इयं वेणी स्त्रीणां शरीरस्य किञ्चन महत्त्वभूतम् अङ्गम् । वेणी आङ्ग्लभाषायां Braid इति उच्यते । वेणी स्त्रीणां सौन्दर्यस्य वर्धिका अपि । वेण्यः विभिन्नशैल्या रच्यन्ते । आधुनिककाले तु वेणीविन्यासः (केशविन्यासः) उद्यमत्वेन एव परिगण्यते । इदानीन्तने काले पुरुषाः अपि क्वचित् वेणीपालनं कुर्वन्ति, महिलाः केशान् कर्तयन्ति चापि । वेण्याः अलङ्कारः अपि विभिन्नरीत्या क्रियते । प्रदेशानुगुणं, देशानुगुणं वा वेणीरचनायां भेदाः भवन्ति ।

दीर्घा वेणी
"https://sa.wikipedia.org/w/index.php?title=वेणी&oldid=345595" इत्यस्माद् प्रतिप्राप्तम्