वेदव्यासस्मृतिः
भगवान् वादरायणो वेदव्यासोऽत्यन्तं योगजन्मा महामनीषी आसीत् । महाभारतम् श्रीमद् भागवतादयस्तत्कृता ग्रन्था भारतीयजन-जीवनस्यालोकस्तम्भ इवादर्शस्थानीया युगे दुगे सन्मार्गं निर्दिशन्तः शोभन्तेतराम्, व्यासस्मृतावस्यां विशेषतो गृहस्थाश्रमस्य नियमाः सम्यक्तया वर्णिताः सन्ति । गृहस्थः पुरुषः सस्त्रीकः सन् धर्मम्, अर्थं कामञ्च यथाविधि पालयेत् । स्त्रीः प्रातरुत्थाय स्नानादि नित्यकर्म समाप्य सकलगृहकर्माणि कृत्वा पाकक्रियया स्वामिनं स्वपरिवारञ्च सर्वथा सन्तोयेत् । पुरुषोऽपत्नीकः किमपि धर्मकृत्यं कर्त्तुं न शक्नुयादिति स्मृति र्निषिध्यति । गृहस्थस्य चरितं कथं सुनर्मलं निरामयं च भवेत् कथञ्च स्त्रीः पुरुषस्यार्धाङ्गिनी सती स्वधर्मं परिपालयेत् विषयेऽस्मिन् व्यासस्मृतौ विस्तरशो विधिनिषेधयोः व्याख्या विधीयते । वर्णाश्रम-धर्मस्य षोडशसंस्काराणां तीर्थाटनादिप्रसङ्गस्य च सविस्तरं वर्णना दृश्यते । मानवसमाजस्य कल्याणाय ये ये कार्यकलापा येन विधिना सम्भवेयुः । तेषां यथाविधि शास्त्रीयो निदेशो निरूप्यते ।
वेदव्यासस्मृतौ चत्वार एवाध्याया वर्त्तन्ते । तेषु प्रथमाध्याये गर्भाधानादि-षोडशसंस्काराणां नित्यकर्माणि स्त्रीधर्माः रजः स्वलाधर्माश्च निरुपिताः । तृतीयाध्याये स्नानविधिः पूर्वाहणकृत्यम्, तर्पणविधिः पाकयज्ञादिविधिः गृहस्थाह्निक-वर्णनादिकञ्च प्रदिपादितम् । ततः चतुर्थाध्याये गृहस्थाश्रम-प्रशंसा तीर्थधर्म-दान-धर्म-वर्णनम् सत्पात्र -विचारः ब्राह्मणप्राशंसादिकञ्च सम्यग् विचारितम् ।
स्मृतावस्यां शोभनं नीतिवचनं यथा-
- जीवन्ति जीविते यस्य विप्रा मित्राणि बान्धवाः ।
- जीवितं सफलं तस्य आत्मार्थे को न जीवति ॥
- अनाहूतेषु यद्दत्तं यच्च दत्तमयाचितम् ।
- भविष्यति युगस्यान्तस्तस्यान्तो न भविष्यति ॥