विश्वपरम्परास्थानानि

युनेस्कोसंस्था विश्वसंस्थायाः सांस्कृतिकाङ्गम्। युनेस्को संस्था अन्ताराष्ट्रियस्तरे शैक्षणिकक्षेत्रे, सामाजिकक्षेत्रे, सांस्कृतिकक्षेत्रे, आर्थिकक्षेत्रे च कार्यं करोति । विश्वस्य कानिचन विशिष्टस्थानानि विश्वपरम्परास्थानानि इति अनेन उद्घुष्यन्ते । तानि अरण्यानि, पर्वताः, सरांसि, मरुस्थलानि, भवनानि, स्मारकानि, भवनसङ्कीर्णानि, नगरानि वा भवन्ति । एतानि अपूर्वस्थानानि संरक्षितस्थानानि सन्तु इति धिया युनेस्कोतानि स्थानानि विश्वपरम्परास्थानावल्यां प्रवेशयति । तादृशस्थानानां संरक्षणं कृत्वा अग्रिमवंशश्रेणिपर्यन्तं तस्य प्रापणार्थं प्रयतते एषा संस्था । २१राष्ट्रानां सदस्याः अस्यां संस्थायां भवन्ति । विश्वपरम्परास्थाननिश्चयस्य अपि काचन समितिः भवति । अस्याः समितेः सदस्यत्वम् अवधिनिश्चितं भवति । अतः सदस्यराष्ट्रानि परिवर्तितानि भवन्ति । समग्रविश्वस्य सांस्कृतिकस्य प्राकृतिकस्य च स्थानानानि अभिज्ञाय आवलिं कृत्वा तेषां संरक्षणम् अस्याः संस्थायाः उद्देशेषु अन्यतमः । कदाचित् एतादृशस्थानानां संरक्षणार्थं संस्था धनानुदानं करोति । क्रि.श. १९७२तमवर्षस्य नवेम्बर् १६तमे दिने आगता योजना विश्वस्य १८४ राष्ट्रैः अनुमोदिता । एतवति काले विश्वस्य ८५१स्थानानि अस्याम् आवल्यां विनिवेशितानि सुरक्षितानि च । तेषु ६६०स्थानानि सांस्कृतिकस्थलानि, १६६प्राकृतिकस्थलानि, २५स्थलानि उभयत्र समाविष्टानि सन्ति । एतानि ८५१स्थानानि विश्वस्य १४२राष्ट्रेषु सन्ति । विश्वपरम्परास्थानानि तत्तद्राष्ट्रस्य सम्पत्तिः चेदपि अग्रिमवंशश्रेणिं सङ्कान्तिः समस्तप्रपञ्चस्य एव ।

युनेस्कोविश्वपरम्परालाञ्छनम्

आरम्भिककार्यक्रमाः

सम्पादयतु

क्रि.श. १९५९तमे वर्षे ईजिप्त् देशः नैल्नद्द्यां जलबन्धं निर्मितुं निसचिनोत् । किन्तु प्राचीनसभ्यतायाः स्मारकं अबुसिम्बेल् प्रदेशस्य देवालयाः जलेनिमग्नाः भवन्तीति चिन्ता आगता । तदा युनेस्को देवालयस्य संरक्षणार्थं काञ्चित् योजनाम् अकरोत् । ईजिप्त् सुडान् इत्यादीनां देशानां विरोधमपि उपेक्षं मन्दिरस्य अवयवान् अपनीय उन्नतस्थाने पुनर्निर्माणम् अकरोत् । अस्याः योजनायां व्ययः तस्मिन्नेव काले ८०मिलियन् डालर् अभवत् । अस्य व्ययस्य अर्धभागः प्रपञ्चस्य ५०विविधराष्ट्रैः दानरूपेण सङ्ग्रहीतः । अस्य कार्यस्य यशः विश्वस्य अन्यपरम्परास्थानानां सुरक्षणार्थं युनेस्कोसंस्थायाः प्रेरकम् अभवत् । तादृशस्थानेषु अन्यतमाः इटलिदेशस्य वेनिस्, पाकिस्तानस्य जोहेञ्जोदारो, इण्डोनेशियादेशस्य बोरोबुडूर् देवालयः इत्यादीनि मुख्यानि । पश्चात् युनेस्कोसंस्था विश्वस्य सर्वपरम्परास्थानानि रक्षितुम् आवश्यकनियमानि सृष्टुं सिद्धाभवत् ।

