विश्व रेड्क्रास दिनम्

प्रतिवर्षं विश्वे मेमासस्य अष्टमे दिने अंतरराष्ट्रीय लाल सूली आंदोलन आचरन्ति । मानवानां वेदनां पीडां, दुः खं निवारयितुं कृतसङ्कल्पं विश्वसंस्थाविभागः एव अन्ताराष्ट्रिय रेडक्रास् । दुःखनिवारणं, शान्ति स्थापनं च अस्याः संस्थायाः प्रमुखं कार्यमस्ति ।

अंतरराष्ट्रीय लाल सूली आंदोलन

The Red Cross and Red Crescent emblems, the symbols from which the movement derives its name.
संस्थापकः Henry Dunant
प्रकारः Non-governmental organization
निर्माणम् 1863
केन्द्रम् Geneva, Switzerland
कार्यक्षेत्रम् Worldwide
लक्ष्यम् Humanitarian
कार्यपद्धतिः Aid
राजस्वः US$ 3.6 billion (2010)
स्वेच्छासेविनः 97 million
जालस्थानम् redcross.int

१८५९ तमे वर्षे जून मासे जीन् हेन्री डुनाण्ट् इति स्विझरलैण्डदेशस्य एकः वाणिजकः फ्रान्स् देशं आगतवान् । तस्यागमनोद्देश फ्रान्सदेशे तृतीयनेपोलियन्महाभागेन सन्दर्शनम् आसीत् । तदा अस्स्ट्रियन् जनानां फ्रेञ्च सार्डिनियन् जनानां मध्ये युध्दं समाप्तमासीत् । डुनान्ट् महोदयः इटलीदेशस्य साल्नेरिवेन नगरं प्रविष्टवान् । सर्वत्र सैनिकाः क्षतहताः वेदनाम् अनुभवन्तः दृष्टाः स्त्रियः सैनिकानां सेवायां निरताः आसन् । डुनण्ट् महोदयः अपि बहु दुःखितः सैनिकानां सेवां कर्तुं प्रविष्टवान् । सर्वेषां सैनिकानां प्रथमचिकित्सार्थं योग्यं वस्त्रं पूरयितुं सूचितवान् । जलसेवनस्य अनुकूलतां कल्पितवान् । सैनिकानां क्षतानाम् उपचारं कृतवान् । पञ्चवारेषु नगरे स्थितिः उत्तमा सञ्जाता । सैनिकाः व्रणमुक्ताः अभवन् । तदा डुनाण्टो महोदयस्य मनसि “ युध्दं भवति चेत् एतत् दुःखं सामान्यमेव । एतादृशे प्रसङ्गे उपकारकः उपायः चिन्तनीयः । पीडितानां दुःखितानां क्षतहतानां साहाय्याय एका सस्थ अनिवार्यास्ति” । इति चिन्तितवान् । स्वस्य अनुभवं ‘ए मेनोटि आफ साल्छेटिनो” इति पुस्तके प्रकटनं कृतवान् ।

यूरोप् खण्डे एतत् पुस्तकम् अतीव प्रभावपूर्णं कार्यामकरोत् । जिनेवा नगरस्य एकःन्यायवादी गुस्तेव मोयदीद् डुनाण्ट महोदयस्य कार्ये मिलितवान् । अनेन १८६३ तमे वर्षे शाश्वततया अन्ताराष्ट्रिय रेडक्रास् संस्थां स्थापितवन्तौ । स्विझरलैण्डदेशः युध्दप्रियः नासीत् । तटस्थदेशः आसीत् । अस्याः संस्थायाः मुख्योद्देशः युध्देन पीडितानां कष्टनिवारणं साहाय्यदानं चासीत् । १८६४ तमे वर्षे अन्ताराष्ट्रियसभया सर्व सैनिकानां क्षतहतानां साहाय्यदानार्थं अनुमतिः दत्ता स्वीय संस्थायाः सदस्य देशानां जनानामपि सैनिकानां सेवायै अवकाशः कल्पितः अभवत् । संस्था स्वकीयं ‘+’ चिह्नं च स्वीकृतवती । अन्ताराष्ट्रिय संस्थायाः ‘रेडक्रास् सोसाइटी’ इति नाम अभवत् । क्रमेण विश्वे अनेके देशाः रेडक्रासअन्ताराष्ट्रिय समित्याः सदस्याः अभवन् । द्वयोः महायुध्दयोः अस्याः संस्थायाः कार्येषु अनेके देशाः अपि सम्मिलिताः अभवन् ।युध्दे बन्धितानां वस्त्रं आहारं च एषा संस्था पूरणं अकरोत् । सैनिकानां परिवार जनानां वार्ता प्रेषण कार्यमपि अकरोत् । इदानीमपि रेडक्रास् संस्था शान्तिस्थापनार्थं नैसर्गिकविपत्तिषु भूकम्पप्रवाहचण्डमारुतदुर्घटनादिषु प्रवृत्तासु सम्पूर्णतया साहाय्यं करोति ।

पर्षियादेशे स्थिता रेड्लयन्संस्था मातुः शिशोः च क्षेमरक्षणकार्यं करोति । प्रकृतिविकोपः विश्वे कुत्रापि भवतु रेडक्रास् संस्था तत्रोत्तमं कार्यं करोति । अस्याः सस्थायाः साहाय्यार्थम् अनेकदेशाः धनराशिं ददति । अन्ताराष्ट्रियाः अन्यसंस्थाः अपि साहाय्यं यच्छन्ति । इदानीन्तन काले ग्रामेषु नगरेषु च आकस्मिकः अपघातः, अग्निदाहः, अधिकवर्षेण प्रवाहभीतिः इत्यादिप्रसङ्गेषु दुःखितानां चिकित्सार्थं चिकित्सालयाः स्थापिताः सन्ति । बालानां च प्रथमचिकित्साज्ञानार्थं प्रशिक्षणदानं च करोति । वाहननिर्वाहकानां चालकानां शिक्षकाणां स्कौट् गाइड् .एन्. सी.सी. सङ्घटनायां स्थितानां च प्रयमचिकित्साविषये रेडक्रास् संस्था प्रशिक्षणं ददाति ।

उदात्तोद्देशेन डुनाण्ट्महोदयेन स्थापिता संस्था आधुनिककाले समाजस्य उत्तमसेवाकार्यं सततं करोति । जनाः अपि एतादृशप्रसङ्गे निस्वार्थतया सेवारुपेण कार्यं कर्तुम् आगच्छन्ति ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु