 86.48 ([[Bydgoszcz]] २०१६)|updated=२४/०७/२०१६|medaltemplates=}}
'''नीरज चोपडा''' ({{IPA audio link|नीरज चोपडा.wav}} {{IPAc-en|ˈ|n|iː|r|ə|j|ə|_|x|oː|p|ə|d|aː}}) ({{lang-en|Neeraj Chopra}}, {{lang-hi|नीरज चोपड़ाचोपडा}}) इत्येषः [[अंजू बॉबी जॉर्ज]] इत्यस्माद् अनन्तरं विश्व-चैम्पियनशिप-स्तरे द्वितीयः भारतीयव्यायामिकोऽस्ति (athletics), येन वैश्विकस्पर्धायां सुवर्णपदकं प्राप्तम्। [[पोलॅण्ड्|पोलैण्ड]]<nowiki/>-देशस्य बाईगॉश-महानगरे (Bydgoszcz) जायमानायां विंशत्यून-वैश्विकस्पर्धायाम् (Under 20) एकोनविंशवर्षीयः कनिष्ठव्यायामिकः सः ज्येष्ठानाम् अपि अभिलेखम् (record) अत्यक्राम्यत्। एवं सः लेटवीएन् जिगीसमंड्स् (ज्येष्ठः शल्यक्षेपकक्रीडालुः) इत्यनेन २०११ तमे वर्षे रचितं ८४.६९ मीटर-यावत् पूर्वविश्वाभिलेखम् अतिक्रान्तवान्। नीरजः तस्यां वैश्विकस्पर्धायां ८६.४८ <ref>http://www.iaaf.org/athletes/india/neeraj-chopra-277499 </ref> मीटरपरिमिते दूरे शल्यं प्रक्षिप्य नवीनम् अभिलेखम् अरचयत्। चिरस्मरणीयक्षेपणेषु नीरजस्य तस्य क्षेपणस्य गणना भवति।
 
== जन्म, परिवारश्च ==
पङ्क्तिः ९:
== शल्यक्षेपणक्षेत्रे योगदानम् ==
 
नीरजस्य प्रप्रथमः स्मरणीयः विजयः २०१२ तमे वर्षे अभवत्। तस्मिन् वर्षे राष्ट्रियकनिष्ठस्पर्धायां सः अष्टादशोनदले ६८.४८ मीटरदूरे शल्यम् अक्षिपत्। २०१२ तमस्य वर्षस्य तस्य उत्कृष्टप्रदर्शनस्य बलादेव सः २०१३ तमे वर्षे आयोजितायां राष्ट्रिययुवस्पर्धायां भागम् अवहत्। ततः सः IAAF-वैश्विकयुवस्पर्धायां भागं वोढुम् अर्हतां प्राप्तवान् <ref>http://www.iaaf.org/athletes/india/neeraj-chopra-277499 </ref>। ततः अष्टादशवर्षीयः नीरजः JSW-दलेन (Sports Excellence Program) सह सँल्लग्नः। तेन दलेन सह युक्तः सः [[आस्ट्रेलिया|ओस्ट्रेलिया]]<nowiki/>-देशीयात् प्रशिक्षकाद् मार्गदर्शनम् अलभत। तस्य प्रशिक्षकस्य नाम गेरी कल्वर्ट् इति (Garry Calvert)। नीरजः JSW-संस्थायाः [[पोलॅण्ड्|पोलेण्ड]]<nowiki/>-देशस्य स्पाला-महानगरे स्थिते ओलम्पिक्-प्रशिक्षणकेन्द्रे मासद्वयं यावत् प्रशिक्षणं प्राप्तवान्।
 
यदा नीरजः अष्टादशवर्षीयः आसीत्, तदा २०१५ तमे वर्षे [[पटियाला]]<nowiki/>-महानगरे आयोजितायाम् 'इन्टर्-वर्सिटि'-स्पर्धायां (Inter-Varsity Championship) सुवर्णपदं जितवान्। २०१६ तमस्य वर्षस्य आरम्भे नीरजः [[भारतवर्ष]]<nowiki/>स्य [[गुवाहाटी]]<nowiki/>-महानगरे आयोज्यमानायां दक्षिणजम्बूद्वीपक्रीडाः इत्येतस्यां स्पर्धायां ८२.२३ <ref>http://indianathletics.in/?p=5939 </ref> मीटरदूरे शल्यं क्षिप्त्वा सुवर्णपदकं जितवान् आसीत्। तदारभ्य एव सः शल्यक्षेपणक्षेत्रस्य प्रभावशालिक्रीडालुत्वेन प्रसिद्धिङ्गतः। २०१६ तमे वर्षे अष्टसु उत्कृष्टेषु शल्यक्षेपकेषु उत्कृष्टतमप्रदर्शकत्वेन नीरजेन स्थानं प्राप्तम्।
 
== विंशत्यून-वैश्विकस्पर्धा ==
"https://sa.wikipedia.org/wiki/नीरज_चोपडा" इत्यस्माद् प्रतिप्राप्तम्