"संस्कृतसंवर्धनप्रतिष्ठानम्" इत्यस्य संस्करणे भेदः

अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ८:
 
==कार्याणि==
===छात्राणां तथा सार्वजनिकानां कृते===
छात्राणां तथा सार्वजनिकानां कृते संस्कृते विद्यमान-ज्ञानसागरं छात्राः अवश्यं प्राप्येरन्। तदर्थं संस्कृतसंवर्धनप्रतिष्ठानं बहुविधशिक्षणप्रक्रमान् प्रचालयति। तदर्थं पठन-पाठनोपकरणानि संस्कृतभाषया निर्मीयन्ते येन छात्राः संस्कृतमाध्यमेन अध्ययनं कुर्युः। तथैव अन्याभिः शिक्षणसंस्थाभिः सम्मिल्य संस्कृतसंवर्धनप्रतिष्ठानं शिक्षणक्षेत्रे संस्कृतप्रचारार्थं प्रयासं करोति। भारतस्य संस्कृतिः एव संस्कृता अस्ति तथा ताम् अवाप्तुम् उपकरणमस्ति संस्कृतम्। संस्कृतसंवर्धनप्रतिष्ठानस्य बहुमुख्यम् एकं लक्ष्यमस्ति सर्वाः भाषाः विशिष्य संस्कृतभाषा तन्माध्यमेनैव शिक्षणीया इति। तन्निधाय विविधविषयाणां पाठ्यचर्या निर्मिता तथा पाठाः अन्तर्जालपुटे आरोपिताश्च। ते च पाठाः पञ्जीकृतवद्भिः साक्षात् प्राप्तुं शक्यन्ते। तदर्थं <nowiki>https://www.samskrittutorial.in/</nowiki> दृश्यताम्। NCERT पाठ्यक्रमाणां संस्कृतेन शिक्षणमपि अत्र उपलभ्यते। इदं निश्शुल्कमपि वर्तते। संस्कृतशिक्षकेभ्यः छात्राणां तथा शिक्षकाणां च प्रयोजनाय बहूनि भाषोपकरणानि निर्मितानि सन्ति। श्रवणं भाषणं पठनं लेखनम् इत्येतेषां चतुर्णां कौशलानां परपुष्ट्यर्थं संस्कृतसंवर्धनप्रतिष्ठानं प्रशिक्षणं यच्छति। संस्कृतशिक्षकाणां कौशलविकासार्थं तथा तेषां साहाय्यार्थं च <nowiki>https://www.adhyapanam.in/</nowiki> इतीदं जालपुटं निर्मितं वर्तते। अत्र प्रतिदिनं नूतनविषयाणाम् आरोपणं च प्रचलति।
 
===प्राध्यापकेभ्यः तथा अनुसन्धातृभ्यश्च===
Samskrit for Specific Purpose इत्येकः विशिष्टः उपक्रमः संस्कृतसंवर्धनप्रतिष्ठानेन प्रचाल्यते। अस्मिन् उपक्रमे पठिता स्वयमेव स्वेच्छानुगुणं विषयस्य चयनं कर्तुं शक्नोति। भारते अयं उपक्रमः अन्तर्जालद्वारा भवति। तस्य परिसन्धिः वर्तते <nowiki>https://www.learnsmskrit.online/</nowiki>.
 
विदेशात् ये अध्येतुमिच्छन्ति ते <nowiki>https://www.learnsmskrit.world/</nowiki> इतीदं पुटं पश्येयुः। कला गीता योगः काव्यं वेदान्तः आयुर्वेदः ज्योतिषं बौद्धदर्शनं न्यायः गणितम् इत्यादिषु विभागेषु त्रिंशदधिकाः पाठ्यक्रमाः उपलभ्यन्ते। संस्कृतभाषायां विद्यमानानि बौद्धिकतत्त्वानि मूल्यानि च रक्षणीयानि वर्तन्ते। कालक्रमेण तादृशानि बहूनि नष्टानि परन्तु कानिचन कालातिवर्तिनि च वर्तन्ते। एतेषां विषये अनुसन्धानम् अत्यावश्यकमेव। तथा च भारतीयविज्ञानसङ्ग्रहः आधुनिकविज्ञासाहाय्येन अनुसन्धातव्यः। नूतनतकनिकी एव प्रचारस्य मूलम्। तादृशस्य भारतीयविज्ञानसङ्ग्रहस्य अनुसन्धानं संस्कृतसंवर्धनप्रतिष्ठानं प्रोत्साहयति। तेषां विवरणं <nowiki>https://www.samskritpromotion.in/samvardhini/index</nowiki> इत्यत्र उपलभ्यते। अनुसन्धातॄणां प्रयोजनार्थम् ई-भारतीसम्पत् (www.ebharatisampat.in) इत्यकः ई-ग्रन्थालयः अपि संस्कृतसंवर्धनप्रतिष्ठानेन संस्कृतभारत्याः सहकारेण प्रचाल्यते। बहवः दुर्लभाः ग्रन्थाः अस्मिन् सङ्ग्रहे विद्यन्ते। तथा च सर्वे ग्रन्थाः अन्वेषणयोग्याः सन्ति इत्येकं वैशिष्ट्यमपि अस्य ई-ग्रन्थालयस्य वर्तते। अत्र ग्रन्थानां पठनार्थं तथा तेषां सम्पादनार्थं च व्यवस्था कल्पिता अस्ति।
"https://sa.wikipedia.org/wiki/संस्कृतसंवर्धनप्रतिष्ठानम्" इत्यस्माद् प्रतिप्राप्तम्