व्याकरणशास्त्रस्य इतिहासः

व्याकरणशास्त्रस्य इतिहासः अष्ठाध्याय्याः अपि पुरातनः अस्ति। ( मुखं व्याकरणं स्मृतम्) विदन्ति विद्वांसो यद्वेदाश्चत्वारो भवन्ति । यथा कस्यापि शरीरधारिणः पुरुषस्य विभिन्नान्यङ्गानि भवन्ति तद्वत् वेदपुरुषस्याप्यङ्गानि सन्ति । अङ्गानि संयोज्यव पुरुषाकृतिनिर्मीयते । तद्वत् वेदस्य वेदानां वा षडङ्गानि मुख्यानि भवन्ति । तेषु षडङ्गेषु व्याकरणं तृतीयमङ्गमस्ति । तच्च वेदपुरुषस्य प्रधानतममङ्गं मुखमस्ति 'मुखं व्याकरणं स्मृतमिति निर्देशात् । मुखरूपत्वादस्य शास्त्रस्य मुख्यत्वं स्वयमेव सिद्धं भवति ।

व्याकरणस्य प्रयोजनानि

सम्पादयतु

साम्प्रतं विचारणीयोऽयं वर्तते यदस्य शास्त्रस्य कि प्रयोजनम् ? यतो हि-कस्यापि शास्त्रस्याध्ययनायतदावश्यकं भवति तस्य शास्त्रस्य कि प्रयोजनम् । प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते । अतः प्रयोजनेन विना कस्यापि कुत्रापि प्रवृत्तिर्न भविष्यति, इति निष्कर्षः समापतति । अध्ययनस्य यत्किञ्चिद् दृष्टमदृष्टं वा फलं भवत्येव । निष्प्रयोजनन्तु किमपि न भवति । अतो निर्विवादमेतत् यच्छास्त्राध्ययनस्य पूर्व तच्छास्त्रस्य प्रयोजनज्ञानमावश्यकं भवति । इति लक्ष्यमादायव मोमांसकेन कुमारिलभट्टेन स्वीये श्लोकवातिके उच्चर्घोषितं यत् -

'सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् ।

यावत् प्रयोजनं नोक्तं तावत् तत्केन गृह्यते' ।

इत्येव नहि । अपरञ्चोक्तं तत्रैव, तद्यथा -

'सिद्धार्थज्ञातसम्बन्धे श्रोतुं श्रोता प्रवर्तते ।

शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः' ।

आभ्यां प्रमाणाभ्यां सिद्धयति यत् शास्त्राध्ययनं सप्रयोजनं भवति । अत्रैतद्ध्या तव्यं यत्-महर्षिणा पाणिनिना व्याकरणशास्त्रस्य सर्वतोमुखी रचना तु कृता, किन्तु अध्ययनस्य प्रयोजनं नोपदिष्टम् । एतदेव कारणमस्ति यत् मीमांसाशास्त्रस्य सम्प्रदाये 'प्रयोगोऽयन्तु शास्त्रत्वादि'त्यस्य वार्तिके लिखितमस्ति यत्---

'न तावत् शास्त्रकारेण किञ्चिदुक्तं प्रयोजनम् ।

कथं चैतानपि ग्रन्थे स्यात् प्रयोजनविस्मृतिः' ॥ ( तन्त्रवार्तिके )

अस्योत्तरे केवलमियदेव कथनं समुचितं भविष्यति यत्---पाणिनिना प्रयोजनं नोपदिष्टम्, तेन न कापि हानिर्भवति । येन प्रकारेण धार्मिकानुष्ठानतत्परं जनं सन्ध्यावन्दनादीनां प्रयोजनख्यापनस्य कापि आवश्यकता न भवति, तेनैव प्रकारेणा त्मोत्कर्षेच्छुकं जनं व्याकरणपाठशिक्षणस्याथवा तत्प्रयोजनख्यापनस्य काप्यावश्यकता न भवति । अस्मिन विषये श्रुतिरप्युच्चर्घोषयति-'ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च' ।

अतो यदि स्वोत्तराधिकारिभ्यः पाणिनिना किमपि प्रयोजनं । निर्दिष्टं तदाऽसङ्गतं किं कृतमिति । दशमे शतके काश्मीरनिवासिना जयन्तभटे न्यायमञ्जर्याः प्रमाणप्रकरणे कथितं यत---'यद्यपि सूत्रकृता स्वयं प्रयोजनं किमिति न वक्तव्यमिति । यस्मिन् स्थले यस्य शब्दस्यार्थोऽन्वितो न भवेत्. तस्मिन् स्थले तस्य पदस्य त्यागं विधायान्वययोग्या पदयोजनाविधानस्य नाम--'ऊहः' विद्यते। यथा निर्वपनसंस्कारे—'अग्नये त्वा जुष्टं निर्वपामि' इति पाठो भविष्यति परञ्च प्रोक्षणसंस्कारे 'निर्वपामि' इति पदस्य परिवर्तनं विधाय 'प्रोक्षयामि' इति पाठो भविष्यति ।

(ग ) आगमः -- इत्यस्मिन् विपये महाभाष्ये लिखितमस्ति–'आगमः खल्वपि ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्चेति प्रधानं च षट्स्वङ्गेषु व्याकरणं प्रधाने च कृतो यत्नः फलवान् भवति' इत्यनेन व्याकरणशास्त्रस्य सर्वशास्त्रेषु प्रधानत्वं सिद्धयति । अस्मिन् विषये कैयटवैयाकरणाः कथयन्ति-"आगमः प्रयोजनः प्रवर्तको नित्यकर्मता व्याकरणाध्ययनस्य दर्शयति । प्रयोजनशब्देन च प्रयोजक श्वोच्यते"। इत्येव नहि भट्टोजिदीक्षिता अपि आगमस्य प्रवर्तकत्वमेव ख्यापयन्ति । तेषां कथनमस्ति–रक्षोहलाघवासन्देहाख्यानि चत्वारि फलानि, आगमस्तु प्रवर्तक इति ।

(घ) लघुता- अस्मिन् विषये शब्दशास्त्रस्य प्रमुखव्याख्यातारो भाष्यकाराः पतञ्जलयः कथयन्ति यत्-लघ्वर्थं चाध्येयं व्याकरणं ब्राह्मणेनावश्यं शब्दा ज्ञेया इति । न चान्तरेण व्याकरणं लघुनोपायेन शब्दाः शक्या ज्ञातुम्' । इत्यनेन सिद्धयति यत्-शब्दशास्त्रस्य ज्ञानं ब्राह्मणायावश्यकमिति । किञ्च व्याकरणातिरिक्तं लघूपायेन शब्दज्ञानं न भवितुमर्हति । अत्र महर्षेरभिप्रायोऽयमस्ति यत्-पुरा कल्पपद्धत्यनुसारं प्रतिपदपाठेन शब्दज्ञानलाभापेक्षया सामान्यविशेषात्मकं नियमावलम्बनपूर्वकं शब्द ज्ञानं सुलभं भवति । तथा चाह तन्त्रवात्तिके -

'यदि वा गौरवस्यैव लघुत्वमुपचर्यते ।

विपर्ययापदेशेन शूरे कातरशब्दवत्' ।

अपरञ्च व्याकरणाध्ययने प्रयोजनस्यापेक्षा अनिवार्यरूपेणास्ति न वेति समुचितैः उदाहरणः भाष्यकाशः सुस्पष्टमुद्घोषयन्ति यत्--'व्याहृतं तदप्यदूषणमेव व्याकरणं हि वेदाङ्गमिति प्रसिद्ध मेतदाहिमवत् आ च कुमारीभ्यः, वेदश्च यदि निष्प्रयोजन: स्वस्ति प्रजाभ्यः समाप्तानि दृष्टादृष्टफलानि सर्वकर्मणि जितं चातुर्वर्ण्यबाह्यैरन्त्यजनवासिभिः म्लेच्छः, अथ सप्रयोजनो वेदः पडङ्गत्वादङ्गः स एव सप्रयोजनतां भजत इति कोऽर्थः प्रयोजनान्तरचिन्तया नहि दर्शपूर्णमासप्रयोजनादन्यत् प्रयोजनमिष्यते इति मत्वा नः स्वयं सूत्रकृत् प्रयोजनं नाख्यात्' इति ।

अपरञ्च–पश्चातिकाले व्यवहारपक्ष मादाय कैयटमहानुभावाः कथयन्ति यत्-पाणिनिकाले वेदपाठेन सह व्याकरणा ध्ययनस्य प्रचलनमासीत् । अतोऽध्येतृणां मध्ये आबाल्यादेव प्रयोजनज्ञानस्यौत्सुक्यं नासीदतः पाणिनिनाऽस्य किमपि प्रयोजनं नोपदिष्टम् । अस्मिन् विषये-कात्यायनकुमारिल-जयन्तभट्टादयो व्याख्याकारा बहुशो विमृशन्ति । अलमत्र कथनोपकथनेन । चार्याणां प्रयोजनविषयिका धारणा समादरयोग्या विद्यते ।

अथापि कात्यायनेन प्रयोजनमुद्दिश्य कथितं यत्-'रक्षोहागमलध्वसन्देहाः व्याकरणप्रयोजनम्' । एषां प्रयोजनविषयाणां क्रमेणकैकस्य विचारः प्रस्तूयते । तद्यथा -

(क) रक्षा- व्याकरणस्य प्रयोजनचतुष्टयेषु रक्षा प्रथमं प्रयोजनं विद्यते । अस्मिन् विषये पतञ्जलिना कथितं यद्-'रक्षार्थ वेदानामध्येयं व्याकरणम् । लोपागमवर्ण विकारज्ञो हि सम्यक् वेदान् प्रतिपालयिष्यति इति ।' अत्रायमाशय:-व्याकरणस्य नियमानुसारं वर्णलोपादीनामज्ञानात् सर्वेषां शास्त्राणामाकारस्वरूपस्य वेदस्य परि पालनं न भवितुमर्हति । एतत्तथ्यं मीमांसका न स्वीकुर्वन्ति । कुमारिलभट्टास्तु सुस्पष्टं कथयन्ति यत्--

'वेदरक्षापि नैतस्मादृतेऽध्येतृपरम्पराम् ।

सम्प्रदायानुवृत्तिश्चेद् वेदस्तेनैव रक्ष्यते' ॥

एतदतिरिक्तमपि 'प्रयोगोत्पत्त्यशास्त्रत्वम्' इत्यत्र सूत्रवात्तिके लिखन्ति–'शिष्या चार्यसम्बन्धो हि महान् वेदरक्षाहेतुः व्याकरणानधीतस्यापि वेदक्रमस्याध्ययनेनैव रक्षाभानत्वात् । तस्माद् वेदरक्षार्थं तावन्नाध्येयं व्याकरणम्' । अन्यच्च न्यायमञ्जर्याः प्रमाणप्रकरणे लिखितमस्ति यत्— 'रक्षा तावत्-अध्येतृपरम्परात एव सिद्धा मनागपि स्वरतो वर्णतो वा प्रमाद्यन्तं किञ्चिदधीयानमन्येऽध्येतारो मा विनीनशः श्रुतिं गुरव उच्चारयेदित्याचक्षाणाः शिष्यान् इति रक्षितो भवति वेदः' । अत्राय माशयः-वेदाध्येत्रा पारस्परिकरूपेण रक्षितो भवति वेदः, यथा हि-गुरुकुले यदा आचार्यः समुपस्थितो न तिष्ठति तदा शिष्याः परस्परं भ्रमापनोदनं कुर्वन्ति । अतो वेदश्चिरकालपर्यन्तमक्षुण्णस्तिष्ठति ।

न केवलं शिष्याचार्याभ्यामेव वेदरक्षा न भवति, प्रत्युत व्याकरणस्य स्पष्टतः प्रयोजनमप्यस्ति । 'ईश्वरो विचरितोः' इत्येषो वैदिकः प्रयोगः । इत्यत्र 'विचरितो' एतत्पदं 'ईश्वरे तो सुनक्सुनौ' इति सूत्रस्यानुसारं निष्पन्नं भवति । अनेन प्रकारेण शब्दस्य साधुत्वं लोके न सिद्धयति । एतदेव कारणमस्ति यत् कात्यायन-पतञ्जल्यो मंतमस्ति यत्-व्याकरणज्ञानस्याभावे मन्त्रेषु विकारः उत्पत्स्यते । निष्कर्षश्चात्र व्याकरणं पुरुषार्थस्य साधनोपायः, यतो हि व्याकरणेन वेदार्थज्ञानं, कर्मानुष्ठानजनितं सुखम्, उपनिपज्जनितं सुखञ्च वस्तुतो व्याकरणपाठस्यैव फलमस्ति ।

( ख ) ऊहः - ऊहस्यार्थः नूतनपदानां कल्पनया विद्यते । अस्मिन् विषये महर्षयः पतञ्जलयो महाभाष्ये प्रतिपादयन्ति यत्-ऊहः खल्वपि न सर्वलिङ्गः न च. सर्वाभि विभक्तिभिर्वेदे मन्या निगदिताः, ते चावश्यं यज्ञगतेन पुरुषेण यथायथं विपरिणमयि तव्या । तावन्नावैयाकरणः शक्नोति यथायथं विपरिणमयितुं तस्मादध्येयं व्याकरणम्' ।

अस्मिन् विषये मीमांसकानां भिन्नः पन्था विद्यते, ते कथयन्ति यदूहस्तु मीमांसा शास्त्रविषयः न तु व्याकरणस्य । अस्मिन् विषये कुमारिलभट्टाः तन्त्रवार्तिके वदन्ति -

'ऊहार्थमपि शब्दानां न व्याकरणमर्थवत् ।

ऊहस्याप्यन्यतः सिद्धे ऊह्यानूह्य विभागवत्' ।

(ग ) आगम:- स्वयं श्रुतिरेव व्याकरणाध्ययनाय प्रमाणभूता विद्यते । श्री रुच्चै?षयति यत् ब्राह्मणस्येदं कर्तव्यमस्ति यत् स निष्कारणं धर्मस्याङसहित वेदस्याध्ययनं ज्ञानञ्च प्राप्नुयात् । यतो हि पडङ्गेषु व्याकरणमेव मुख्यमस्ति । मख्य विषये कृतो यत्नो विशेषफलवान् भवति । अतः श्रुतिप्रामाण्यं स्वीकृत्य व्याकरणस्या. ध्ययनं द्विजमात्रस्य कर्त्तव्यमस्ति । .

(घ ) लघुः-- अस्यायं निष्कर्षो वरीवति यत्-वीरे यथा कातरशब्दस्याधान क्रियेत तेनैव प्रकारेण गुरुत्वे लघुताया उपचाराय विपरीतलक्षणावत् गुरुं लघुः कथितः। लोकप्रसिद्धान् शब्दानादायालौकिकानां संज्ञापरिमाणनिबद्धानामनेकप्रक्रियाणां नियम धातु-प्रत्यय-सूत्रादीनां प्रयोगपूर्वकं भाष्यं निनिमित्तकाक्षेपेण समाधानादिनाऽत्यन्तं कष्टं भवति । तत् पूर्वपरिचिते शब्दे प्रत्यावर्तनं विधाय व्याकरणे तस्यानुवादमात्रं भवति । तदा तं लघु कथं विजानीयात् । अस्योत्तरे सिद्धान्तपक्षधारकाः कथयिष्यन्ति शब्दस्य साधुत्वातिरिक्तमपि अध्यापनं सम्भवं नास्ति, एकैकेन शब्देनोपदेशस्त्वथापि दुःसाध्यो विद्यते । अनेन प्रकारेण सामान्य-विशेषयोरनुगमकलक्षणातिरिक्तस्य पठन पाठनयोः सौकर्य नास्ति । श्रुतिरपि कथयति

'बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम' । अत एव पतञ्जलिमहर्षयः कथयन्ति यत्-शास्त्रस्य लघुतासम्पादन मपि व्याकरणस्य प्रयोजनमस्ति।

(ङ) असन्देहः- व्याकरणस्य प्रयोजनविषये पञ्चमं कारणमस्ति 'असन्देह' इति, अतः 'असन्देहाथं चाध्येयं व्याकरणम् । याज्ञिकाः पठन्ति–स्थूलपृषतीमाग्निवारुणी मनड्वाहीमालभेतेति । तस्यां सन्देहास्थूला चासौ पृषती च स्थूलपृषती, स्थूलानि पृषन्ति यस्यां सेयं स्थूलपृषतीति तां नावैयाकरणः स्वरतोऽध्यवस्यति यदि पूर्वपदं प्रकृतिस्वरत्वं ततो बहुव्रीहिः । अथ समासान्तो वृत्तित्वं तत्तत्पुरुष इति । ( पृषती श्वेतबिन्दुमती मृगी)। निष्कर्षश्चात्रावैयाकरणः कदापि मन्त्राणां स्वरविचारे समर्थो न भविष्यति । तस्मात् व्याकरणं सप्रयोजनम् । अत्र मीमांसका आक्षिपन्ति यत् व्याकरणं पदवाक्यादीनामर्थनिर्णयेऽपि सामर्थ्यं न दधाति किं पुन: सन्देहनिवारणे । इत्थं व्याकरणप्रयोजनविषये मुहुर्मुहुः अपलापेऽपि वैयाकरणाः कथयन्ति -

'यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम् ।

स्वजन: श्वजनो माभूत् सकलं शकलं सकृच्छकृत्' ।

महर्षिणा पतञ्जलिना तु उपर्युक्तानां प्रयोजनानामतिरिक्तं प्रयोजनं म्लेच्छता निवारणं प्रधानं कथितम् । ते कथयन्ति -

तेऽसुराः हेलयो हेलय इति कुर्वन्तः पराबभूवुः, तस्मात ब्राह्मणेन न म्लेच्छितव नापभाषितवै म्लेच्छो ह वो एष यदपशब्दः । म्लेच्छो मा भूमेत्यध्येयं व्याकरणम् । किम्बहुना शतपथब्राह्मणेऽप्याम्नातं यत् -

