"भगवद्गीता" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १०९:
''यः पूर्वौक्तैः कर्मभिः शुद्धान्तः करणः, सोऽवश्यं भगवदेकशरणो, भगवदेकशरणतापर्यन्तत्वादन्तः करणशुद्धेः। एतादृशश्चेद ब्राह्मणः संन्यासप्रतिबन्धरहितः सर्वकर्माणि संन्यस्यतु नाम, संसारविमोक्षस्तु तस्य भगवदेकशरणस्य भगवत्प्रसादादेव। एतादृशश्चेत्क्षत्रियादिः, संन्यासाधिकारी, स करोतु नाम कर्माणि, किंतु मदव्यपाश्रयः अहं भगवान् वासुदेव एव व्यपाश्रयः शरणं यस्य, स मदेकशरणो मय्यर्पितसर्वात्मभावः संन्यासाधिकारात् सर्वकर्माणिसर्वाणि कर्माणि वर्णाश्रमधर्मरुपाणि लौकिकानि, प्रतिषिद्धानि वा सदा कुर्वाणो मत्प्रसादात् परमेश्वरस्यानुग्रहादवाप्नोति हिरण्यगर्भवन्मद्विज्ञानोत्पत्या शाश्वतं नित्यं पदं वैष्णवमव्ययम्-परिणामित्यर्थः। एतादृशो भगवदेकशरणः करोत्येव न प्रतिषिद्धानि कर्माणि, यदि कुर्यात् तथाऽपिमत्प्रसादात्प्रत्यवायानुत्पत्या मद्विज्ञानेन मोक्षभागभवतीति भगवदेकशरणतास्तुत्यर्थं‘सर्वकर्माणि सर्वदा कुर्वाणोऽपी’ त्यनूद्यते''।
 
''यस्मान्मदेकशरणतामात्रं मोक्षसाधनम्, न कर्मानुष्ठानम्, कर्मसंन्यासो वा। तस्मात् क्षत्रियस्त्वम्- चेतसा विवेकबुद्धया सर्वकर्माणि-दृष्टादृष्टार्थानि मयीश्वरे संन्यस्य-“यत्करोषियदश्नासी” त्युक्तन्यायेन समर्प्यमत्परः अहं भगवान् वासुदेव एव परः प्रियतमो यस्य स मत्परः सन् बिद्धि योगम्-पूर्वोक्तसमत्वबुद्धिलक्षणं योगं बन्धहेतोरपि कर्मणो मोक्ष-हेतुत्वं सम्पादकमुपाश्रित्य- अनन्यशरणतया स्वीकृत्य मच्चित्तः मयि भगवति वासुदेव एव चित्तं यस्य,न राजनि, कामिन्यादौ वा, सः मच्चित्तः सततं भव।''
तदेवं प्रमाणितं वेदितव्यं यद् भगवद्गीता ''कर्मैव पूजा'' इत्युपदिशति। सर्वेषां मानवानां स्वभानानुकूलं कर्म एव भगवदाराधनरुपेण ग्राह्यमिति हि सिद्धान्तः। जीवननिर्वाहायावश्यकं कर्म सहजं स्वभावनियतं च – ''नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ''। कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः।
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्