केरलराज्यस्य कृषिपर्व भवति विषु। मलयालमासस्य मेड (मेष) मासस्य प्रथमे दिनाङ्के आचर्यते। दिनेऽस्मिन् वैशिष्ट्येन अग्रिमवर्षस्य ज्योतिषफलानि अपि चर्च्यन्ते। तत् 'विषुफलम्' इत्यभिधीयते। न केवलं केरलेषु अपि तु केरलपाश्ववर्तीनाम् अन्यराज्यानां सीमाप्रदेशेष्वि पर्व इदम् आचर्यते। भारतस्य सर्वेषु राज्येषु समानपर्वाणि आचर्यन्ते। सर्वत्रापि भारतकालगणनासम्प्रदायस्यैव परिगणनं भवति।

पोलिक पोलिक दैवमे तन् नेल् पोलिक इत्यादीनि पुल्लुवगीतानि च पर्वणस्यास्य कषिणा सह विद्यमानं सम्बन्धं द्योतयति। विषुदिने कृतानां कर्मणां प्रभावः एकवर्षं यावत् अनुवर्ततेति विश्वासः वर्तते। पर्वणस्यास्य सम्बन्धः भगवता श्रीकृष्णेन सह कल्पितः अस्ति केरलेषु। गुरुवायूर् इत्यादिषु श्रीकृष्णमन्दिरेषु पर्वणस्यास्य आचरणं प्रसिद्धमस्ति।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=विषुवपर्व&oldid=462889" इत्यस्माद् प्रतिप्राप्तम्