'तेऽसुरा आप्तुकामा हेलयो हेलय इति वदन्तः ।

पराबभूवुः तस्मात् ब्राह्मणो न म्लेच्छवत्' ।

यज्ञशालायां याज्ञिका अपशब्दानां प्रयोग न कुर्युः, येन च वेदस्य सुरक्षा भवेत् तस्माद् व्याकरणमध्येतव्यम् । व्याकरणञ्च सप्रयोजनम् । यतो हि-'एकः शब्दः सम्यग् ज्ञात: शास्त्रान्वित: सुप्रयुक्तः स्वर्गे लोके च कामधुग भवति । अलमति विस्तरेणास्मिन् विषये।

अथातो व्याकरणमीमांसा

सम्पादयतु

व्याकरणमपि प्रकृति-प्रत्यययोः स्वरूपमुपदेशश्च दृष्ट्वा पदस्वरूपस्य तदर्थस्य च निर्णयाय प्रयुक्तं भवति । अपि च व्याकरणस्य व्युत्पत्तिलभ्योऽर्थोऽस्ति पदमीमांसा शास्त्रम् । तथा च-व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति व्याकरणम् । अन्यच्च-- व्याकरणं वेदपुरुषस्य मुखं स्वीक्रियते--मुखं व्याकरणं स्मृतम् । मुखभावत्वादेव वेदाङ्गेषु व्याकरणस्य प्रामुख्यं विद्यते । येन प्रकारेण मुखं विना भोजनादेरकरणात् शरीरस्य पुष्टिर्न भवत्यसम्भवोऽस्ति, तेनैव प्रकारेण व्याकरणेन विना वेदरूपिणः पुरुषस्य शरीरस्य रक्षा तथा स्थितिः कठिना दुर्वहा चास्ति । अत एवास्माकं प्राचीनैः ऋषिभिर्महर्षिभिश्च व्याकरणस्य महनीयतायाः प्रतिपादनं महत्सु गम्भीरेषु शब्देषु कृतम् ।

व्याकरणस्य प्राचीनत्वम्

सम्पादयतु

साम्प्रतिके युगे वेदस्य वेदानां वा प्राचीनताविषये प्रमाणस्य आवश्यकता नास्ति । भवन्तु नाम वैदेशिका विद्वांसो वेदस्य कालनिर्धारणं तदपि पञ्चसहस्रादप्यधिकं निरूपणं कुर्वन्ति स्म । तत्तु न समीचीनम् । विपरीतमेतत् भारतीया विद्वांसस्तु तस्यानादित्वमपौरुषेयत्वञ्च प्रतिपादयन्ति । सर्वप्रथम व्याकरणस्य चर्चा ऋग्वेदे प्राप्यते । ऋक्संहितायामस्य व्याकरणशास्त्रस्य प्रशंसाया मनेके मन्त्रा भिन्न-भिन्नस्थानेषूपलब्धा भवन्ति ।

तत्रैवैकस्मिन् सुप्रसिद्ध मन्त्रे शब्द शास्त्रस्य ( व्याकरणस्य ) वृषभरूपेणाङ्कनं रूपकमिवाङ्कनं विद्यते । यस्मिन् व्याकरण मेव कामानां पूरणार्थं वृषभनाम्नोल्लिखितमस्ति । अस्य चत्वारि शृङ्गाः सन्ति-- नाम-आख्यात-उपसर्ग-निपाताश्च । पादाश्च त्रयः सन्ति--वर्तमान-भूत-भविष्यनामकाः अय: कालाः । अस्य द्वे शीर्षे-सुबन्त-तिङन्तरूपे । अस्य सप्त हस्ताः-प्रथमा- . द्वितीयादिरूपाः सप्त विभक्तयः सन्ति । एवं प्रकारत्रयेण बद्धो वृषभरूपो देवः यो हि मनुप्येषु प्रविष्टः । काव्यमीमांसायां राजशेखरेणापि एतच्चचितम् । तद्यथा मूलरूपेण ऋग्वेदे ( ४।५८।६ )

'चत्वारि शृङ्गा बयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।

विधा बद्धो वृपभो रोरवीति महो देवो मयां आविवेश' ।

ऋग्वेदस्यैवैकस्यान्यस्मिन् मन्ये व्याकरणशास्त्रस्य विशेषज्ञानभिज्ञयोः तुलना महत्या गम्भीरया मार्मिकरीत्या च कृता अस्ति । व्याकरणानभिज्ञो जनः एकः एतादृशो जीवो वर्तते यो हि वाणी पश्यन्नपि न पश्यति शृण्वन्नपि न शृणोति, परञ्च व्याकरणविदुषे वाणी स्वस्वरूपं तेनैव प्रकारेणाभिव्यञ्जयति यथा मी सुसज्जिता कामिनी स्वपत्यु रग्रतः स्वात्मानं समर्पयति । तद्यथा मूलरूपेण (१०।७१।१ ) -

'उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन् न शृणोत्येनाम् ।

उतो त्वस्मै तन्वं विसरो जायेव पत्ये उशती सुवासाः' ।

आचार्यवररुचिप्रोक्तानां पञ्चप्रयोजनानामतिरिक्तं महर्षिणा पतञ्जलिना प्रयोदश प्रयोजनानामपि उल्लेख कृतः । येषु कानिचित् प्रयोजनानि सक्षेपेण यथा

(१) अपभाषणम् -- शब्दानामशुद्धोच्चारणस्य परिमार्जनार्थ व्याकरणमेवावा. स्मान् शिक्षयति । श्रूयतेऽसुराः 'हेलयः हेलयः' इत्युच्चारयन्तः पराजयं प्रापुः । वर्णानां शब्दानां चाशुद्धोच्चारणमेव म्लेच्छत्वं शुद्धोच्चारणविधानञ्च 'आर्यत्वमस्ति । अतो वयं म्लेच्छा न स्याम एतदर्थ व्याकरणस्याध्ययनमत्यन्तावश्यकमस्ति ।

(२) दुष्टः शब्द:- इति तु सुविदितमस्ति यत्-शब्दानां शुद्धेः अशुद्धेश्चापि ज्ञानं व्याकरणे व भवति । अशुद्ध शब्दानां प्रयोगेणोत्पन्नः अनर्थैः वयं सम्यक्तया परिचिताः स्मः । अतो दुष्टशब्दानां. प्रयोगेण हानिमभिलक्ष्य तदूरीकरणाय व्याकरण स्याध्ययनं ज्ञानञ्चावश्यकमस्ति ।।

( ३ ) अर्थज्ञानम् - वेदस्य यथार्थज्ञानाय व्याकरणस्य ज्ञानमावश्यकं भवति। विना व्याकरणेन कापि भाषा सुस्थिरा शुद्धा च न भवति । सर्वासां भाषानां ज्ञानाय तभाषाया व्याकरणज्ञानमपेक्षितम् । तत्रापि संस्कृतभाषाया विशेषतो वेदस्या ध्ययने तु परममपेक्षितं भवति । विना व्याकरणेनार्थस्य स्थानेऽनर्थस्य सम्भावना भवति । अर्थज्ञानं विना शास्त्रस्याध्ययनं तथैव निरर्थकं भवति, यथा—अग्नौ न प्रक्षिप्तानि शुष्कानि काष्ठानि । शुष्के काष्ठे ज्वलन-क्षमताऽवश्यमेवास्ति, परञ्च तस्या ग्निना सह संयोगो भवेत् । अनेनैव प्रकारेणार्थज्ञाने सम्पन्ने सति शब्दज्ञानस्य साफल्यं भवेत् । तस्मात् व्याकरणमध्येतव्यम् ।

(४) धर्मलामः- 'एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तश्च स्वर्गे लोके च कामधुग् भवति' इत्येषा भणितिः लोके सुप्रसिद्धा वर्तते । अत्रायमाशयः- यः कुशलो जनो व्यवहारसमये शुद्धानां शब्दानां प्रयोगं करोति, सः स्वर्गलोकेऽनन्तफलं प्राप्नोति, यश्च केवलमपशब्दानामेव प्रयोगं विदधाति स विविधपापानां भाजनं भवति । शुद्धः शब्दः एक एव भवति, परञ्च तस्यैवानेकेऽपभ्रंशा उपलभ्यन्ते । यथा-गौः शब्दो व्याकरणेन शुद्धः परञ्च तत्स्थाने गावी, गोणी, गोता, गोपोतलिका आदिशब्दा अपभ्रंशस्वरूपाः प्राप्यन्ते । धर्मलाभाय ( प्राप्तये ) च शुद्ध पदानां प्रयोग एव न्याय्यः, अपभ्रंशस्य नैव ।

(५) नामकरणम् -- गृह्यसूत्रकाराणां कथनमस्ति यत्-समुत्पन्नस्य जातकस्य दशमे दिवसे नामकरणं कर्तव्यम् । अस्य नामकरणस्य विशिष्टा नियमाः सन्ति, येषु एको नियमोऽयं वर्तते यत्तत्कृदन्तेन भाव्यं न तु तद्धितान्तेन । एषां सूक्ष्मतत्त्वाना परिचयं स एव प्राप्स्यति येन व्याकरणस्यानुशीलनं कृतम् ।

एभिः कतिपयैः सिद्धान्तैरेव व्याकरणस्य प्रयोजनीयतायाः पर्याप्तः परिचया मिलति।

अपरञ्च प्राचीनव्याकरणस्य विषयनिर्देशः 'गोपथब्राह्मणे' सुस्पष्टरूपेण विद्यते । हात-प्रातिपदिक-नाम-आख्यात-लिङ्ग-वचन-विभक्ति-प्रत्यय-स्वर-उपसर्ग-निपात-मात्रा - वर्ण-अक्षर-पदसंयोग-स्थानानुपादानादयः पारिभाषिकशब्दाः तत्कालीन-व्याकरण शास्त्रस्य मान्या: शब्दाः सन्ति ।

वेदाङ्ग-व्याकरणस्य प्रतिनिधि-ग्रन्थः ?

सम्पादयतु

इदानीं विचारणीयोऽयं प्रश्नो विद्यते यत् वेदस्यास्याङ्गस्य कस्तावत् प्रतिनिधि भूतो ग्रन्थः, अद्यत्वे प्रचलितेषु व्याकरणेषु पाणिनीयव्याकरणमेव प्राचीनतममस्ति । नास्त्यत्र सन्देहावसरः । प्राचीनतमत्वाच्च इदमेव पाणिनीयं व्याकरणं वेदाङ्गस्य प्रातिनिध्यं करोति । अपि च सत्स्वप्यन्येषु व्याकरणेषु पाणिनीयं व्याकरणं लोक प्रचलितं लोकप्रियञ्चास्ति। एतेन ‘ऐन्द्रव्याकरणस्य' प्राचीनताविषये न काऽपि विप्रतिपत्तिः । परञ्चात्र ध्यातव्यं यत् पाणिनेः पूर्वमपि 'ऐन्द्रव्याकरणस्य' सत्ता विद्यमानाऽऽसीत्, इत्यस्मिन् विषये अनेकानि पुष्टानि प्रमाणानि समुपलब्धानि सन्ति । परञ्च कालवशं को न प्राप्तः ? तथैव ऐन्द्र व्याकरणमपि कालप्रवाहे निमज्योन्मज्य नामशेषतां प्राप।

उपलब्धप्रमाणानां साक्ष्ये एतत् कथनमनुचितं न भविष्यति यत्-वैदिके काले इन्द्रस्य प्रथमवैयाकरणस्य चर्चा श्रूयते । इति तु पश्चाद्वतिनो वैयाकरणा अपि स्वीकुर्वन्ति । अतोऽस्य व्याकरणस्य सत्तायां सन्देहलेशस्यापि स्थानं नास्ति ।

व्याकरणस्य क्रमिकविकास:

सम्पादयतु

महर्षिणा शाकटायनेन ऋक्तन्त्रे प्रतिपादितं यत् व्याकरणस्य कथनं प्रवचनं वा पुरा काले ब्रह्मणा कृतम् । ब्रह्मणः सकाशात् बृहस्पतिः, बृहस्पतेः सकाशादिन्द्रः, इन्द्रस्य सकाशात् भरद्वाजः, भरद्वाजस्य सकाशादृषयः, ऋषीणां सकाशात् ब्राह्मणा व्याकरणविद्यामधिजग्मुः । इत्येष क्रमः सार्वदेशिकः । अमूं शास्त्रं विद्वांसः 'अक्षरसमाम्नाय' इत्यपि कथयन्ति । तैत्तिरीयसंहितायामस्य विषयस्य प्राचीनतमोल्लेखः प्राप्यते । तद्यथोल्लेख:-'वाग्वै पराच्यव्याकृताऽवदत् । ते देवा इन्द्रमब्रुवन्-इमां नो वाचं व्याकुविति ।

सोऽब्रवीत्-वरं वृणे, मह्यं चैवैष वायवे च सह गृह्याता इति । तस्माद् ऐन्द्रवायवः सह गृह्यते । तामिन्द्रो मव्यतो: चक्रम्य व्याकरोत् । तस्मादियं व्याकृता वागुत्पद्यते' । निष्कर्षश्चात्र—पुरा काले वाक् ( वाणी ) अव्याकृता आसीत्, अस्यां वाण्यां पदप्रकृतेः कथमपि व्याख्यानं नासीत् । न तत्र व्याकरणमासीत् । अस्य व्याकरणशास्त्रस्य नियमनं भगवता इन्द्रेण कृतम् । इन्द्र निर्देशमुररीकृत्य सुस्पष्टं विधाय महर्षिणा पतञ्जलिना महाभाष्ये पस्पशाह्निके लिखितं यत--'बृहस्पतिश्च वक्ता ( गुरुः ), इन्द्रश्च अध्येता ( शिष्यः ), दिव्य वर्पसहस्रमध्ययनकालः, अन्तं च न जगाम' ( तथापि विद्यायाः पारं न जगामेति )। वस्तुतः परमार्थतो व्याकरणं समुद्रवत् दृश्यतेऽतो शाब्दिकमहार्णवत्वं धारयति । अस्मिन् विषये पण्डितमण्डलीसु एका प्राचीना गाथा सुप्रसिद्धाऽस्ति--

'समुद्र वद् व्याकरणं महेश्वरे तदर्धकुम्भोद्धरणं बृहस्पतौ ।

तद्भाग-भागाच्च शतं पुरन्दरे कुलाग्रबिन्दुत्पतितं हि पाणिनौ' ॥

अत्रायमाशयो विद्यते--माहेश्वरं व्याकरणं समुद्रवद् विस्तृतमासीत, बस व्याकरणं अर्धघटे जलस्थापनमिवासीत् । तद्भागस्य शतांशभागः ऐन्द्रव्या विद्यमान आसीत् । पाणिनी तु कुशाग्रभागात् पतज्जलबिन्दुरेव वर्तमानमस्ति । सापेक्षिकं वर्णनं व्याकरणस्येतिहासे कमभावं सूचयति ।

ऐन्द्रव्याकरणम् - विदुषां समाजे प्राथम्येन चचितमिदमैन्द्रं व्याकरणमा निर्देशैः इन्द्रविरचितं प्रतीयते। कदापि काले व्याकरणमिदं ग्रथितमासीत । अ विषयेऽनेकानि प्रमाणान्युपलभ्यन्ते । तद्यथा तत्तत्स्थानेषु--

(१) नन्दकेश्वरस्मृतायाः काशिका' वृत्त्याः तत्त्वविमशिनीव्याख्यायामपमन्यता सुस्पष्टं लिखितं यत्--"तथा चोक्तम् इन्द्रेण-'अन्तर्वर्णसमुद्भूता धातवः परि कीर्तिताः' इति"।

(२) वररुचिना 'ऐन्द्रनिघण्टोः' शुभारम्भे एवास्य निर्देशः कृतः, तद्यथा

'पूर्व पद्मभुवा प्रोक्तं श्रुत्वेन्द्रेण प्रकाशितम् । . तद् बुधेभ्यो वररुचिः कृतवानिन्द्र नामकम् ॥

(३) विदुषा बोपदेवेन संस्कृतस्य मान्येषु व्याकरणसम्प्रदायेषु प्रथमस्थाने इन्द्रश्चचितः । तद्यथा--

'इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः ।

पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः' ।

( ४ ) सारस्वतप्रक्रियाक; अनुभूतिस्वरूपाचार्येणापि इन्द्र एव शब्दसागरपारङ्ग. मेषु उद्योगी-पुरुषेषु प्रथमश्चचितः । तथाहि--

'इन्द्रादयोऽपि यस्यान्तं न ययुः शब्दवारिधेः ।

प्रक्रियां तस्य कृत्स्नस्य क्षमो वक्तुं नरः कथम्' ।

अपरञ्च-डॉक्टरबर्नलस्य कथनमस्ति यत्-तमिलभाषाया आद्यव्याकरणे 'तोलकप्पियं' इत्यस्मिन् ग्रन्थे ऐन्द्रव्याकरणात् सविशेषा सहायता गृहीता विद्यते । अन्यच्च हरप्रसादशास्त्रिणः कथनमस्ति यत्----कातन्त्रस्य कलापस्य वा व्याकरणस्य रचना अस्यैव सम्प्रदायस्यानुसारं कृता विद्यते । अपरञ्च-वररुचिना 'भवन्ती', 'अद्यतनी', 'ह्यस्तनी' आदीनां येषां पारिभाषिकशब्दानामुल्लेखः कृतः, ते शब्दाः पाणिनेः 'लट्, लु, लिट्' आदि शब्देभ्यः प्राचीना: सन्ति; एषाञ्च प्रयोगा ऐन्द्र व्याकरणे कृता आसन् । एतद् विदुषां सम्मतं मतमस्ति ।