निर्णयाङ्गीकारः

सम्पादयतु

अमेरिकासंयुक्तसंस्थानं (यु.एस्.ए.) विश्वस्य संस्कृतेः प्रकृतेः च संरक्षणार्थम् एकस्यमेव कार्ययोजनायां कार्यरतम् । क्रि.श. १९६५तमे वर्षे यु.एस्.ए. विश्वस्य प्राकृतिकरम्यस्थानानां, सांस्कृतिकमौलिकस्थानानां संरक्षणेण अग्रिमसभ्यातै दातुं विश्वपरम्परायाः संस्थामेकां सृष्टुं विश्वाय सूचनाम् अयच्छत् । क्रि.श. १९६८तमे वर्षे अन्तारष्ट्रियप्रकृतिसंरक्षणसङ्घः एतादृशयोजनाम् एव प्रस्तुत्य क्रि.श. १९७२तमे वर्षे स्वीडन् देशस्य स्टक् होम् समारम्भे, क्रि.श. १९७२तमे वर्षे विश्वसंस्थायाः सम्मेलने असूचयत् । अयं विचारः जगतः राष्ट्रैः बहुमतः अभवत् । अनेन विश्वपरम्परासमितिरचनस्य निर्णयः युनेस्कोसंस्थया स्वीकृतः ।

नमकरणप्रक्रिया

सम्पादयतु

विश्वपरम्परास्थानमिति किञ्चित् स्थानम् उद्घोषणीयं चेत् इयं दीर्घकालीना प्रक्रिया । राष्ट्रेन स्वस्य सर्वानां सांस्कृतिकप्राकृतिकसम्पदः आवली निर्मातव्या । अग्रे आवलिगतस्थनेसु किञ्चित् स्थानं विश्वपरम्परास्थानमिति उद्घोषणार्थं सूचयितुं शक्यते । अभ्यर्थनार्थम् आवश्यकाभिलेखान् निर्मातुं युनेस्को साहाय्यम् आचरति । इयं सञ्चिका प्रकृतस्थानस्य सर्वविषयान्तर्गता भवति । एताम् अभ्यर्थनसञ्चिकाम् अन्ताराष्ट्रियस्मारकस्थानसमितिः विश्वसंरक्षणासङ्घः इति द्वै स्वायत्तसंस्थे अध्ययनं कुरुतः । अध्ययनस्य वृत्तान्तं स्वसंस्तुतिपत्रेण सह विश्वपरम्परासमित्यै समर्प्यते । वर्षे द्विवारं सम्मेल्या इयं समितिः अभ्यर्थितदेशस्य प्रकृतस्थानानि परम्परास्थानम् अर्हतिव नेति चिन्तनं करोति । कदाचित् पुरस्कारः कदाचित् तिरस्कारः कदाचित् आवश्यकविषयसङ्ग्रहार्तं निर्णयः निरुद्धः भवति । अद्यत्वे यत्किमपि स्थानं विश्वपरम्परास्थानत्वं प्रापुं दशमानदण्डैः परीक्षते ।

चयनस्य मानदण्डाः

सम्पादयतु

क्रि.श. २००४तमवर्षस्य अन्त्यपर्यन्तं सांस्कृतिकपरम्परा ६मानदण्डैः प्राकृतिकपरम्परा ४मानदण्डैः च परीक्षते स्म । क्रि.श. २००५तमे वर्षे एतानि नियमानि परिष्कृत्य दशांशानां आवली निर्मिता । अभ्यर्थितस्थानम् एतेषु दशगुणेषु न्यूनातिन्यूनम् एकगुणयुतं विस्वस्य सम्पत् इति परिगणिता स्यात्

