"अग्निपुराणम्" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: संचित्रसारमञ्जूषे योजनीये using AWB
No edit summary
पङ्क्तिः ३७:
पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः । अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते । प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम् । वांशो नाम राजीयानामथवा ऋषियाणां नाम्नां पट्टिका । मन्वन्तरो नाम शासनपरिपाटयां मनूनां कालिकं क्रमिकं च परिवर्त्तनम् । राजर्षिणां चरित्राण्येव वंशानुचरितपदाभिलप्यानि । कल्पमन्वन्तरवर्णनम् अग्निपुराणे बहुषु स्थलेष्वक्षिलक्षीक्रियते । विशेषतः १५० संख्याङ्कितेऽध्याये चतुर्दशमन्वन्तराणां वर्णनं वर्तते । वंशानुचरितं तु भूयोभूयः समायाति ।
यदि केवलमेतावदभविष्यत्, पुराणमिदं भारतीयानां श्रध्दाश्रद्धा-विश्वासभावनानां चिन्तनपरंपरायाश्च प्राचीनं लिखितसाक्ष्यं समभविष्यत् । विश्वकोशत्वरुपेणा धर्मेण महत्त्वमेतदीयम् । [[साहित्यशास्त्रम्]], [[आयुर्वेदः]], अश्वायुर्वेदः, गजायुर्वेदः, वृक्षायुर्वेदः, [[वास्तुविद्या]], राजनीतिः, शस्त्रविद्या एतदादीनि वस्तूनि पर्याप्तमात्रयात्र कलृप्तस्थलावकाशानि ।
 
==अध्याय्यानुसारं विचाराः==
"https://sa.wikipedia.org/wiki/अग्निपुराणम्" इत्यस्माद् प्रतिप्राप्तम्