पाणिनीयं व्याकरणम्

सम्पादयतु

साम्प्रतं व्याकरणसमन्वितस्य वेदाङ्गस्य प्रतिनिधिभूतमेकमेव व्याकरणमस्ति । तच्चास्ति पाणिनीयं व्याकरणम् । महर्षिणा पाणिनिनाऽनुमानतः सहस्रचतुष्टयः स्वल्पाक्षरसूत्रः संस्कृतभाषाया नितान्तं वैज्ञानिकं व्याकरणं प्रस्तुतीकृत्य विदुषः आश्चर्ये निपातिताः । वैज्ञानिकदृष्टया देवभाषाया यथा मनोहरं शास्त्रीयं विवेचनं पाणिनिना कृतं तादृशं विवेचनमन्यत्र नोपलब्धमस्ति । अनुसन्धानप्रिया विद्वांसः उच्चैः स्वरेण कथयन्ति यत्--'पाणिनि'सदृशो भाषाशास्त्रचिन्तको मर्मज्ञो वैयाकरणः नमस्ते विश्वेऽन्यत्र क्वापि नाभूत् । एतद् भारतवर्षस्यैव गौरवम् । पाणिनेः ग्रन्थोऽष्टा ध्यायेषु विभक्तः, तस्मादमुमष्टाध्यायी कथयन्ति विद्वांसः । अस्य काल: ईसवीय पूर्व षष्ठशतकमस्ति ।

पाणिनिनाऽव्याख्यातान् संस्कृते प्रयुक्तांश्च शब्दान् व्याख्या कर्तृकोद्देश्येन कात्यायनेन ईसवीयपूर्व चतुर्थशतके वार्तिकानां रचना कृता। तत्पश्चाच्च ईसवीयपूर्व द्वितीयशतके पतञ्जलिना महाभाष्यस्य निर्माणं कृतम् । सूत्रेषु भाष्या ण्यनेकानि सन्ति, परश्च विषयस्य व्यापकतया विचारस्य गम्भीरतया चेदमेव भाष्यं 'महाभाष्यस्य' गौरवपूर्णमभिधानं प्राप्तमस्ति । नायं केवलं व्याकरणस्यैव ग्रन्थः, अपितु व्याकरणस्य दार्शनिकसिद्धान्तानां मीमांसा सर्वप्रथममत्रवोपलब्धा भवति । अस्य गद्यं नितान्तं प्राञ्जलं साहित्यिकञ्चास्ति ।

ग्रन्थकारेण कथनोपकथनस्य शैल्यां समग्रस्य ग्रन्थस्य रचना विहिता। याऽत्यन्तं मनोहारिणी प्राञ्जला च विद्यते । व्याकरणस्य समग्रस्य इमे एव त्रयो मुनयः सन्ति । ते चेमे-पाणिनि-कात्यायन पतञ्जलिनामकाः। एतान् त्रीन् मुनीन् नमस्कृत्यैव भट्टोजिदीक्षिताः सिद्धान्तकौमुद्या रचनां कुर्वन्ति- 'मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च । वैयाकरणसिद्धान्तकौमुदीयं विरच्यते' ॥ इति ।

वैक्रमसंवत्सरस्य प्रारम्भादेवैषां ग्रन्थानां विदुषां समवाये विशेषरूपेण मननं समीक्षणञ्च भवति स्म । व्याकरणस्य साहित्यं विशालं प्रतिभासम्पन्नञ्चास्ति । अस्य केचन ग्रन्थास्तु असमये एव लुप्ताः सञ्जाताः। एतादृशेषु ग्रन्थेषु व्याडिमहर्पिरचितस्य 'सङ्ग्रहस्य' नाम महता समादरेण नीयते । अस्य ग्रन्थपरिमाणं लक्षमेकं श्लोकाः कथ्यन्ते । वामन-जयादित्याभ्यामष्टाध्याय्या उपरि सम्मिलितसामञ्जस्यरूपेणका महती सारयुक्ता व्याख्या लिखिता। अस्या एव व्याख्याया अभिधा-काशिकावृत्तिः ।

ग्रन्थकाराविमौ कश्मीरनिवासिनौ षष्ठशतकस्य प्रारम्भे च विद्यमानावास्ताम् । अस्याः काशिकावृत्तेरुपरि विगतशतके व्याख्यानां परम्परा निबद्धा विद्यते। तास्वेकविधां व्याख्यां 'न्यास' इति कथयन्ति तद्विदः । न्यासा अनेके आसन्, परञ्च ते शनैः शनैः लुप्ताः सञ्जाताः । साम्प्रतं जिनेन्द्र-बुद्धेः न्यास एव न्यासग्रन्थानामेकमा निदर्शन मस्ति । हरदत्तस्य पदमञ्जर्यपि काशिकावृत्तेरेका सर्वमान्या टीका विद्यते । इमे हरदत्तमहोदया दक्षिणभारतस्य निवासिन आसन् द्वादशशतके च विद्यमाना आसन् ।।

महाभाप्यानन्तरं व्याकरणदर्शनस्य सर्वप्रधानग्रन्थो 'वाक्यपदीयम'स्ति । अस्य रचयिता आचार्यो ‘भर्तृहरिः' आसीत् । अस्य काल: षष्ठशतकः । वाक्यपदीये व्याकरण शास्त्रस्य दार्शनिकस्वरूपं स्फुटरूपेणाभिव्यक्तं भवति । व्याकरणं शैवागमस्यान्तर्गत मस्ति । तस्य च स्वविशिष्टा साधनप्रक्रिया विद्यते । एतस्याः पूर्णः परिचयो विदुषो वाक्यपदीयस्यानुशीलनेन भवति । भर्तृहरिमहानुभावाः शब्दाद्वैतस्य संस्थापका आसन् । सेषां दष्टी स्फोटमेवैकमायं परमं तत्त्वमस्ति । जगदिदश्च तस्यैव विवर्तरूपमस्ति । अपि च तैः महाभाष्यस्योपरि भाष्यदीपिका नाम्नी टीका विरचिताऽऽसीत् । परञ्चा यत्वे त्रिपाद्येवोपलभ्यते । कश्मीरनिवासिना कैयटेन विरचितो भाष्यप्रदीप एव महाभाष्यस्य सिद्धान्तान् प्रदीपेव प्रकाशकमेकमात्र ग्रन्थरत्नमस्ति । प्रदीपस्योपरि नागेशभट्टेन उद्योतस्य रचनां विधाय प्रदीपसिद्धान्तानां नितान्तं सुस्पष्टविक श्लाघनीयोद्योगः कृतः ।

अपरञ्च प्रदीपोद्योतकालपर्यन्तं याष्टीका विलिखितास्ता अष्टाध्याय्याः मनुसृत्य स्वीकृत्य च प्रवृत्ताः, परञ्च रामचन्द्राचार्येण पञ्चदशे शतकेऽष्टाध्याय सूत्राणि प्रक्रियानुसारमेकेन नूतनेन क्रमेण निबद्धम् । अस्मिन् क्रमे पदानामेव सिम प्रधान-लक्ष्यभूताऽऽसीत् । अस्य क्रमस्य विस्तारका अभूवन् विख्याता वैयाकरण भट्टोजिदीक्षिताः । इमे काशीनिवासिन आसन् । तेषां गुरव आसन् आचार्यशेष. श्रीकृष्णमहोदयाः । इमे स्वकालस्यातीवमर्मज्ञा वैयाकरणा आसन् । भट्टोजिदीक्षित तेभ्य एव शिक्षा प्राप्य व्याकरणस्येतिहासे एको नवीनो युगः समुपस्थापितः । एषां त्रयो ग्रन्थाः सन्ति- (१) सिद्धान्तकौमुदी, ( २ ) शब्दकौस्तुभः, ( ३ ) मनोरमा चेति । नव्यव्याकरणमेषां ग्रन्थानामेवाध्ययनेऽध्यापने मीमांसायां समीक्षायाञ्च व्यस्त मासीत् । दीक्षितस्यैव परम्परायां नागेशभट्टा उद्भटा वैयाकरणा अभूवन् ।

एषां प्रतिभा सर्वतोमुख्यासीत् । एषां परिभाषेन्दुशेखरः पाणिनीयव्याकरणस्य समुपयुक्तानां परिभाषाणां निदर्शकः सर्वमान्यः ग्रन्थो विद्यते। अपि चैतेषां शब्देन्दुशेखरो मनोर माया विस्तृता व्याख्या विद्यते । अन्यच्चैषां 'लघुमञ्जूषा' शब्दार्थयोः सिद्धान्तानां विस्तृतमीमांसकः सर्वश्रेष्ठः ग्रन्थो विद्यते। इमे महानुभावाः काश्यामेव वसन्तः अष्टादशशतकस्य पूर्वार्धे विद्यमाना आसन् । अद्यापि काशी पाणिनि-व्याकरणस्य दुर्भेद्यो दुर्गो विद्यते। काशीवासिभिर्वैयाकरणः पाणिनि-सूत्राणां तथ्यानां सिद्धान्ता नाञ्चोन्मीलने यावान् ( यादृशः ) श्लाघनीयः प्रयत्न: कृतस्तादृशः प्रयत्नः कस्याप्यन्य प्रदेशवासिभिर्वैयाकरणैर्न विहितः ।

पाणिनिकाले संस्कृतभाषायाः स्थितिः

सम्पादयतु

संस्कृतसाहित्यस्येतिहासस्य पर्यवेक्षणेन ज्ञायते यत्---पाणिनिकाले संस्कृतं कथनोप कथनस्य वार्ताप्रसङ्गस्य च भाषा आसीत् । यस्यां शिष्टा विशिष्टा वा जनाः स्वमनोगतभावानां प्रकटीकरणमनायासेन विना कयापि शिक्षादीक्षया कुर्वन्ति स्म । अस्य विषयस्य पुष्टय विविधानि अनेकप्रमाणानि श्रीमद्भिराचार्यगुरुवरैः बलदेव उपाध्यायमहोदयैः संस्कृतसाहित्यस्येतिहासे प्रदत्तानि सन्ति । महर्षिणा पाणिनिना तयुगस्य संस्कृतं 'भाषा'शब्देन व्यवहृतम् । तद्विरोधपक्षमवलम्ब्य प्राचीना वैदिका विद्वांसो भापाय 'मन्त्रः', 'छन्दसि', निगमस्य' चैषां त्रयाणां शब्दानां प्रयोगं कुर्वन्ति स्म । येषु मन्त्रेण तात्पर्य संहिताविषयकर्मन्त्रः, 'छन्दसि' इत्यस्य च तात्पर्य मन्त्र ब्राह्मणाभ्यां द्वाभ्यां स्तः । 'निगम'शब्दस्य प्रयोगः यास्केन सामान्यतो वेदाय कृतः, पाणिनिनाऽपि तस्मिन्नेवार्थे प्रयुक्तः ।

पाणिनिः वैदिकसंस्कृतस्य वैशिष्ट्यप्रदर्शक: सूत्रस्सह 'छन्दसि' इति शब्दं विनियोजयन्ति । यद्धि मन्त्राणां ब्राह्मणानाञ्च वैशिष्टय सामान्यरूपेण सूचयति । अपरञ्च 'छन्दसि' इत्यनेन ब्राह्मणस्य भाषायाः सङ्केतमेक मवलोकयन्तु 'शीर्षछन्दसि' इत्यस्मिन् सूत्रे-यस्योदाहरणं 'शीर्णा हि सोमं क्रांत हरन्ति' इति ब्राह्मणस्योदाहरणमस्ति । अन्यच्च 'छन्दसि' इत्यनेन सामान्यसङ्कतविधायैव वैदिकभाषायाः सुस्पष्टं विवेचनं कृतं पाणिनिना। अपि चानेकानि सूत्रा ण्युद्धत्य यजुर्वेदस्य भाषासौष्ठवस्य परिचयः प्रदत्तः । इत्येव नहि ऋग्वेदस्य भापायाः कतिपयवैशिष्टयेषु पाणिनिना विशेष योगदानं कृतम् । किम्बहुना अस्य शाब्दिकस्य दृष्टिः सर्वतोमुख्यासीत् ।

व्याकरणं पाणिनीयम्

सम्पादयतु

यद्यपि पाणिनेरनन्तरं कात्यायनस्य पतञ्जलेश्चापि विषयस्यास्य सङ्केतो न्यूनो नास्ति । तथा हि-पाणिनिना अव्याख्यातानां वैदिक-लौकिकशब्दानां व्याख्यानं कात्यायनेन स्ववार्तिकेषु कृतम्। महर्षिणा पतञ्जलिनाऽपि स्वमहाभाष्ये वैदिकभापा समन्वितानामनेकानां सूत्राणां वार्तिकानाञ्च व्याख्यानमाकरग्रन्थानामुद्धरणः सह कृतमिति । पतञ्जले: वैदिकवाङ्मयस्याध्ययनमतिशयं गम्भीरमासीत् । अतस्तेन प्रदत्तो वैदिकशब्दानां सिद्धेः उल्लेखो नितरां प्रामाणिको विद्यते। काशिकायां कौमुद्यां चापि वैदिकशब्दानां व्याख्यानमुल्लेखनीयं विद्यते । अनेन प्रकारेण पाणिनीयव्याकरणस्य सम्प्रदाये वैदिकशब्दानां निष्पादनं, वैदिक-स्वरप्रक्रियायाश्च मीमांसा मार्मिकरीत्या कृता विद्यते । निष्कर्षश्चात्र विद्यते यदस्य पाणिनीयस्य व्याकरणस्य 'व्याकरणम्' इति वेदाङ्गस्य प्रतिनिधित्व-स्वीकरणं सर्वथोपयुक्तं समुचितञ्चास्ति ।

पाणिनेः भाषावैज्ञानिकत्वम्-भाषावर्गीकरणम्

सम्पादयतु

शाब्दिकशिरोमणिना पाणिनिना व्याकृता भाषा मध्यदेशे प्रयुक्ता संस्कृतभाषा ऽऽसीत् । तेन 'प्राचां' तथा 'उदीचां' इति शब्दाभ्यां पूर्वभारते भारतस्योत्तरे भागे च विधीयमानानां प्रयोगाणां भिन्नता प्रदर्शिता । तद्यथा-'कुपिरजोः प्राचां श्यन् परस्मैपदं च' ( १।३।९० ) इति सूत्रस्यानुसारं कर्मकर्तरि प्रयोगे 'कुष्यति' इति भवति पूर्वीयक्षेत्रे, अन्यत्रात्मनेपदस्य प्रयोगो भवति । क्वचिच्च-प्राचाम् उदीचाम् इत्यनयोः परस्परं प्रयोगविरोधस्य प्रदर्शनमस्ति । अनेन प्रकारेण पाणिनेः समये भाषादृष्टया खण्डत्रये विभक्तं भारतं प्रतीयते । यथा-प्राच्यप्रदेशः, उदीच्यप्रदेशो मध्यदेशश्च । 'प्राचा' तथा 'उदीचा' इत्यस्य विभाजिका नदी 'काशिकानुसारं शरावत्यासीत् या पञ्चनद प्रदेशस्य 'शरदण्डा' नदी प्रतीयते । तथा चोक्तम् -

'प्राङदञ्ची विभजते हंसः क्षीरोदके यथा ।

विदुषां शब्दसिध्यर्थं सा नः पातु शरावती' ।

अनेन प्रकारेण शरावती भागद्वये भारतं विभाजयति-प्राच्योदीच्यभेदाभ्याम् । एवमेव 'अहन्नवं नगरेऽनुदीचाम्' इत्यत्र 'अनुदीचाम्' इत्यनेन मध्यदेशः सङ्केतितः । पाणिनयः स्वयमुदीच्या आसन् । अतः उत्तरभारतस्य नगरैः ग्रामैः नंदीभिः जातिभिश्च तेषां प्रगाढपरिचयः स्वाभाविकः । कदाचित्काले उदीच्यदेशस्य भाषायाः प्रभुत्वं विशेष रूपेणासीत्, तत्रत्यैव भाषा अतीव विशुद्धाऽऽसीत् ।

तद्युगीना जनाः संस्कृतभाषा प्रशिक्षणायोदीच्यप्रदेशे गच्छन्ति स्म, स्वदेशे प्रत्यावर्तिते सति समादरस्य सत्कारस्य च पात्रा भवन्ति स्म । तथा चोक्तं शाङ्खायनब्राह्मणे ( ८।६)--'उदच्च एव यन्ति वाचं शिक्षितुम् । यो वै तत आगच्छति तं शुश्रूषन्ते' । अत्र सारभूतं भाषावैज्ञानिक वर्तते यत्-मध्यदेश एव आर्यसंस्कृतेः निरूपकः प्रतिष्ठापकश्चासीन कारणाच्च तद्देशस्य भाषाऽपि कालान्तरे समस्तस्य 'आर्यावर्तस्य' मान्या की च भाषाऽभवत् । इदमेव तथ्यं न्यायसङ्गतञ्च ज्ञायते ।

व्याकरणस्य व्याख्यातारः पूर्वपीठिका- व्याकरणस्येतिहासविदो विद्वांसः कथयन्ति यत्--- व्याकरणशास्त्रस्य यथार्थरूपेणोद्भवो महर्षेः पाणिनेः कालादारभ्य पतञ्जलिकालपर्यन्तं चरमावस्थाया मासीत । तच्छास्त्रस्य विकासक्रमस्तत्रैवायरुद्ध आसीत् । परञ्च तत्पश्चाद्वतिनो विद्वांसः पाणिन्याद्याचार्याणां कृतीनां व्याख्यादिकं लिखन्ति स्म । सैप व्याख्याकालः ।

पतञ्जलेः बहोः कालानन्तरं पाणिनि-कात्यायन-पतञ्जलिभिरतिप्रभावितेन चन्द्रेण ( चन्द्रगोमिना वा ) नवीनस्यैकस्य व्याकरणस्य रचना कृता । अस्मिन् कार्य त्रिमुनीनां पूर्ववर्तिनामाचार्याणां विपुलं साहाय्यं तेन प्राप्तम् । इमे चन्द्रमहाशया बौद्धमतावलम्बिन आसन् । अतः एषां व्याकरण रचनाया मूलोद्देश्यमासीत् स्वसम्प्रदायानुकूलस्य व्याकरणस्य विरचनम् । तत्र साफल्यं तु प्राप्तं, परञ्च बहुलोक प्रियं नासीदतः शनैः शनैः नामशेषतां प्राप । अस्य व्याकरणस्य रचनाकालः ४७० ईसवीयात् ६५० ईसवीयपर्यन्तं लम्बायमानो विद्यते।

