रामपाणिवादविरचिते विष्णुविलासकाव्ये अष्ट सर्गाः सन्ति । भगवतः नव अवताराणि एव काव्येस्मिन् वर्ण्यन्ते । भागवतपुराणोक्तरीत्या एव एते अवताराः उक्ताः । पालियत्त् अच्छन् नाम भूप्रभोः निर्देशानुसारमेव अयं काव्यं लिखितम् । अस्य काव्यस्य विष्णुप्रिया नाम व्याख्यानमपि कविनानेन विरचितम् उपलभ्यते । अन्तिमद्वयोः सर्गयोः व्याख्यानं नोपलभ्यते । इदं काव्यं सव्याख्यानं केरलसर्वकलाशालातः १९५१ तमे वर्षे प्रसिद्धीकृतम् । काव्यारम्भे कविः स्वगुरुं मेल्पुत्तूर् भट्टपादं एवं स्तौति -

करोतु नारायणभट्टदेशिक-
प्रसादनिर्दोषतुषारदीधितिः ।
मदन्तरिन्दूपलमुक्तिमाधुरी-
झरीपरिष्यन्दितयातिसुन्दरम् ।।

भगवतः दशमावतारः एतावत्पर्यन्तं न संभूतः । अत एव कविः तं न स्तौति । स्वव्याख्याने कविना उच्यते च - कल्किरूपस्य दशमरूपस्येदानीमनिष्पन्नत्वात् इति । आद्य सप्तसर्गेषु मत्स्य-कूर्म-वराह-नारसिंह-वामन-परशुराम-श्रीरामावताराणां वर्णनं कृतं भवति । सर्गावसानश्लोकाः तत्तदवतारस्तुतिपराः च । अष्टमसर्गे बलराम-श्रीकृष्णावतारौ प्रतिपाद्येते । -- Drvijay १२:४०, २१ अष्टोबर् २०१० (UTC)

"https://sa.wikipedia.org/w/index.php?title=विष्णुविलासकाव्यम्&oldid=363149" इत्यस्माद् प्रतिप्राप्तम्