सांस्कृतिकमानदण्डाः
  • . मानवसृष्टेः अद्भुतः प्रतीकः स्यात् ।
  • . वास्तुशास्त्रम् अथवा तन्त्रज्ञानम्, स्मारकनिर्माणस्य कला नगरपरियोजनम् अथवा भूप्रदेशस्य सौन्दर्यवर्धनस्य कलाविन्यसेषु एकवर्षस्य एकस्मिन्नेव प्रदेशे सम्भूतः प्रगतेः द्योतकः स्यात् ।
  • . कस्याश्चित् संस्कृतेः परम्पपरा अथवा जीवमानायाः नष्टायाः वा सभ्यतायाः प्रतीकः स्यात् ।
  • .मानवेतिहासस्य गण्यस्तरस्य प्रतिबिम्बकं किञ्चित् भवनं अथावा तस्य निर्माणस्य वास्तुशिल्पम्, अथवा तस्य निर्माणस्य तन्त्रज्ञानम् अथवा भूविन्यासः स्यात् ।
  • . परम्परागतमानवनिवासस्य, अथवा परम्परागतभूमेः उपयोस्य, अथवा समुद्रस्य परम्परागतोपयोगस्य अनुपमः द्योतकः स्यात् ।
  • . घटनाः, जीवमनाः सम्प्रदायाः, मानवानां विश्वासाः,वैश्विकस्तरस्य कलात्मककृतयः, साहित्यकृतयः च स्युः ।
प्राकृतिकमानदण्डः
  • . स्थानम् अतिविशिष्टया नैसर्गिकक्रियया युक्तं स्यात् अथवा अतिविशिष्टप्रकृतिसौन्दर्ययुतं स्थात् ।
  • .भुरचनायां सम्भूयमानायाः प्रगतेः लक्षणैः युक्तम् अथवा विशिष्टभूतलभागयुक्तं जीविनामितिहाससहितं भूरचनेहासस्य प्रमुखः कालघट्टस्य उत्तमम् उदाहरणं स्यात् ।
  • .भूतलस्य, नदिजलस्य, समुद्रजलस्य, तटप्रदेशस्य जीवकुलस्य सस्यसङ्कुलस्य वा विकासः परिवर्तनम्, जैविक्रियायाः च अत्युत्तमम् उदाहरणं स्यात् ।
  • १०. विनश्यमानं जीविकुलसहितं, तेषां रक्षणार्थं विद्यमानं प्राकृतिकस्थानं स्यात् ।

लेखांशाः

सम्पादयतु

सद्यः विश्वे ८५१विश्वपरम्परास्थानानाम् अवलिगतानि स्थानानि सन्ति । एतानि भौगोलिकाधारेण ५भागेषु विभक्तानि । एते विभागाः एवं सन्ति । आफ्रिका, अरबस्थानम्, उत्तराफ्रिका, मद्यप्राच्यदेशाः, एषियापेसिफिक्, एषिया, आस्ट्रेलिय, ओशियाना, यूरोपदेशः, उत्तरामेरिका, केनडा, ल्याटिनमेरिका, केरिब्बियन् च । प्रशासनानुकूलार्थम् एतानि विभक्तानि सन्ति । अत्यधिकसङ्ख्या विश्वपरम्परास्थानयुतानि राष्ट्रानि एतानि सन्ति । इटलिदेशः - ४१, स्पैन्देशः - ४०, चीनादेशः - ३५, जर्मनिदेशः- ३१, फ्रान्स्देशः - ३१, संयुक्तसंस्थानदेशः - २७ अधोनिर्दिषेषु पञ्चविभागेषु विश्वपरम्पारस्थानानां सङ्ख्या एवमस्ति ।

विभागः नैसर्गिकम् सांस्कृतिकम् सम्मिश्रम् सकलम् प्रतिशतम्
आफ्रिकादेशः ३३ ३८ ७४
अरबस्थानराज्यानि ५८ ६२
एष्याफेसिपिक् ४५ १२६ ११ १८२ २१
यूरोफ्देशः उत्तरामेरिकादेशः ५१ २५८ ४१६ ४९
ल्याटिन् अमेरिकादेशः ३४ ८० ११७ १४
सकलम् १६६ ६६० २५ ८५१ १००

बाह्यानुबन्धाः

सम्पादयतु

अवलोकयोग्याः

सम्पादयतु