वस्तुतो व्याकरणशास्त्रस्य व्याख्याकालो वामनजयादित्याभ्यां प्रारभ्यते, याभ्यां काशिका विनिर्मिता । सेयं काशिका वृत्तिसूत्रमपि कथ्यते । चीनयात्रिण: इत्सिङ्गस्यैतिहासिकपर्यालोचनेनानयोः समयः षष्ठशतक: प्रतीयते । केचन भ्रान्ता जना द्वावप्येक एवेति कथयन्ति, तन्न स्वीकारयोग्यः । यतो हि-सुप्रसिद्धेन वैयाकरणेन भट्टोजिदीक्षितमहाशयेन प्रौढमनोरमायां प्रतिपादितं यदेतौ भिन्ननामको द्वावाचार्या वास्ताम् । तेन लिखितं यत् --'एतत्सर्वं जयादित्यमतेनोक्तं वामनस्त्वाह' इति । खेदजनकोऽयं विषयो यदनयोः सम्बन्धे विशिष्टं ज्ञानं न प्राप्यते । परञ्चतत्तत्यं यदिमौ बौद्धावास्ताम् । केचन जना जयादित्यं जयापीड इत्यप्यामनन्ति वामनञ्च कल्हणः । न समुचितमेतत् । बुहलरमहाशयमतेनतो काश्मीरनिवासिनौ स्तः ।।

काशिका व्याकरणस्य प्रकाशिका विद्यते । इयं पाणिनेः अष्टाध्यायीसूत्रेषु भाष्य भूता विद्यते । अस्या व्याख्याया महवैशिष्टयं विद्यते यत्-अत्र सूश्रेष्वनुवृत्तीनामपि निर्देशोऽभवत् । प्रत्येकेन नियमेन सहानेकान्दाहरणानि सन्ति । काशिकाया प्रधानं प्रयोजनमस्ति-चन्द्रगोमिना कृतस्य व्याकरणस्य प्रगति पाणिनीयसम्प्रदायेन सह सम्मेलनम् । एतद्विपरीतं काशिकायां चन्द्रगोमिनः प्रभावोऽत्यधिको विद्यते।।

काशिकायाः पश्चात्काले न्यासस्याभिधानं रामायाति । न्यासः काशिकाया व्याख्या विद्यते । तमाम 'फाशिका-विवरण-पब्जिका' विद्यते । अस्य रचयिता जिनेन्द्रबुद्धिः । स्वव्याख्याया विषये ते कथयन्ति----

'अन्यतः सारमादाय कृतपा काशिका यथा ।

वृत्तिस्तस्या यथाशक्ति क्रियते पश्चिका तथा' ।

जिनेन्द्रबुद्धिः स्वात्मानं बोधिसत्त्वदेशीयाचार्यरूपेण ख्यापयति । अस्योल्लेखो भामहेन कृतः, अतः एतेषां कालः ७५० ईसवीयाभ्यन्तरो विद्यते । न्यासे जैनेन्द्रबुद्धिना काशिकाया एवानुसरणं कृतं, विकासक्रमे यत्किञ्चिदागतमासीत् तत्सर्वमनेनोल्लिखितम् । अद्यत्वेऽस्य कापि सम्पूर्णा प्रति!पलभ्यते ।

पदमञ्जरी- काशिकोपरि बृहती टीका हरदत्तस्य पदमञ्जरी विद्यते । पद मञ्जरीटीकाकारो हरदत्तः पद्मकुमारस्यात्मजस्तथा अग्निकुमारस्यानुज आसीत् । आश्रयदातुर्नाम-अपराजित आसीत् । एते तमिलदेशनिवासिनः सन्ति । अस्य कालो नवमशतकोऽनुमीयते । इयं मञ्जरी कैयटस्य महाभाष्यप्रदीपस्य पश्चार्तिनी रचना प्रतीयते । कैयटस्य च कालोऽष्टमशतकेसवीयस्य ।।

वाक्यपदीयम् - व्याख्याक्षेत्रे वाक्यपदीयस्य स्थानं महद्गौरवपूर्णमस्ति । अस्य रचयिता भर्तृहरिः प्रख्यातो वैयाकरणः सुकविश्वासीत् । अस्य कालः ईसवीयस्य सप्तमः शतक: स्वीक्रियते । श्रूयते यदेतेन महाभाष्योपर्येका टीकाऽपि लिखिता सा चापूर्णा ऽऽसीत् । गणरत्नमहोदधौ उल्लेखोऽस्ति यत्-सैषा व्याख्या केवलं त्रिषु पादेष्वे वासीत् । वाक्यपदीये च व्याकरणदर्शनस्योपरि छन्दोबद्धा वृत्तिविद्यते । अस्मिन् सन्ति त्रीणि काण्डानि महत्त्वपूर्णानि । तद्यथा-ब्रह्म काण्डमथवा आगमकाण्डम्, वाक्यकाण्डम्, पदकाण्डमथवा प्रकीर्णकाण्डञ्चेति ।

कैयटस्य 'महाभाष्यप्रदीपा'नन्तरं व्याकरणशास्त्रस्य द्वितीयं चरणं समाप्तमिव प्रतीयते । अस्य चरणस्य शुभारम्भः चन्द्रगोमिना कृतः पर्यवसानञ्चकादशे शतके कैय टेन कृतम् । सम्भाव्यते कयट: काश्मीरे वसति स्म । अस्य पितुर्नाम जय्यट आसीत् । काव्यप्रकाशस्यकस्यां टीकायां समागतस्योल्लेखस्यानुसारमयं मम्मटस्यानुजः शिष्यश्चा प्यासीत् । अस्यामुव्वटस्यापि चर्चा विद्यते। उव्वटमहाशयाः सम्भवतो यजुर्वेदभाष्य काराद्भिन्नाः सन्ति । एभिः महाभाष्ये एका टीका विलिखिता। यस्याः समीक्षणमा लोचनं वा नागेशेनापि कृतम्--यत्प्रदीपोद्योत इति नाम्ना सुप्रसिद्धमस्ति । कैयटस्य कालः त्रयोदशशतकान्तरालवर्ती विद्यते । सर्वदर्शनसङ्ग्रहे एतेषामुल्लेखो विद्यते ।

एतावत्कालपर्यन्तं संस्कृतभाषायाः पाणिनिकालीनं स्वरूपं दूरीकृत्य परिवर्तितम भूत् । संस्कृतम्--अलङ्कृता परिष्कृता च भाषा सम्भूय भारतस्य राष्ट्रभाषा बभूवेति जनश्रुतिः ।

व्याकरणस्य प्रक्रियाकाल:

सम्पादयतु

एतत्तु सुनिश्चितमस्ति यत्.-त्रिमुनिषु पसञ्जलिपर्यन्तं व्याकरणस्य सत्ता पूर्ण रूपेण प्रतिष्ठिताऽऽसीत् । तत्पश्चाद्वतिषु ग्रन्थेषु व्याख्यातारो व्याख्यामकुर्वन् । पर व्याकरणस्य स्थितिः सारल्यापेक्षया जटिलैव सजाता। तेन तद्ज्ञाने काठिन्यमेवा यातम् । दुरूहता समागता । अतस्तस्मिन् काले सारल्यस्यापेक्षाऽऽसीत् । एतादृशेऽवसरे विमलसरस्वतीमहाशयस्य योगदानं सरलीकरणे प्रशंसनीयमासीत् । तेन १३५० ईसवीये वर्षे 'रूपमालायाः' रचना कृता ।

अस्यां रूपमालायां क्रमेण प्रत्याहारस्य, संज्ञायाः, परिभाषायाः, स्वरसन्धेः, प्रकृतिभावस्य, व्यञ्जनसन्धेः विसर्गसन्धेश्च निरूपणं विद्यते। तत्पश्चाच्च हलन्तम नाम्नः, वैदिकविकल्पस्य, निपातस्य, स्त्रीप्रत्ययस्य, कारकस्य, आख्यातस्य . तद्धितस्य समासस्य च विवेचनमस्ति । ग्रन्थोऽयं पश्चाद्वर्तिनीनां कौमुदीनामा विद्यते ।

रूपमालाया अनन्तरं रामचन्द्रस्य 'प्रक्रियाकौमुद्याः' स्थानमायाति । मोर रामचन्द्रः पञ्चदशशतकस्य पूर्वार्धे विद्यमान आसीत् । इमे व्याकरणस्य, ज्यौतिषण वेदान्तस्य च तलस्पर्शिनः पण्डिता आसन् । प्रक्रियाकौमुदी भट्टोजिदीक्षितस्य ग्रन्थ प्रणयने महत्साहाय्यं करोति । अस्मिन् महनीये ग्रन्थे टीकाद्वयी उपलभ्येते । तत्र विट्ठलाचार्यस्य 'प्रसाद'नाम्नी, शेषकृष्णस्य च 'प्रक्रियाप्रकाश'नाम्नी टीका विद्यते । अनयोष्टीकाकारयोः काल: क्रमशः १५४८, १६०० ईसवीयवर्षो विद्यते ।

तत्पश्चाच्च--सुप्रसिद्धस्य भट्टोजिदीक्षितस्य काल: समायाति । एतेषां 'सिद्धान्त कौमुदी' नामको ग्रन्थोऽतीव सुप्रसिद्धो लोकप्रियश्चास्ति । अस्य ग्रन्थस्य तथा प्रचारः प्रसारश्चाभवत् येन व्याकरणाध्येतृणां मध्ये मौलिगणिरिव विराजते । केनापि प्रबुद्धेन समीक्षकेण सत्यमेवोक्तं यत्--

'कौमुदी-यद्यायाति वृथा भाष्ये परिश्रमः।

कौमुदी यदि नायाति वृथा भाष्ये परिश्रमः ॥

एतेनास्य ग्रन्थस्य महनीयतोपादेयता च स्वयमेव सिद्धयति । श्रीदीक्षितमहोदयस्य पितुर्नाम लक्ष्मीधर आसीत् । अस्य जनि: १६३० ईसवीये वर्षे बभूव । स्वविरचितायां सिद्धान्तकौमुद्यां स्वयमेव टीकामटीटिकत । यस्याः 'प्रौढमनोरमा' इत्यभिधा विद्यते । अस्याः कौमुद्या एव 'बालमनोरमा' नाम्नी टीका विद्यते । अपरञ्च एभिः पाणिनीय धातुपाठे लिङ्गानुशासने चापि टीका विलिखिता। अन्यच्चते काशिकेवाधारभूमौ शब्दकौस्तुभस्य रचना विहिता । प्रौढमनोरमायाष्टीका जगन्नाथेन विरचिता, एतद तिरिक्तं नागेशेनापि टीकिता।

एवञ्च सिद्धान्तकौमुद्यां ज्ञानेन्द्रसरस्वतीमहाशयस्य 'तत्त्वबोधिनी' अन्वर्थनाम्नी लोकप्रिया च टीका विद्यते । अस्याष्टीकायाः पठन पाठने महानुपयोगो भवति । अस्मिन्नेव क्रमे नागेशभट्टाः सुगृहीतनामधेयाः प्रकाण्ड पण्डिता लेखकाश्चासन् । एभिः धर्मस्य, योगस्य, अलङ्कारस्य, व्याकरणस्य चानेके ग्रन्था विलिखिताः । अपि च कैयटस्य 'महाभाष्यप्रदीपे' उद्योत-नाम्नी टीका एभिः विरचिता।

एतदतिरिक्तं परिभाषेन्दुशेखरे, लघुशब्देन्दुशेखरे, शब्दरत्ने, प्रौढमनोरमायाञ्च टीकायाः रचनाः एभिः कृताः । इत्येव नहि—'वैयाकरणसिद्धान्तमञ्जूषा' व्याकरण दर्शनस्योपरि ग्रन्थोऽस्त्येषाम् । एते काले इत्युपाधिसम्पन्नाः महाराष्ट्रप्रदेशीयाः ग्राह्मणा आसन् । उपर्युक्ताः सर्वे ग्रन्थाः भट्टोजीदीक्षितसम्प्रदायस्य सन्ति ।

तथा चैतादशान्यनेकानि पुस्तकानि लिखितानि सन्त्यन्य सम्प्रदायस्य । यथा अन्नम्भट्टेन विदुषा 'अष्टाध्याय्यां' मिताक्षरानाम्नी टीका लिखिता। एवमेव वरदराजः मध्यसिद्धान्तकौमुदी, लघुसिद्धान्तकौमुदी, सारसिद्धान्तकौमुदी नामकाच ग्रन्थाः विरचिताः । इमे ग्रन्थाः छात्राणां व्याकरणाध्ययनाय महत्त्वपूर्णाः सन्ति ।

काशिका-सिद्धान्तकौमुद्योश्च द्वयोरप्येकमुद्देश्यमस्ति, परञ्च शैल्यां भिन्नता समा याति । तेन लाभोऽपि विद्यते हानिरपि । एतेनेति विज्ञेयं यत् प्रक्रियाकालः इत्येव, मुख्ये गृहीते गौणाः स्वयमेवावगता भवन्ति । इत्यलं पर्यालोचितेन ।

व्याकरणस्य सम्प्रदायाः

सम्पादयतु

(पाणिनेः पश्चाद्वर्तिनः ) प्राचीनकालात् शास्त्राणां विकासाय सुरक्षायै च समये समयेऽनेके सम्प्रदायाः प्रवर्तिता आसन् सन्ति च । व्याकरणशास्त्रस्यापि तादृशी स्थितिवर्तते । पाणिनि कालादारभ्य वरदराजपर्यन्तं विकासस्य सुदीर्घा परम्परा दृश्यते । एतदतिरिक्तं व्याकरणशास्त्रे अपाणिनीया परम्पराऽपि प्रचलिताऽऽसीत् । तदित्थमनेके सम्प्रदायाः प्रचलिताः, ये पाणिनेः सूत्रेषु तद्व्याख्यासु च यत्किञ्चित्परिवर्तनं परिष्करणं वा विधाय स्वसम्प्रदायविकासाय प्रयत्नं चक्रुः । एषु केनाप्याचार्येण सूत्रेषु न्यूनता कृता, केनापि च स्वानुकूलं नामपरिवर्तनञ्च कृतम् ।

भवतु नाम केनापि दिशा शास्त्र चिन्तनस्य । तेन शास्त्रसरणिः प्रवर्द्धते एव । तथा च–'श्रुतिविभिन्नाः स्मृतयो विभिन्ना नैको मुनिर्यस्य मतं न भिन्नमिति कृत्वा सम्प्रदायानां प्रवर्तनं नानुचित मिति । प्रस्तुतेऽस्मिन् विचारक्रमे पाणिनेः उत्तरवर्तिषु सम्प्रदायेषु येऽधुनापि जीविताः निःश्वसन्तो वा सन्ति, तेषां नामान्यधोलिखितानि सन्ति । तद्यथा -

(१) चान्द्र-सम्प्रदायः, (२) जैनेन्द्र सम्प्रदाय:, (३) शाकटायनसम्प्रदायः, ( ४ ) हैमसम्प्रदायः, (५) कातन्त्रसम्प्रदायः, (६ ) सारस्वतसम्प्रदायः, (७) वोपदेवसम्प्रदायः, (८) क्रमदीश्वरजौनरसम्प्रदायः, (९) सौपद्मसम्प्रदायश्चेति ।

एतादृशा अन्येऽपि सम्प्रदाया भविष्यन्ति ये कालप्रवाहे कवलिता लुप्ता वा सजाताः, प्राधान्यं वा नोपतस्थिरे।

१) चान्द्रसम्प्रदाय:- अस्य सम्प्रदायस्य जीवनं चिरजीवनं नाभूत् । यतो हि भर्तृहरेः वाक्यपदीयं यावदस्य चरमा सीमाऽसीत् । महाकवेः कालिदासस्य मेघदूतस्य व्याख्यावसरे मल्लिनाथविद्वांसः कथयन्ति यत्-पाणिनिमतेन 'विश्रम'शब्द एव समुचितस्तत्रैव चान्द्रसम्प्रदायस्यानुसारं विश्रामोऽपि साधुरेव । चान्द्रव्याकरणं काशिकायाः पूर्ववर्तित्वं धारयति । काशिकायां चान्द्रव्याकरणस्य काचित् सामग्री गृहीता वर्तते । अपरञ्च स्वनिर्मिते व्याकरणे चन्द्रगोमिना वृत्तिरपि विरचितेति श्रूयते । तत्र 'अजयद् गुप्तो हूणान्' इत्युल्लेखमादाय, यशोधर्मणो बहिष्कारञ्चादाय चन्द्रगोमिनः काल: षष्ठशतकः ( ५४४ ई० ) स्वीकतुं योग्यः ।

चान्द्रव्याकरणस्य पाणिनेः व्याकरणाविभिन्नता- यद्यपि चान्द्रव्याकरणं पाणिनि कात्यायन-पतञ्जलि-त्रिमुनीनां व्याकरणे एवाधारितं तद्विकासात्मिका प्रक्रिया च विद्यते । तथाप्यस्मिन् सरलीकरणाय वैदिकीस्वरप्रक्रियायाः केचन नियमाः परित्यक्ताः । चन्द्रगोमिना प्रत्याहारसूत्राणि अपि न्यूनीकृतानि । यथा-'हयवरट् लण्' एतत् सूत्रं 'हरवरलण्' इति परिवर्त्तितम् । क्वचिच्च पाठसौविध्यायापि कतम, यथा-'अनेकाल शित् सर्वस्य' इति पाणिनीयसूयं 'शिदनेकाल, कृतम्। अपि चतैः पञ्चविंशत् सूत्राणि परिवद्धितानि, परञ्च और 'अपाणिनीयः सूत्रेषु पाठः' इति कथितः ।

चान्द्रव्याकरणग्रन्थे षडध्यायाः सन्ति, प्रत्येकस्मिन् अध्याये चत्वारो पा मन्ति। नान्द्रव्याकरणस्य प्रधानमुद्देश्यमासीत् नूतनरीत्या सज्जीकरणं मायमासी अनयोयो: व्याकरणयोः किञ्चित् परिवर्तनेन सह साम्यमेवास्ति । मतभेदः । स्वविरचितैः सूत्रैः सह चन्द्रगोमिना 'उणादेः' धातुपाठस्य, लिङ्गानुशासनादीनाम रचना विहिता। चान्द्रस्योणादिपाठः पाणिनेभिन्नः ।

चान्द्रव्याकरणस्योपरि चन्द्रगोमिनो वृत्तिरप्यस्ति, पश्चाच्च धगंदासेनापि की विरचिता। अपरञ्चास्मिन् व्याकरणे कालान्तरे विविधाप्टीका लिखिता भवेयः यो हि तिब्बतप्रदेशे एतद्विषयकग्रन्थानामनुवादा अद्याप्युपलब्धा भवन्ति । परञ्च खेदस्य विषयोऽयं वर्तते यत्पश्चाद्वतिकाले चान्द्रव्याकरणस्य लोप एव जातः। एतस्यानेकानि कारणानि सन्ति । प्रथमतस्त्वस्मिन् मौलिकताया अभाव एवासीत्, अन्यच्चा पाणिनीय आसीत्, अत एव पाणिनि-सम्प्रदायेऽस्य तथा समादरो नासीत् । अन्यच्च कारणमस्ति-बौद्ध-मतानुयायिनी व्याख्या विधानात् बौद्धानां पतनेन सहास्यापि पतनं जातम् । चान्द्रव्याकरणस्य प्रचारो लङ्कायामप्यासीत् । तत्र काश्यपनामकेन बौद्धन बालबोधनामको ग्रन्थो विरचितः । स ग्रन्थः परां प्रसिद्धि प्राप, तत्समक्षं

चान्द्रव्याकरणस्य ख्यातिर्नामशेषतां प्रापेति दिक् ।

२) जैनेन्द्रसम्प्रदायः-- इति तु सुविदितमस्ति यत्-जैन-सम्प्रदायस्य सर्वतन्त्र स्वतन्त्र स्वकीयं व्याकरणमस्ति । अस्य व्याकरणस्य विषये एषा जनश्रुतिर्वर्तते यत्-तीर्थङ्करो महावीरो यदाऽष्टवर्षीय आसीत्तदा कदाचिदिन्द्रेण महावीरमुद्दिश्य शब्दविषयकाः केचन प्रश्नाः पृष्टाः । एषामेव प्रश्नोत्तराणां क्रमे व्याकरणस्य निष्पत्तिर्जाता। एतस्मात् कारणादेव द्वयोर्नाम्नाऽस्य व्याकरणस्य नामकरणमभूत । एतदेव जैनेन्द्र व्याकरणम् । अत्र जनपदेन महावीरस्य ग्रहणमिन्द्रश्च स्वयमेवेन्द्रः । अस्य व्याकरणस्य च लेखको 'देवनन्दी' इति विज्ञायते । तथा चोक्तमस्य विषये

'लक्ष्मीरात्यन्तिकी यस्य निरवद्यावभासते।

देवनन्दित-पूजेशं नमस्तस्मै स्वयम्भुवे' ॥

अपरच बोपदेव-हेमचन्द्रादिभिर्विद्भिः ‘देवनन्दी' महाशयस्योल्लेखः कृतः । अस्यापरं नाम 'पूज्यपाद' इत्यपि विद्यते । जैनेन्द्र व्याकरणस्यापि कालश्चान्द्रस्य॑व काल आसीत् । साम्प्रतं जैनेन्द्र व्याकरणस्य संस्करणद्वयमुपलब्धमस्ति । तत्र लघु संस्करणे ग्रीणि सहस्राणि ३००० सूत्राणि सन्ति, महत संस्करणे च ७०० सूत्राण्याध कानि सन्ति । अस्मिन् सोमदेवस्य टीका विद्यते । अस्याष्टीकायाः रचनाकालविषय लेखफस्य फयनं विद्यते यवस्या रचना १२०५ ईसवीये वर्षेऽभूदिति । एवञ्च विद्वांसऋः कथयन्ति यद् – जैनेन्द्रव्याकरणे मौलिकतायाः अभावो विद्यते। अपि चास्मिन् पाणिनिसूत्राणां यथासम्भवं स्वसम्प्रदायानुकूलं विधाय गृहीतमस्ति । क्वचित् परि वर्तनमपि दृश्यते, तद्यथा--'विभाषा' 'अन्यतरस्यां' इति स्थाने 'वा' इति विहितः ।

अस्मिंश्च पाणिनीयप्रत्याहारास्तु गृहीताः सन्ति, परञ्च चतुर्दश शिवसूत्राणि ( अइउण् इत्यादीनि ) वैदिकव्याकरणं ( स्वरप्रक्रियां ) च न गृहीतम् । देवनन्दिना नव-नवाः पारिभाषिकशब्दाः व्यवहृताः। तेन व्याकरणस्य दुरूहता सञ्जाता। अस्य सम्प्रदायस्य ग्रन्थेषु टीकाद्वयमुपलब्धमस्ति । तत्र प्रथमा टीका अभयनन्दिनः, द्वितीया च सोमदेवस्य शब्दार्णवचन्द्रिका । सोमदेवः स्वात्मानं शिलाहारराज्ञो भोजस्य समकालिक: स्वीकरोति । अस्यां परम्परायां स्युरन्याष्टीकाः, परञ्च ताष्टीकाः नोपलभ्यन्ते ।

अपरञ्च जैनेन्द्रसम्प्रदायस्य पठन-पाठनाय पाठ्यग्रन्थोऽपि विद्यते । यः व्याकरणस्य प्रारम्भिक-छात्रेभ्यो नितान्तामुपयोगितां धारयिष्यति । यस्य ग्रन्थस्य नाम ‘पञ्चवस्तु' इति विद्यते । अस्य ग्रन्थस्य लेखकः 'श्रुतिकीतिः' इति कथ्यते । अस्य कालश्च १०५० ईसवीयेऽस्ति-इत्याचार्यपाठकाः स्वीकुर्वन्ति ।

३) शाफटायमसम्प्रवाय: - अस्य सम्प्रदायस्य शाकटायनव्याकरणमपि जैनेन्द्रसम्प्रदायव्याकरणस्य क्वचित् साम्यं बिभर्ति । अस्यापि मूलोद्देश्यं तदेवासीत्, यत् जैनेन्द्रव्याकरणस्य । तथापीदं व्याकरणं विशेषतः श्वेताम्बरजैनसम्प्रदायाय लिखितमासीत् इति विदुषां मतम् । अस्य व्याकरणस्योल्लेख: 'गणरत्नमहोदधौ' माधवीये धातु वृत्ती समायाति । तेन प्रतीयते यस्कदापि कालेऽस्य प्रचारश्चरमसीम्नि आसीत् । अस्य व्याकरणस्य प्रणेता शाकटायनः प्राचीनो नवीमो वेति विषये विदुषामैकमत्यं नास्ति ।

विद्वांसः कथयन्ति यत् नायं निरुक्तप्रोक्तं चर्चितश्च पाणिनिना। नवीनः कोऽप्ययं वैयाकरणः इति चाप्यामनन्ति । अस्मिन् विषये डॉ० कीलहानमहोदयाः शाकटायनमैतिहासिकं पुरुषं न स्वीकुर्वन्ति । कथयन्ति च केनापि जैनेनास्य ग्रन्थस्य रचना विहिता । प्राचीनत्वख्यापनाय शाकटायनेन सह योजितः । एतद्विपरीतं 'आचार्यपाठकमहोदया एनमैतिहासिकपुरुषरूपेण स्वीकुर्वन्ति' तथा च राष्ट्रकूटस्य राज्ञोऽमोघवर्षस्य प्रथमस्य ( ८१७-८७७ ई० ) समकालिकोऽयमिति कथयन्ति ।

शाकटायनेन स्वशब्दानुशासने पाणिनि-कात्यायन-पतञ्जलि-चन्द्रगोमिभ्यश्च सामग्री गृहीता, स्वातन्त्र्येण तासामुपयोगश्चापि कृतः । अस्मिन् शब्दानुशासने पूज्य पादादपि यत्किञ्चिद् गृहीतम् । नात्र काचिन्नवीनता । अस्मिन् शब्दानुशासने चत्वारो ऽध्यायाः सन्ति, प्रत्यध्याये चत्वारः पादाश्च । सूत्राणां संख्या ३२०० इत्यस्ति । जैनेन्द्र व्याकरणवत् अत्रापि सूत्राणां परिवर्तनविधानमस्ति ।

सम्प्रदायोऽसौ भागद्वये विभक्तस्तत्र प्रथमे भागे टीका उपटीकाश्च लिखिताः। द्वितीये च स्वल्पकायाः पाठ्यग्रन्थाः । आसु टीकासु 'न्यासः' प्रसिद्धो वर्तते । सम्भाव्यते न्यासोऽयं प्रभाचन्द्राचार्यस्य, येनामोघवृत्तावपि टीका लिखिता। अन्या टीका चिन्ता मणिविद्यते, लेखकश्चात्र 'यक्षवर्मन्' इति । अस्मिन् सम्प्रदाये लघु ग्रन्था अपि विरचिता आसन् । तेषु प्रक्रियासंग्रहस्य लेखक अभयचन्द्राचार्य आसीत् । अयं ग्रन्थः १३५९ ईसवीयवर्षस्य नैकटचं धारयति ।

४) हैम-सम्प्रदायः - ख्यातिप्राप्तोऽयं व्याकरणसम्प्रदायः । अस्य प्रवर्तको चार्यः । एषां काल: एकादशशतकान्तरालवती विद्यते । इमे जात्या वति प्रभिन्न नामकोऽयं जैनधर्मे दीक्षितत्वात् नामपरिवर्तनं जातम् । तच्च चन्द्राभिधस्वोपज्ञशब्दानुशासन' इत्यस्ति । पाणिनेरष्टाध्यायीवदस्मिन ध्यायाः सन्ति । प्रत्येकस्मिन् अध्याये च चत्वारः पादाः । अस्यावसाने अपि व्याकरणं विद्यते । हेमचन्द्राचार्यण स्वसूत्रेषु 'शब्दानुशासनबृहवृत्ति'नाग ग्रन्थो लिखितः ।

एवञ्च–'अपरः' 'परः' 'अन्यः' इति कथयित्वा भिन्नविचा सदोषान् इति कथयित्वा प्रमाणीकृतः । वृहद्वृत्तौ सप्ताध्यायानां संक्षेपीकरणमा लभ्यते । तस्या वृत्तेलेखकोऽपि हेमचन्द्राचार्य एव । अस्यां मौलिकताया अ भावो विद्यते । व्याकरणस्य नियमानामुदाहरणायते स्वयमेव पद्यरचना कृता । इयमेव रचना 'द्रव्यसार'महाकाव्यमस्ति । हैमव्याकरणेन सह-धातुपाठ-उणादि-लिडा. नुशासनादयोऽपि सन्ति ।

हैमशब्दानुशासने बृहद्वृत्ति ढुण्ढिकाऽपि विद्यते, परञ्चाधुनेयमपूर्णा प्राप्यते । अन्या वृत्तिरपि 'देवेन्द्र सूरि' इत्यस्य मिलति, यस्या नाम 'हेमलघुन्यासो' विद्यते । तृतीया टीका शब्दमहार्णवन्यासो विद्यते । हेमस्य शब्दानुशासने लघुकाया ग्रन्था अपि लिखिताः सन्ति । एतादृशेषु ( एतादृक्षु ) ग्रन्थेषु 'हेमलघुप्रक्रिया-हैमकौमुदी' चाप्यस्ति । ययोर्लेखको विनयविजयाग्नि-मेधाविजयौ स्तः । हेमकौमुद्या अपरं नाम चन्द्रप्रभाऽप्यस्ति ।

५) कातन्त्रसम्प्रदायः - कातन्त्रव्याकरणस्यैवापरं नाम कौमारव्याकरणमथवा कलाप व्याकरणमप्यस्ति । अत्र विभिन्ननामकरणे सैषा कथाऽनुसन्धेया-दाक्षिणात्य देशे सातवाहननामको राजा बभूव । एकस्मिन् दिवसे राजा जलकेलि समाचरन् आसीत्, तदैव राज्ञी अवोचत्—'मोदकं देहि राजन्' अस्योत्तरे राजा तस्यै कश्चित् मोदकमददात् । पश्चाद् ज्ञाते तथ्ये स्वसभापण्डितं सर्ववर्माणमेकमेतादृशं व्याकरणं निर्मातुमादिदेश, येन सत्वरं व्याकरणज्ञानं भवेत् । सभापण्डितेन तपसा शिव आराधित स्तेषामाज्ञया कुमारकार्तिकेयात् तेन व्याकरणमधिगतम् ।

द्वयोर्मध्ये माध्यम: 'कलापः' ( मयूरः ) आसीदतोऽस्य नाम कलापव्याकरणमप्यभूत् । अस्य व्याकरणस्योपरि सर्वाधिका प्राचीना टीका दुर्गसिंहस्यास्ति, यस्याष्टीकायाः कालोऽष्टमशतको विज्ञायते । अस्मिन् व्याकरणे क्रमशः-सन्धि-नाम-आख्यात-कृत्प्रकरणानि सन्ति । राजाश्रय त्वात् प्रचारोऽपि तादृश एवाभवत् । तस्मिन् काले सुबोधं व्याकरणन्त्विदमेवासीत् । अस्य वैशिष्टयं चातुर्य वाऽऽसीत् यत्-पाणिनेः सहस्रचतुष्टयसूत्राणि ८५३ सूत्रषु ग्रथितान्यासन् । अस्यां वृत्तावप्यनेकानां वृत्तीनां रचना अभूत् । अस्यां सर्वप्रथम 'कातन्त्रविस्तरोऽस्ति । अस्य लेखकस्य वर्धमानस्य नाम काव्यकामधेनौ बोपदवन बहुशश्चचितम् ।

त्रिलोचनदासस्य 'कातन्त्रवृत्तिपञ्जिका' इत्यस्याः रचना वर्धमानादनन्तरम एकाऽन्यापि टीका विद्यते-महादेवस्य · 'शब्दसिद्धिः' । अस्य सम्प्रदायस्य व्याकरणस्योपरि उणादि-धातुपाठादीनां रचना दुर्गसिंहेन कृताऽऽसीत्। कातन्त्रसम्प्रदायस्य प्रचारो वङ्गप्रदेशे काश्मीरे चाप्यासीत् । .

६) सारस्वत-सम्प्रदायः- सारस्वतव्याकरणस्य प्रारम्भकाल: १२५० ईसवीयात् पूर्व न सम्भाव्यते । बोपदेवेनास्य व्याकरणस्योल्लेखो न कृतः । अपरञ्चैतदतिरिक्तमस्योपरि याष्टीका विरचितास्ताः सर्वाः पञ्चदशशतकस्य निकटवर्तिन्यः सन्ति । अस्य व्याकरणस्य प्रचारसीमोत्तरभारतस्य स्वल्पेषु स्थानेष्वेव सीमिताऽऽसीत् । सारस्वत व्याकरणस्य सप्तशतसूत्रेष्वेव पाणिनेः ४००० सूत्राणि समाहितानि सन्ति ।

सारस्वत-सम्प्रदायस्य महद्वैशिष्टयं विद्यते संक्षेपीकरणम् । एतत् पूर्वं कस्मिन्नपि सम्प्रदाये एतादृशं लघुव्याकरणं नासीत् । संक्षेपीकरणादप्यधिक महत्त्वपूर्ण तत्त्वमस्ति सारल्यम् । वाग्देवतायाः सरस्वत्याः प्रसादाद् अनुभूतिस्वरूपाचार्येणास्य रचना कृता । अत एवास्य नाम सारस्वतसम्प्रदायो विद्यते । लेखकस्य समयः १२५० ईसवीयात १४५० ईसवीयमध्ये स्वीक्रियते । सारस्वतप्रक्रियायां बह्वयष्टीकाः समुपलभ्यन्ते । टीकाकाराणां नामानि तत्समयश्च यथा -

( क ) पुञ्जराजा-पञ्चदशशतकस्यान्तिमो भागः ।।

( ख ) अमृतभारती-१५५४ ईसवीयेऽनुमानतः ।

(ग ) काश्मीरस्य क्षेमेन्द्रः—बोपदेवात् शतवर्षपूर्वम् ।

(घ) चन्द्रकीर्तिः– ( १४४५ ईसवीयात् १५५३ ईसवीयपर्यन्तम् )।

एतदतिरिक्तमनेके टीकाकाराः सन्ति, येषां टीकाः सुप्रसिद्धाः सन्ति । ते चेमे. सन्ति-माधव-वासुदेवभट्ट-मण्डन-मेघरत्न-दानेश्वर-जगन्नाथ-काशीनाथ-भट्टगोपाल-सहज कीर्ति-हंसविजयाग्नि-रामभट्टादयः ।

अन्यच्च सारस्वतस्य सूत्रेषु रामचन्द्रस्य 'सिद्धान्तचन्द्रिका' टीका विद्यते । अस्यां परम्परायामुणादावप्यनेके ग्रन्थाः सन्ति । सारस्वतस्यैकमेवोद्देश्यमासीत् 'वालानां शीघ्रबोधाय' इति ।

७) बोपदेवस्तेषां सम्प्रदायश्च - अन्येषां सम्प्रदायानां तुलनायां बोपदेवस्य व्याकरण माधुनिकमस्ति । एषां मुग्धबोधोऽस्य सम्प्रदायस्य मुख्यो ग्रन्थो विद्यते । बोपदेवो महाराष्ट्रिय आसीत् । मल्लिनाथेनास्य चर्चा विहिता। विदर्भदेशस्यते निवासिन आसन् । मुग्धबोधातिरिक्त कविकल्पद्रुमस्यापि एतैः रचना कृता । अनन्तरञ्च मुक्ताफलं हरिविलासविवरणञ्चापि लिखितम् ।

बोपदेवस्योद्देश्यमासीत्-व्याकरणस्य सरलीकरणम्। पाणिनेः व्याख्याकारैः व्याकरणस्य सरलीकरणव्याजेनाधिकं जटिलमेव कृतम् । एभिः व्याकरणस्य सरली करणाय कातन्यस्य साहाय्यं गृहीतम् । एवञ्च दृढीकरणाय पाणिनेः प्रत्याहारसूत्राणा माश्रय गृहीतः ।

पाणिनेः वैदिकीप्रक्रियायां सूत्रमस्ति--'बहुलं छन्दसि', इत्यत्र बोपदेवेन 'बहलं ब्रह्मणि' इति कथयित्वा सारो गृहीतः । तथा च बोपदेवस्य मुग्धबोधव्याकरणं लोकप्रियमभूत् । अतोऽस्य विषये भट्टोजिदीक्षितेन कथितं यत् -

'बोपदेवमहाग्राह-ग्रस्तो वामन-दिग्गजः ।

कीर्तिदेवप्रसङ्गेन माधवेन विमोचितः' ।

दीक्षितस्योद्भवात् पूर्वमेव मुग्धबोधस्य प्रचार आसीत् । सप्तदशे शतके चास्य ह्रासः सञ्जातः । मुग्धबोधस्योपरि रामतर्कवागीशस्य टीका विस्तृता शोभन विद्यते ।

८) क्रमदीश्वरस्य जौमार-सम्प्रवाय:- 'जौमारनन्दी'महाभागाः अस्य सम्प्रदाय प्रवर्तकाः सन्ति । सम्भाव्यते यत् केनाप्यन्येन सम्प्रदायोऽयं प्रवर्तितः, परञ्च जौमारे उदिते सति तन्नाम लुप्तम् । आफेक्टमतेन सम्प्रदायोऽयं बोपदेवात् नवीनो विद्यते । एतच्च भर्तृहरेः महाभाष्यदीपिकाया मार्गमवलम्ब्य लिखितमस्ति । अस्मिन् सम्प्रदाये क्रमदीशरस्य नाम महत्त्वाधायकमस्ति । अत्रापि बह्वघष्टीकाः सन्ति ।

९) सुपद्मसम्प्रदायः- अस्य सम्प्रदायस्य प्रवर्तकः कोऽपि मैथिलब्राह्मण आसीत् । एतदतिरिक्तं 'हरिनामामृतमियाद्यनेके लघुसम्प्रदायाः ग्रन्थाश्च पुरतः समागताः परञ्च तेषां महत्त्वं गौणमासीत् । पश्चात्काले सम्प्रदाया ग्रन्थाश्च पिष्टपेषणमात्रमेव कुर्वन्ति स्म ।

विभिन्नसम्प्रदायानां धातुपाठ-प्रातिपदिकपाठादिसमीक्षा

सम्पादयतु

कौमारसम्प्रदाये ( कातन्त्रव्याकरणे ) दुर्गसिंहीयो धातुपाठो विद्यते । अस्य रचना प्राचीनकातन्त्रधातुपाठस्यावलम्बनं विधाय प्रस्तुता विद्यते । तिब्बतप्रदेशे अयं पाठः सार्वमिको धातुपाठः किम्वा कलापधातुसूत्रमिति कथ्यते ।

शर्मण्यदेशीय-विदुषां मतेन-दुर्गसिंहकृतः सार्वमिकधातुपाठ एव प्रतिसंस्कृतो भूत्वा परवर्तिकाले दोर्गधातुपाठः दुर्गसिंहीयधातुपाठो वाऽभवत् । व्युत्पन्न विदुषां दृष्टावपि आधुनिकदुर्गसिंहीयधातुपाठः सार्ववर्मिकधातुपाठस्य प्रतिसंस्कारमात्रमस्ति ।

बौद्धानां चान्द्रसम्प्रदाय:- पूर्णचन्द्रस्य धातुपाठः दिगम्बरीये जैनसम्प्रदाये शाक टायनीयधातुपाठो विद्यते । तिलकमञ्जर्याः रचयिता धनपालोऽस्य वृत्तिकार आसीत् । देवनन्दिनो धातुपाठोऽद्यत्वे नोपलब्धोऽस्ति । अन्यच्च-क्षीरस्वामिना, कृष्णलीलांशुकेन, सायणाचार्येण च नन्दिनो धातुपाठस्योल्लेखः कृतः । इत्यनेन प्रतीयते यत्-देव नन्दिनोऽपि धातुपाठ आसीत् । सम्भाव्यते यदस्य लेखकः श्रुतपाल आसीत् ।

रासवतसम्प्रदाय:- अस्य 'जीभरधातुमाला' इति नामकः प्रामाणिको ग्रन्थो विद्यते । पाणिनेः ग्रन्थमाधारीकृत्यास्याः रचना बभूव ।

श्वेताम्बरीये जनसम्प्रदाये हैमधातुपाठो विद्यते । अयञ्च 'स्वोपज्ञधातुपारायण इति नाम्ना प्रसिद्धः । पञ्चदशे शतके गुणरत्नसूरिणा अस्य व्याख्या कृता । सारस्वत सम्प्रदाये चन्द्रकीर्तिशिष्यस्य हर्षकीर्तेः धातुपाठो विद्यते। मौग्धसम्प्रदाये बोपदव कविकल्पद्रुमधातुपाठश्चाथवा धातुकोषो विद्यते । बोपदेवस्य कालः त्रयोदशशतक सौपये पद्मनाभस्य धातुकौमुदी वर्तते । धातुनिर्णयेऽस्याः व्याख्या सम्पन्ना पाणिनीयसम्प्रदाये धातुपाठस्यानेके ग्रन्थाः सन्ति । तद्यथा-भीमाचार्यस्य प्रदीपकलिका, क्षीरस्वामिनः क्षीरतरङ्गिणी, मैत्रेयरक्षितस्य धातुप्रदीपः, सायणस्य च माधवीया धातुवृत्तिः अतिशयेन सुप्रसिद्धाः सन्ति । अपि च शब्दकौस्तुभे भट्टोजि दीक्षिताः कथयन्ति -

'भूवादयो धातवः' । भीमसेनादयो द्यर्थं निदिदिशुरिति स्मर्यते ।

पाणिनिस्तु "भवुध' इत्याद्यवादीदिति भाष्यवार्तिकयो: स्पष्टम् ॥

'भूवादयो धातवः' इत्यत्र कात्यायनस्य वार्तिकस्य 'परिमाणग्रहणं च' इत्यस्य च व्याख्यां कुर्वन्तः पतञ्जलय: कथयन्ति–'परिमाणग्रहणं च कर्त्तव्यम् । इयानवधि धातुसंज्ञा भवति इति वक्तव्यम् । 'कुतो ह्येतद्' भूशब्दो धातुसंज्ञा भविष्यति न पुनः 'भ्वुध' शब्द इति अत्र कैयटा आहुः-'ततश्च भवुधशब्दाल्लडादिप्रसङ्गः न चार्थपाठः परिच्छेदकः तस्यापाणिनीयत्वात् ।

केषाञ्चिद्विदुषां मते पाणिनिना धातुपाठस्य रचना नैव कृता। धातुपाठे लिखित मस्ति--टुभ्राजु तथा भासू, किञ्च 'अष्टाध्याय्यां सूत्रितमस्ति —'नाग्लोपि शास्वृदि ताम्', एवञ्च भ्राज् भास् इत्यत्र वार्तिककाराः कथयन्ति - 'भ्राजभ्रासोदित् करणं पाणिनीयम्'।

पाणिनिना धात्वर्थो न कृतः । परश्च भीमसेनात् पूर्व धात्वर्थकथनस्य प्रवृत्ति सी दिति न कथनीयमिति । अर्थकथनस्य प्रवृत्तिस्तु यास्कसमये विद्यमानाऽऽसीत् । धातु पाठस्येव प्रातिपदिकपाठोऽपि प्रसिद्धो विद्यते । पाणिनिसम्प्रदाये 'पाणिनीयगण पाठो'ऽस्ति । द्वादशशतकस्य गणरत्नमहोदधौ' अस्य व्याख्या सम्पन्ना विद्यते । 'पाणिनीयगणपाठ'नामक एकः संग्रहग्रन्थोऽप्यस्ति । कस्यचिन्मतमस्ति यत्पाणिनिना गणपाठो न निर्मितः ।

'पूर्वपरावर....' इति सूत्रस्य भाष्यमस्ति–'अवरादीनां च पुनः सूत्रपाठे ग्रहणमनर्थकम् -किं कारणम् ? गणे पठितत्वात् । गणे ह्येतानि पठ्यन्ते । कथं पुनः ज्ञायते स पूर्वः पाठोऽयं पुनः पाठ इति । तानि हि पूर्वादीनीमान्यवरादीनि । कयट-अभियुक्ताः गणान् पठन्ति । अवरकालपाठात् पूर्वशब्दोऽवरशब्देनोच्यते तेन पूर्वः गणपाठः पश्चात् सूत्रपाठ इत्यर्थः । इत्यादीनि पठित्वा केचित् पूर्वादीनि पठितानि ।।

सूत्रपाठेन साकं प्रातिपदिकपाठोऽप्यपरिहार्योऽस्ति । अतः सूत्रपाठेन सदैव पाणिनिना प्रतिपदिकपाठस्यापि व्यवस्था कृता भवेत् । पूर्वाचार्याणां प्रातिपदिक पाठादेभिः सहायताऽवश्यमेव गृहीता स्यात्, परञ्च तस्य संस्कारोऽपि कृतो भवेत । पाणिनेः पाठस्य परिष्कार:-कात्यायन-पतञ्जलि-वामन-जयादित्यादिभिः समये समये कृतः, नास्त्यत्र सन्देहावसरः ।

कातन्त्रस्य प्रातिपदिकपाठस्य विपये केनापि किमपि न लिखितम्, परञ्च 'स्वरादीनां च' 'मुहादीनां च' 'बाहादेश्च विधीयते' 'स्मै सर्वनाम्नः' आदीनि सूत्राण्य वलोकनेन प्रतीयते यत्---सूत्रपाठेन सह सार्ववर्मिकधातुपाठस्येव सार्ववर्मिकप्राति पदिकपाठस्यापि प्रचलनमवश्यमेव स्यादिति ।।

एषा प्रसिद्धिर्वर्तते यत्-तिब्बते चान्द्रगणपाठः सुरक्षितोऽस्ति । दिगम्बर सम्प्रदाये शाकटायनीय: गणपाठो विद्यते । स च षोडशपादेषु विभक्तो जैन-सम्प्रदाये

"हैमगणपाठोऽस्ति"। सोपद्मे च काशीश्चरप्रणीतः गणपाठः विद्यते। अन्यान्यसम्प्रदायेषु अभावोऽपि स्वतन्त्रे गणपाठे – सूत्रपाठस्य व्याख्याकाले गणोद्दिष्टाः शब्दसमूहाः प्रायोणोदाहृता भवति।

लिङ्गानुशासनसम्बन्धितानां ग्रन्थानामपि महत्त्वं न्यूनं नास्ति । केपाल मतमस्ति यत्-पाणिनिना लिङ्गानुशासनविषयकस्य ग्रन्थस्य रचना 'लिङ्गमशिष्यं लोकाश्रयत्वात्' । अत्र कीथस्य कथनं विद्यते-लिडा. मिता: पाणिनिग्रन्थास्तथा प्राचीनाः सन्ति' इति । परञ्च स्वसाम्प्रयि कथयति-

'अष्टकं धातुपाठश्च गणपाठस्तथैव च ।

लिङ्गानुशासनं शिक्षा पाणिनीय अमी क्रमात्' ।

अत्र पतञ्जलयोऽपि कथयन्ति–'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य तस्मान्न वैयाकरणः शक्यं लौकिकलिङ्गमास्थातुम् । अशिष्टाम् = अकथनीयम् । लोकाश्रय त्वात—'लोकसम्मतत्वात्' तथापि लिङ्गानुशासने ग्रन्थास्त्वनेके मिलन्त्येव ।।

पाणिनीये लिङ्गानुशासने-दशमे शतके महोत्पलेन, षोडशे शतके प्रक्रिया कौमदीकारेण रामचन्द्रेण च टीका विरचिता। एतदनन्तरं षोडशे सप्तदशे वा भट्टोजि दीक्षितेन स्ववृत्तिलिखिता या शब्दकोस्तुभस्यान्तर्गता विद्यते ।

व्याडिलिङ्गानुशासनसूत्रेण 'द्रव्याभिधानं व्याडि:' इत्यनेन ज्ञायते यत् व्याडिः कात्यायन-पतञ्जलयोः पूर्ववर्त्यासीत् । एतस्य पूर्ण नाम 'दाक्षायण-व्याडि' इत्यासीत् । एषां त्रयो ग्रन्थाः प्राप्यन्ते, ते च–संग्रहः, उत्पलिनी, लिङ्गानुशासन सूत्रञ्चेति । उत्पलिनी कोशो विद्यते, अस्यैव कोशस्यान्तिमे भागे लिङ्गानुशासन मासीत् ।

चान्द्रसम्प्रदायस्य लिङ्गानुशासनसूत्रं 'लिङ्गकारिका' इति नामधेयं प्राप्यं नास्ति । जैनेन्द्रलिङ्गानुशासनं लुप्तमेवास्ति । वामनस्य श्लोके अस्योल्लेखः प्राप्यते । वररुचेरपि लिङ्गानुशासनं प्राप्तं भवति । एषां लिङ्गानुशासनं श्लोकेषु लिखितमस्ति । अपरञ्च कातन्त्रवृत्तिकारस्य दुर्गसिंहस्य नाम्नाऽप्येको लिङ्गानुशासनग्रन्थो विज्ञातो ऽस्ति । अनेन प्रकारेणानेकानां लिङ्गानुशासनानां नामानि तु ज्ञायन्ते परञ्च ग्रन्था अप्राप्याः सन्ति । अलमति विस्तरेणेति दिक् ।।

महर्षिः पाणिनिः तत्कृतयश्च

सम्पादयतु

सुदीर्घकालात् विदुषां मध्ये भणितिरियं सुप्रसिद्धा वर्तते यत्-काणादं पाणिनी यञ्च सर्वशास्त्रोपकारकम्' इति । सत्स्वप्यन्येषु व्याकरणेषु पाणिनीयव्याकरणस्यैव कथमियती चर्चा विद्यते । कथमेतज्जातं व्याकरणं लोकप्रियम् । देवताप्रसादात्तु अन्यान्यपि व्याकरणानि प्राप्तानि सन्ति, परञ्चास्यैव व्याकरणस्य सम्पूर्णे भारते एव किमु विदेशेष्वपि सुप्रतिष्ठा विद्यते। माहेश्वराणि चतुर्दश सूत्राण्यादाय विरचितमिदं व्याकरणं प्राक्तनीं विज्ञानसरणि प्रदर्शयति ।

पुरा काले ये ऋषयो महर्षय आचार्याश्चा अवन, ते स्वकीयं जन्मजातादिकं वृत्तं प्रायो न लिखन्ति स्म न वा ख्यापयन्ति स्म । एतदेव कारणमस्ति यदेषां विषयेऽपर्याप्तज्ञानमस्माकम् । केचिदनुसन्धानप्रवीणाः विद्वांसः सूत्रेषु, वृत्तिषु, भाष्येषु केचिच्चान्यग्रन्थकारोल्लिखितेषु वाक्येषु महामुनेः पाणिनेः नामविषये, कालविषये, निवासस्थानविपये, कर्तृत्वविपये चान्वेषयन्ति । अन्विष्य च यथार्थज्ञानाय प्रयतन्ते । एतेषामाधारमादाय यत्किञ्चिद्विवरणमुपस्थाप्यते ।

तत्रादौ नामविपये—आचार्यपुरुषोत्तमदेवविरचिते त्रिकाण्डशेषकोपे वैजयन्ती कोशे च पाणिनेः षड् पर्यायाः समुपलभ्यन्ते, तद्यथा-(१) पाणिनः, ( २ ) पाणिनिः, ( ३ ) दाक्षीपुमः, ( ४ ) शालङ्किः, ( ५ ) शालातुरीयः, (६ ) आहिकश्चेति । तथा च यशस्तिलकचम्पोद्वितीयाश्वासे 'पणिपुत्र'शब्दस्य व्यवहारो मिलति ।

'पाणिन'नाम्नः प्रयोगः काशिकायां चान्द्रवृत्तौ च समुपलब्धो भवति । 'पाणिनि' इति तु लोकप्रसिद्ध नाम । 'दाक्षीपुत्र' इत्यस्योल्लेखा: महाभाष्ये, समुद्रगुप्तविरचिते कृष्णचरित्रे, पाणिनीयशिक्षायाञ्च प्राप्यते। अपरञ्च 'शालातुरीय' इति नाम्नो निर्देशो ध्रुवसेनस्य द्वितीयस्य ताम्रशासने, भामहस्य काव्यालङ्कारे, जैनेन्द्रविरचितायां काशिकाविवरणपञ्जिकायां, गणरत्नमहोदधौ च समुपलब्धो भवति। परञ्च पाणिनये 'शालङ्कि'-'आहिक'-नाम्नोश्चर्चा कोशातिरिक्त-ग्रन्थेषूल्लेखोऽद्यापि कृते प्रयत्नेऽपि नोपलब्धा भवति ।

पाणिनेः कोलिफपरिचय:-इत्यस्मिन् विषये यशस्तिलकचम्पौ पाणिनये 'पणि पुत्र'शब्दस्य प्रयोगो मिलति-अतो निश्चीयते यदस्य पितुर्नाम ‘पणि' इत्यासीत् । अपि च गोत्रप्रत्ययान्तेन 'पाणिन' युवप्रत्ययान्तेन 'पाणिनि' इति नाम्नाप्यस्यैव समर्थनं भवति । अपरञ्च दिवङ्गतेन महामहोपाध्यायेन पं० शिवदत्तशर्मणा 'शालङ्कि' इति पदस्याधारमवलम्ब्य पाणिनेः पितुर्नाम 'शलङ्क' इति स्वीकृतम् । इदमेव मतं गणरत्नावलीकारस्य यज्ञेश्वरभट्टस्यास्ति । परञ्चान्ये विद्वांसः एतन्मतं समुचितं न मन्यन्ते ।

यतो हि गणपाठे पठितस्य 'शलकु शलङ्कं च' इति सूत्रानुसारं शालङ्केर्मूलं 'शलङ्कु' इत्यस्ति शलङ्कः न हि । इत्येव न हि कैयटेन प्रदीपे, हरदत्तेन पदमजा , वर्धमानेन चापि गणरत्ने--शालङ्केर्मूला प्रकृति: 'शलङ्क' इत्येवानुमोदिता । अन्यच्च 'शालङ्कि' इत्येतद् पदं गणपाठे (२।४।५९ ) पठितमस्ति तदनुसारमेतत् पदं पिता-पुत्राभ्यां द्वाभ्यामपि प्रयुक्तं भवेत् । महाभाष्ये 'शालङ्घनश्छात्रा शालङ्काः' इति पाठः समुपलभ्यते । यद्यस्मिन् पाठे शालङ्के: निर्देशः 'पाणिनये' भवेत्तदा तु पाणिनेः पितामहस्य नाम 'शलङ्क' इति भवितव्यम्" । अत्र पण्डितवरेण्यानां युधिष्ठिरमीमांसकमहोदयानां मतमस्ति यत् पाणिनेः पितुर्नाम 'पणिन्' पितामहस्य च शलङ्क आसीदिति ।

पाणिनेर्मातुर्नाम - पाणिनिः 'दाक्षीपुत्र' इति नाम्ना निर्दिष्टस्तेन सुस्पष्टं भवति यत्तेषां मातुर्नाम 'दाक्षी' इत्यासीत् । अनेनैव नाम्ना इत्यनुमीयते सम्भाव्यते च यत् पाणिनेर्मातामहस्य नाम दक्षः प्रतीयते ।

कस्तावत् मातुल?- संग्रहकारस्यकं नाम 'दाक्षायण' इत्यासीत् । तथा चोक्तं 'शोभना खलु दाक्षायणस्य संग्रहस्य कृतिः । अपरञ्च महाभाष्ये ( २।३१६६ । काशिकायाञ्चक ( ६।२।६९ )मुदाहरणमस्ति- 'कुमारी दाक्षः'। अत्र दाक्षायणमेव 'दाक्षिः' इति नाम्न्या स्मृताऽस्ति । प्रतीयते यत् पाणिनेः 'पाणिन' 'पाणिनि' गोत्र-युवप्रत्ययान्तत्वाच्च द्वे नामन्यास्ताम् तद्वत् संग्रहकारस्य व्याडेरपि दाक्षि दाक्षायणश्चेति नामद्वयमासीत् । एतेन पाणिनेर्मातुल: सुप्रसिद्धः संग्रहकारो व्याडि. रासीद, तस्य च 'दाक्षि' 'दाक्षायण' इति नामद्वयमथाप्यासीत् । 'व्याडि' इति पदं क्रोड्यादिगणे पठितमस्ति तदनुसारं व्याडे भगिन्याः नाम 'व्याडी' इति भविष्यति । परञ्चान्ये ग्रन्थकाराः संग्रहकारं व्याडि पाणिनेः मातुलेयः ( मातुलपुत्रः ) इति स्वीकुर्वन्ति । तदन्ये न मन्यन्ते । ते व्याडेरेव दाक्षि दाक्षायणश्चेति नामद्वयं दाढनोद पोषयन्ति । अलमत्र विवादेन । ।

पाणिनेः अनुजः- इत्यस्मिन् विषये ग्रन्थेषुल्लेखा एव प्रमाणम् । तत्र ऋक्सर्वानु क्रमण्याः वृत्तिकारेण षड्गुरुशिष्येण वृत्तो 'भगवता पिङ्गलेन पाणिन्यनुजेन' इति प्रतिपाद्य तथा च श्लोकबद्धायाः पाणिनीयशिक्षायाः 'शिक्षाप्रकाश'नाम्न्याष्टीकायाः रचयित्रा छन्द-सूत्रकारो पिङ्गलः पाणिनेः अनुज इति प्रख्यापितः ।।

पाणिनेः शिष्या:-महावयाकरणस्य व्याकरण प्रणेतुर्महामुनेः पाणिनेः कियन्तः शिष्या आसन् इति गणयितुं न पारयामो वयम् । वस्तुतः द्वौ प्रकारको शिष्यो भवतः । प्रत्यक्षशिष्यः अप्रत्यक्षशिष्यश्च । तत्र तावत् प्रत्यक्ष शिष्याणां विषये यत्किञ्चिद् विचारयामः । भगवता महर्षिणा पाणिनिना स्वशास्त्रस्य प्रवचनमनेकवारं स्वशिष्यान् प्रतिकृतमिति महाभाष्याध्ययनेन ज्ञायते । काशिकायाञ्चोदाहरणद्वयं प्राप्यते- 'पूर्व पाणिनीयाः' 'अपरपाणिनीयाश्च'। इत्यनेन ज्ञायते यत्-पाणिनेः शिष्यपरम्परा भागद्वये विभक्ताऽऽसीत् । अपरञ्च पाणिनीयसूत्रपाठस्य लघुः वृद्धश्चेति द्वौ पाठौ प्राप्नुतः । अत्र सम्भाव्यते यत्---द्वयोः शिष्यपरम्परयोः सम्बन्धोऽष्टाध्याय्याः द्विविध पाठयोः प्रवचनेन भवेत् । अन्यच्च-महाभाष्यस्य 'उपसेदिवान् कौत्सः पाणिनिम्' इत्युदाहरणेन ज्ञायते यत्-पाणिनेः एकस्य शिष्यस्य नाम आसीत् 'कौत्सः' । संस्कृत वाङ्मये त्वनेके कौत्साश्चर्चिताः सन्ति, तेष्वेको वरतन्तुशिष्योऽप्यासीत् । पाणिनेः शिष्यः कौत्सः कुत्रत्य आसीदित्यधुनापि न ज्ञायते।

पाणिनेनियासस्थानम् - एषां देशादिविषये परिज्ञानं तत्तद्ग्रन्थेषु उल्लेखा एव प्रमाणम् । काशिकायाः पैलादिगणे ( २।४।५९) 'शालाङ्कि' इति पदस्य स्थितत्वात् सुस्पष्टं भवति यत्-गोत्रमिदं प्राग्देशीयं नास्ति । एतेनानुमानं भवति यत्-प्राग्देशात् भिन्न देशः एषां निवासस्थानमासीत् । अपरञ्च पाणिनेः 'शालातुरीय'नाम्नः आधारं स्वीकृत्येति कथनीयो भवेद्यत्-पाणिनेः पूर्वजाः शलातुर ग्रामस्य निवासिन आसन् । एतत्स्थानं पुरातत्त्वविदा मते-अटकस्योपकण्ठं 'लाहुर' ग्राम एव प्राचीनः 'शलातुरः' विद्यते। अन्यच्च-अष्टाध्याय्याः उदाहरणः सुस्पष्ट प्रतीयते यत्-पाणिनिः बाहीकदेशस्य लघुस्थानेभ्योऽपि परिचित आसीत् । इत्यनेनेति तु स्वीकर्तव्य एव भवति यत्--पाणिनिः बाहीकदेशस्याथवा तन्निकटवर्तिनः स्थानस्य निवासी आसीत् ।

पाणिनेः समयः - महर्षिः पाणिनिः कस्मिन् समये बभूवेत्यद्यापि ऐतिहासिकः अनुसन्धानपरायणविद्वत्सु अनेके मतभेदास्तिष्ठन्ति । पाश्चात्यविद्वद्भिर्बहुप्रयासेनेसवीय पूर्व चतुर्थशतकादारभ्य षष्ठशतकपूर्वमस्य काल: स्वीकृतः। अन्तःसाक्ष्यर्बहिर्भूतैः साक्ष्यश्चानेकविधैः प्रमाणः स्वीये व्याकरणशास्त्रस्येतिहासे पण्डितप्रवरा: श्रीमन्तो युधिष्ठिरमीमांसकाः प्रमाणयन्ति यत्-सामान्यतया पाणिनेः कालो वैक्रमाव्दात् २९०० वर्ष पूर्वमासीदिति । एतदेव हि नहि---अस्मिन् विषये विभिन्नानि मतान्युप तिष्ठन्ते ।

तेषु कानिचित् मतानि यथा--सर्वश्रियः सत्यव्रतसामश्रमिणः २४०० ईसवीयपूर्वम्, गोल्डस्टुकरस्य ७०० ई० पू०, बेलवलकरस्य ७०० ई० पू०, भाण्डार करस्य ७०० ई० पू०, वासुदेवशरण-अग्रवालस्य ५०० ई० पू०, मैक्डोनलस्य ५०० ई० पू०, मोक्षमूलरस्य ३५० ई० पू०, वेबरस्य ३०० ई० पू० कीथस्य च ३०० ई० पू० । तथाप्यस्य निष्कर्षः यथावदस्ति । विदुषां प्रत्यनोऽद्यापि तिष्ठति ।

पाणिनेः जीवनवृत्तम्- अतीव खेदजनकोऽयं विषयो यत् महनीयस्यास्य पाणिनेः जीवनवृत्तमद्याप्यज्ञातमेव । अस्मिन् विषये ग्रन्थानामुद्धरणान्येव शरणम् । महाभाष्यस्य सङ्केतानुसारं पाणिनेः कुलमतीव समृद्धमासीत् ।

तस्यैकमुदाहरणमस्ति--'ओदनं पाणिनीयाः', विद्वांसोऽस्योदाहरणस्याशयं निःसारयन्ति यत्-पाणिनिप्रोक्तस्य व्याकरणस्याध्येतृभ्यश्छात्रेभ्य ओदनस्यापि व्यवस्थाऽऽसीदिति । एतेनास्य समृद्ध त्वं सूच्यते । अपि च पाणिनेः मातामहकुलमपि समृद्धमासीत् ।

इत्येव नहि--एतदतिरिक्तं विद्या-वैभवदृष्टया एतद् कुलद्वयमतीव समृद्धमासीत् । महात्मनो व्याडे: बहुविध शास्त्रप्रवचनं दूरादूरं सुप्रसिद्धमासीत् । तेषां संग्रहग्रन्था ध्येतृणां विद्वत्सु सविशेषा ख्याति रासीत् । विद्वांसो ब्राह्मणाः स्वदुहितृणां विवाहः संग्रहशास्त्रनिष्णातैः युवकैः सह कतुं लालायिता भवन्ति स्म । अत एव परवतिकालेऽपि सैपा स्थितिः विद्यमानाऽऽसीत् । तथा चाधुनिके काले

'अचीकमत् यो न जानाति यो न जानाति बर्बरी।

अजर्घा यो न जानाति तस्मै कन्या न दीयते ॥ इति कस्यापि विदुषः ।

एतदतिरिक्तं किमपि जीवनवृत्तं नोपलभ्यते । परञ्चाश्चर्यविषयोऽयं विद्यते यत् महिम्ना मण्डितस्य महतो महर्षेः पाणिनेः जीवनस्यान्तिमवृत्तान्तस्य ( घटनायाः) सङ्केतो न जाने कथं सुरक्षितस्तिष्ठति । तत्र सङ्केतस्थानं यथा पञ्चतन्त्रे समुद्धत मस्ति-सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः' । एतेन ज्ञायते यत्-पाणिनेः प्राणान् सिंहो जहारेति । अत्रैव श्लोके पाणिनेः अनुजस्य पिङ्ग लस्य मत्योरपि वर्णनं विद्यते । तथा च मकरेण समुद्रतटे पिङ्गलो निगलिप्तः । भागिनेय मातुलयोर्म पुनितान्त खेदमावहति । पाणिनीयवैयाकरणेषु वयं किं वदन्ती विद्यते यत्--पाणिनेः मृत्युः त्रयोदश्यामभूत् । मास-पक्षयोश्चाज्ञानात् प्राचीना वैयाकरणा: प्रतित्रयोदशीमनध्यायत्वेनामनन्ति । त्रयोदश्यां तिथौ पठन-पाठनादिकं वर्जयन्ति ।

पाणिनिप्रणीता ग्रन्थाः - अधुना लोकविश्रुतस्य महर्षेर्पाणिनेस्तेषां ग्रन्थानामत्र चर्चा विधीयते याभी रचनाभिस्तेऽमराः सजाताः । तेषां कीर्तिविश्वे प्रसृता । तत्रादौ व्याकरणस्य--पाणिनीयव्याकरणस्य सामान्यं नाम 'शब्दानुशासनम'स्ति । अस्मिन् शब्दानुशासने ( काशिकायाम् ) अष्टावध्यायाः सन्ति, तस्मादियं 'काशिका' 'अप्टा ध्यायी' इति नाम्न्या सुप्रसिद्धा विद्यते। अपि चाष्टाध्यायेषु विभक्तत्वादियं काशिका 'अष्टक' इत्यपि नाम भजते । प्रत्येकस्मिन् अध्याये चत्वारः पादा भवन्ति । एवं सहस्र चतुष्टयसूत्राणि तत्र सन्ति ।

महर्षिणा पाणिनिना स्वव्याकरणं मुख्यरूपेण लोकभापायां ( संस्कृते ) लिखित मस्ति । सहैव वैदिकभाषाया नियमानामपि संक्षेपेण निदर्शनं कृतम् । अस्मात् कारणात् व्याकरणमिदं लोक-वेदयोः प्रातिनिध्यं करोति। पाणिनीयव्याकरणस्य सर्वतोऽधिकं वैशिष्टय मस्ति--स्वरप्रकरणम् । उदात्तादिस्वराणां शब्दार्थेन सह घनिष्ठः सम्बन्धो विद्यते । स्वरपरिवर्तनेनार्थे परिवर्तनं जायते । इदानीं काले यद्यपि ( लोक भाषा ) संस्कृतादुदात्तादिस्वराणां लोपोऽभवत्, वैदिकग्रन्थेभ्यश्च स्वरचिह्नानि लुप्तानि, तथापि पाणिनेः स्वरशास्त्रे या सूक्ष्मेक्षिका वर्तते ( स्वरे विशेषः महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य--काशिकायाम् ४।२।७४ ),

तेन ज्ञायते यत्--तस्मिन् काले उदात्तादि स्वराः व्यवहार्या आसन् । सामान्यजना अपि--उदाहरणे स्वराणां परिचयं रक्षन्ति स्म । तथा हि--व्यासनद्याः दक्षिणे तटे दत्तनिर्मितेभ्यः कूपेभ्य 'अन्तोदात्त'शब्दस्य प्रयोगो भवति स्म। उत्तरीयतटस्य च कूपेभ्यः 'आधुदात्त' शब्दस्य प्रयोग उपलभ्यते । एवञ्च यदि पाणिनिः उत्तरवर्तिनां वैयाकरणानामिव स्वरशास्त्रस्योपेक्षां कुर्यात्तदा तस्य व्याकरणस्य न्यूनातिन्यूनश्चतुर्थांशो भागो लघुत्वेन स्यात् । अन्यच्च लोकभाषायां स्वराणामव्यवहारेऽपि वैदिकग्रन्थेषु अस्य शास्त्रस्य महती उपयोगिता विद्यते ।

अष्टाध्यायी- महामुनेः पाणिनेः अयमेको तादृशो ग्रन्थो विद्यते, येनास्य ख्यातिः सर्वत्र प्रसृता वर्तते । अपरञ्चाष्टाध्याय्याः सूत्रपाठस्य पौर्वापर्यमियत् सुसम्बद्धमस्ति यत्-तेषु सूत्रेषु कान्यपि सूत्राणि इतस्ततो परिवर्तने कृते सति ग्रन्थकारस्य समस्तं प्रयोजनमेव नष्टं भवति । तत्र पाणिनिना अनुवृत्तेः पौर्वापर्यक्रमस्य च विषये सविशेष ध्यानं प्रदत्तम् । अनुवृत्तेः सूत्रक्रमेण सम्बन्धत्वात् अध्येतारं वृत्त्यनुपाठस्यावश्यकता न भवति । कार्यदृष्टयाऽपि पौर्वापर्यस्य दृढः सम्बन्धो विद्यते । 'विप्रतिषेधे परं कार्यम्' 'पूर्वमासिद्धम्' इत्यनयोनियमाः सूत्रपाठे किञ्चिदपि परिवर्तने कृते सति विरोधा उपस्थिता भवन्ति । सत्यपि काठिन्ये पाणिनीयवैयाकरणाः सिद्धान्तकौमुद्यादि प्रक्रिया ग्रन्थानामाधारमाधुत्य व्याकरणास्याध्ययनाध्यापनादिकं कथं कुर्वन्तीति न जाने ।

पाणिनिना स्वशब्दानुशासनस्य परिशिष्टरूपाणि-'धातुपाठः', 'गणपाठः', -- 'उणादिसूत्रम्', 'लिङ्गानुशासनम्' इत्येतानि चतुःसंख्यकानि पुस्तकानि च विरचितानि । केचन विद्वांसः 'उणादि'ग्रन्थं शाकटायनस्य कृतिमामनन्ति । उणादिसूत्राणां दौ प्राचीनौ पाठौ स्तः । तत्र प्रथमः पञ्चपादी पाठः, द्वितीयश्च दशपादी पाठः । अन्यच्च पाणिनिना स्वाष्टाध्याय्याः वृत्तेरपि प्रवचनं कृतम् । एतच्च बहुभिः प्रमाणः व्याकरणशास्त्रस्येतिहासे विद्वद्वरेण याज्ञिकेन संसाधितमिति ।

पाणिनीयशिक्षा- 'शिक्षा' वेदाङ्गस्य प्रथममङ्गम्। अस्याञ्च वर्णानां यथा विहितमुच्चारणं कथं कर्तव्यमित्यस्य विषयस्य सूक्ष्मरूपा विवेचना विद्यते । अस्मिन् समये पाणिनि-नाम्न्या एका श्लोकबद्धा शिक्षा प्रचलिता विद्यते ।

एतस्याः शिक्षायाः पाठद्वयमुपलभ्यते । एकस्मिन् त्रिंशत् श्लोकाः सन्ति, द्वितीये च षष्टिपरिमिताः । शिक्षाप्रकाशनाम्न्याष्टीकाया रचयितुर्मते श्लोकबद्धायाः शिक्षाया रचना पाणिनेः अनुजेन पिङ्गलेन कृताऽऽसीत् । अस्याः श्लोकवद्धायाः शिक्षायाः प्रथमश्लोकेन विदितो भवति यत्-पाणिनिना शिक्षाग्रन्थोऽवश्यमेव विरचितो भवेत् । तस्यैवाधारेऽस्य ग्रन्थस्य रचना बभूवेति । श्लोकबद्धायाः शिक्षायाः समधिक प्रसारत्वात् मूलरूपा पाणिनीय शिक्षा लुप्तप्रायाऽभूत् । अपरञ्च पाणिनेः मूलशिक्षा ग्रन्थस्योद्धारस्य श्रेयः स्वामिनं दयादन्दसरस्वती विद्यते । महता प्रयत्नेन तैः १८७९ ईसवीये वर्षेऽस्य शिक्षाग्रन्थस्यैको हस्तलेखः सम्प्राप्तः, १८८० ईसवीये च हिन्दी भाषाव्याख्यया तह प्रकाशितश्च । इयं शिक्षा श्लोकबद्धा विद्यते । अस्यामष्ट प्रकर णानि सन्ति ।

जाम्बवती-विजयः- 'आदौ व्याकरणं काव्यमनुजाम्बवतीजयम्' इत्यनेन जाम्ब वतीविजयस्य ख्यापनं सिद्ध यति । महाभाष्यकारेण पतञ्जलिना 'व्याकरणस्य' लक्षणं कुर्वता लिखितं यत्-'लक्ष्यलक्षणे व्याकरणम्' । अतो यत्र पाणिनिना शब्दानां लक्षणेभ्यः 'अष्टाध्यायी' विरचिता, तत्र तेषां लक्षणानां लक्ष्यानां परिज्ञानाय जाम्बवतीविजयकाव्यस्यापि रचना कृता । अस्मिन् काव्ये श्रीकृष्णस्य पाताले प्रविश्य जाम्बवत्याः विजयस्य परिणयस्य च कथा वर्णिता विद्यते । अतोऽस्यापरं नाम पाताल विजयोऽप्यस्ति । अस्यानेके श्लोकाः श्लोकांशो वा विविधग्रन्थेषुद्धताः सन्ति । एभिरुद्ध रणयिते यदस्मिन् महाकाव्ये न्यूनातिन्यूना अष्टादश सर्गाः अवश्य मेवासन् ।

अस्मिन् विषये डॉक्टर पीटर्सनप्रभृतयः पाश्चात्यविद्वांसस्तदनुगामिनश्च भण्डारकरादयो भारतीया विद्वांसोऽपि अस्य काव्यस्य लालित्यपूर्णां सरसां रचना मवलोक्य कथयन्ति यत्-एतत् काव्यं सूत्रकारस्य पाणिनेः रचना नैव भवितुमर्हति । यतो हि-शुष्कानां कर्णकटुत्वदोषयुक्तानां सूत्राणां रचयिता जनः एतादृशो लालित्य पूर्णः सरसश्च ग्रन्थः कथङ्कारं निर्मापयेत् ? पाश्चात्यानामियं कल्पना सर्वथा प्रमाण शून्या विद्यते । अन्यच्च-एकस्यैव विद्वज्जनस्य विभिन्न विषयाणां रचनासु भाषा भेदोऽवश्यमेव भवति ।

प्रत्यक्षमिदं दृश्यते । अतो भाषाभेदसदृशस्य बलहीनस्य स्वकल्पितस्य मिथ्या निकषस्याधारे आधृतं पाश्चात्यमतं सर्वथा हेयं गर्हणीयञ्च भवति । भारतीये संस्कृतवाङ्गये जाम्बवतीविजयं निःसन्दिग्धरूपेण सूत्रकारस्य पाणिनेरेव रचना स्वीकृता विद्यते । किम्बहुना-स्वयं महाभाष्यकारेण पतञ्जलिना महाभाष्ये पाणिनिः कवित्वेन चर्चितः । इत्येव नहि-ऐतिहासिकविदुषा राजशेखरेण, श्रीधरेण, क्षेमेन्द्रेण, शरणदेवेन च सूत्रकारः पाणिनिः एव महाकाव्यस्य र प्रख्यापित। महाराजसमुद्रगुप्त विरचिते श्रीकृष्णचरित्रे यद्यपि ग्रन्थस्य खपिता पाणिनेः वर्णनस्यांशो नष्टस्तथापि मुनेः कात्यायनस्य महाकवेर्माघस्य च । पाणिनेः काव्यकारस्य निर्देशः समुपलभ्यते । एभिः प्रमाणैश्चिन्त्या: खल वैदेशि विद्वांसः । इत्यलं पल्लवितेन ।।

द्विरूपकोषः - लन्दनस्थितस्य ‘इण्डिया आफिस'स्य पुस्तकालये ७८९० संग कस्यको कोषग्रन्थोऽस्ति । अस्मिन् केवलं ६ पत्राणि सन्ति । ग्रन्थस्यान्ते लिखित मस्ति-इति पाणिनिमुनिना कृतं द्विरूपकोशं सम्पूर्णमिति । अयं कोषः सूत्रकारस्य पाणिने कृतिविद्यतेऽन्यस्य वा' इति अज्ञातमस्ति ।

पूर्वपाणिनीयम्- एतन्नाम्नः एकः २४ सूत्रात्मको ग्रन्थः कतिपयवर्षपूर्वं सौरा ष्ट्रात् ( काठियावाड ) प्रकाशितो विद्यते । अस्यानुसन्धाता सम्पादकश्च श्री पं० जीवा राम वैद्यः वर्तते । एष ग्रन्थस्तेन पाणिनिकृतसिद्धयर्थमनेकानि कारणान्युपन्यस्तानि परञ्च तानि सर्वाणि कल्पना प्रसूतानि सन्ति ।

कात्यापरपर्यायः कात्यायनः

सम्पादयतु

व्याकरणशास्त्रविदुषां समवाये पाणिनीयव्याकरणस्य महन्महत्त्वं विद्यते । तत्र पाणिनि-कात्यायन-पतञ्जलीनां त्रयाणां मुनीनामुच्चैः स्थानमस्ति । इमे मुनयः म्याकरणस्य विशिष्टा व्याख्यातारः सन्ति । तत्रापि पाणिनिस्त्वस्य व्याकरणस्य प्रवर्तक एव । परवर्तिवैयाकरणा एतान् प्रणम्यैव ग्रन्थ रचनां कुर्वन्ति । यथा सिद्धान्तकौमुद्याः रचयित्रा श्रीमता भट्टोजिदीक्षितेन कौमुद्याः मङ्गलाचरणावसरे प्रणमितं मुनित्रयम् । तद्यथा -

मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च ।

वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥

एतेन सिद्धयति यत्-एते मुनयः क्रमेण प्रमाणभूता: सन्ति-'यथोत्तरं मुनीनां प्रामाण्यमिति दिशा । एषां त्रयाणां मुनीनां मध्ये कात्यायनो मध्यमस्थानीयः । वृत्ति रचनायामस्य वृत्तिकारस्य कात्यायनस्य यथा प्रसिद्धिस्तथाऽन्येषां न। अत्रैतदपि ध्यातव्यं यत्-सुप्रसिद्ध महाभाष्ये पतञ्जलिना कात्यायनकृतवार्तिकानामेवविशेषतो व्याख्यानं कृतम् । अस्य महामुनेः अनेकानि नामान्युपलभ्यन्ते । तत्र पुरुषोत्तम देवेन स्वकीये 'त्रिकाण्डशेषे' कोशग्रन्थे पञ्च नामानि निर्दिष्टानि, तद्यथा-कात्यः, कात्यायनः, पुनर्वसुः, मेधाजित, वररुचिश्चेति । अत्र तनिर्दिष्टानां नाम्नां यथाक्रम विवरणमुपस्थाप्यते -

कात्यः - गोत्रप्रत्ययान्तमिदं नाम विद्यते । एतच्च पतञ्जलिना स्वमहाभाष्ये वार्तिककाररूपेण निर्दिष्टम् । तच्च यथा-'प्रोवाच भगवान् कात्यस्तेनासिद्धिर्यणस्तु ते' अत्र 'कात्य'नाम्नैव कात्यायनस्य ग्रहणम् । अपरञ्च बोधायनश्रौतसूत्रेऽप्येतनाम समुपलभ्यते।

कात्यायन:- यथा पूर्वमेव प्रतिपादितं यत् कात्य एव कात्यायन इति । एतद्विषये विदुषां मतमस्ति यत्-गोत्रप्रत्ययान्तमिदं नाम विद्यते । अस्य नाम्नः संसाधनं भवति-'जीवति तु वंशे युवा' इति पाणिनिसूत्रेण वंशे पिता-पितामहादी जीवति सति पौत्रादेर्यदपत्यं तस्य 'युवसंज्ञा' भवति । तथा च 'वृद्धस्य च पूजायाम्' इत्यनेन वार्तिकेन पूजायामित्यस्मिन् अर्थे गोत्रापत्यस्यैव युवसंज्ञा जायते, तेन–कतस्य युवापत्यं = कात्यायन इति सिद्धयति । अस्योद्धरणं महाभाष्ये ( ३।२।११८) 'न स्म पुराऽनद्यतन इति ब्रुवता कात्यायनेनाह' इति ।

पुनर्वसुः - यद्यप्यस्य नाम्न: प्रामाणिकी स्थिति!पलभ्यते तथापि प्राप्तसङ्केता. नुसारेण यत्किञ्चिदुपस्थाप्यते । पुनर्वसुरित्यस्माज्जातः पुनर्वसुः । भाषावृत्तावस्यो ल्लेखो यथा--'पुनर्वसुर्वररुचिः' इत्येव प्राप्यते । यत्तु महाभाष्ये 'पुनर्वसू च माणवको' इत्युपलभ्यते तत्तु कात्यायनं न स्वीकरोति ।

मेधाजितः - कात्यायनस्य अस्य पर्यायस्य त्रिकाण्डशेषे कोषे एव नाम्ना दग्गोचरीभवति नान्यत्र ।

वररुचिः- कात्यायनस्यास्य नाम्नश्चर्चा बहुत्र विद्यते । तत्र महाभाष्ये पतञ्ज लिना वाररुचकाव्यस्य चर्चा कृता। वाररुचे: काव्यस्यापरं नाम स्वर्गारोहणकाव्य मिति । महाराजेन समुद्रगुप्तेन कृष्णचरिते स्वर्गारोहणकाव्यस्य रचयिता वररुचिरिति स्वीकृतः । सोऽयं वररुचिः कात्यायन एव । तद्यथा अस्योल्लेखः कृष्णचरिते--

'य: स्वर्गारोहणं कृत्वा स्वर्गमानीतवान् भुवि ।

काव्येन रुचिरेणैव ख्यातो वररुचिः कविः ॥

अपरञ्च--

'न केवलं व्याकरणं पुपोष दाक्षीसुतस्येरितवार्तिकर्यः ।

काव्येऽपि भूयोऽनुचकार तं वै कात्यायनोऽसौ कविकर्मदक्षः ॥

अन्यच्च-अस्मिन् विषये ख्यातिप्राप्ताः मोक्षमूलर( मैक्समूलर )महोदयाः प्राकृतप्रकाशकारं वररुचि कात्यायनञ्चैकमेव स्वीकुर्वन्ति । लन्दनस्थिते 'इण्डिया हाउस पुस्तकालये' स्थितायां सर्वानुक्रमण्यां 'अत्र शौनकादिमतसंग्रहीतुर्वररुचेरनु क्रमणिका' इत्यनेन पाठेन ते भ्रान्ताः । एवञ्च मेदिनीकोशे उक्तमस्ति 'कात्यायनो वररुचौ विशेषे च मुनेः पुमान्' एतेन प्रमाणितो भवति यत्--द्वावप्येक एवेति निश्चितम् । अत्रानेकविधाः किंवदन्त्यः प्रसिद्धाः सन्ति; केचिद्वदन्ति-वररुचिः वासवदत्ताप्रणेतुः सुबन्धोर्मातुलोऽयम् ।

केचिच्च विश्वसन्ति यत् वररुचिः हर्ष विक्रमादित्यस्य समकालिक आसीत् । परञ्च पाणिनि-सूत्राणां वार्तिककाराः पूर्वोक्त कात्यायनाद्भिन्नाः प्रतीयन्ते। एतदेव हि नहि कदाचित् केऽपि कथयन्ति यत्--- कात्यायन: भाष्यकारस्य पतञ्जले: समकालिक आसीत् । केचन द्वयोर्भेदमामनन्ति, कथयन्ति च-कात्यायनः वररुचेः आचार्यः । मतद्वयमिदमस्वीकार्यमस्ति । कात्या यनस्य विषये एतत्तु कथनीयमेव यत-- अयं पाणिनेः पश्चात् पतञ्जलेश्च पूर्वमेवासीत् ।

श्रूयतेऽनुमीयते च यत्-कात्यायननामकः कश्चिदेको जनः भगवतः बुद्धस्य शिष्योऽप्यासीत्, परञ्चाश्चर्यस्य विषयोऽयं यत्--ख्यातनाम्ना वैदिक ऋषिणा की सह अस्य बुद्ध शिष्यस्य कात्यायनस्य कः सम्पर्को भविष्यति । तेजस्तिमिरयो. धिकरण्यं कुतः । कात्यायनेन मुनिना पाणिनेः व्याकरणस्यातिरिक्तं शव संहिताया माध्यन्दिनप्रातिशाख्यस्य सर्वानुक्रमण्याः वैदिककल्पसूत्रस्य च रचना गोल्डस्टूकरस्य कथनमस्ति यदेतैः माध्यन्दिनप्रातिशाख्यानन्तरं पाणिनेः सत्रा वार्तिकस्य रचना कृताऽऽसीत् ।

गोल्डस्टूकर-वेबराभ्यां द्वाभ्यामपि कात्यायनः पूर्वदेशीय इति प्रतिपादित, परञ्च विद्वन्मूर्द्धन्याः समीक्षकाः रामकृष्णगोपालभण्डारकरमहोदयाः महाभा वाक्यमेकमुद्धृत्य कथयन्ति यत्--नहि कात्यायनः पूर्वदेशीयः, अपि तु दाक्षिणाय आसीत् । कात्यायनस्य वार्तिकमेकमस्ति--'यथा लौकिकवैदिकेषु' । एतल्लक्ष्यीकत्य पतञ्जलिः कथयति--'प्रियतद्धिता हि दाक्षिणात्याः, यथा लोके वेदे च प्रयोक्तव्य वैदिकेष्विति प्रयुञ्जते । एतेन प्रमाणितो भवति यत्--कात्यायनो दाक्षिणात्य एवासीत् । इत्यलं वररुचेः कात्यायनस्य विचारप्रसङ्गे। तथा च पूर्वोक्तयोस्तृतीय. चतुर्थयोः 'पुनर्वसु-मेधाजित्' इत्यनयोर्नाम्नोः सम्बन्धे विदुषां मध्ये मतभेदस्तिष्ठति । तेषां मते--एतस्माद्भिन्नोऽयं कात्यायन इति ।

महाभाष्यप्रणेता पतञ्जलिः निखिलविद्यानिष्णातस्य शेषावतारस्य महाभाष्यकारस्य पतञ्जलेविषये तथा सर्वाङ्गीणमितिवृत्तं नोपलभ्यते यथा विदुषामपेक्षा विद्यते । अत्रापि समीक्षकाणां विदुषां भणितिरेव प्रमाणम् । अस्य महात्मनो महनीयकीर्तेः पतञ्जले: योगविद्यायां शब्दशास्त्रे आयुर्वेदशास्त्रे च महत्त्वपूर्णा रचनामवलोक्य यथार्यसमीक्षण केनचिद्विदुषा पद्यमेकं विरचितं तच्च यथा---

योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन ।

योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलि प्राञ्जलिरानतोऽस्मि ॥

अस्य पद्यस्य प्रामाणिकता विषये केचन विद्वांसः सहमता: न सन्ति । परञ्चास्य प्रामाणिकता विषये विचार एव न समुचितः । अस्मिन् पद्ये पद्यकारस्य भावना द्रष्टव्या। अस्मिन् पद्ये तु केवलं महामुनेः पतञ्जलेः तत्तत् शास्त्रेषु प्रवीणतायाः, तं प्रतिश्रद्धायाश्च वर्णनं विद्यते । इति तु सुविदितमस्ति विदुषां समवाये यत् पतञ्जलि: योगशास्त्रेऽपि पारङ्गम आसीत् । अस्य पातञ्जलयोगदर्शनं सुप्रसिद्धमेव । व्याकरणशास्त्रे महाभाष्यस्य रचनां विधाय देशे-विदेशेष्वपि परां ख्यातिमधिगतवान् ।

एतेन महता शुष्कमत एव नीरसं कठिनं दुरवगाहमपि व्याकरणशास्त्रं सरसया वाण्या लिखितेन भाष्येण नीरसं वाक्सूत्रं रसाप्लुतमकरोत् । अहो ! वाण्या: विलासे रसोद्भति परम्परावाग्देवताप्रसादादेव भवति । अस्य भाष्यस्य तथा प्रचारः प्रसारोऽभवत यद ध्ययनं कृत्वा समस्ते विश्वस्मिन् विद्वांसश्चमत्कृता अभवन् । किम्बहुना महाभाष्येति शब्दोच्चारणेनैव पातञ्जलमहाभाष्यस्यावबोधो जायते । महाभाष्यमिदं सर्वेषु पाणि नीयसूत्रेषु नोपलभ्यते । अध्ययनाध्यापनक्रमे विद्वांसः स्वच्छात्रान् उद्बोधयन्ति यत् -

पुराकाले भोजपत्रेषु, तालपत्रेषु किंवा पिप्पलादिपत्रेषु ग्रन्थलेखनपरिपाटी आसीत्, महाभाष्यमपि प्रायः पिप्पलपत्रेषु लिखितमासीत् । कदाचिद् दैवयोगेन भगवतः पतञ्जले: आश्रमे अजः अजा वा तत्र समागत्य भाष्यलिखितानि पत्राणि तेन तया वा भक्षितानि तदारभ्यैषा जनश्रुतिः सजाता यत्-महाभाष्यमजभक्षितमिति । सूत्राणा मुपरि अनुपलब्धभाष्यस्य एतदेव।

महामुनेः पतञ्जले: काल:- यस्मिन् महाभाष्ये भारतीयसंस्कृतेः संस्कृत शास्त्राणाञ्च प्रतिच्छाया पदे पदे दर्पणे दृश्यमिव प्रतिभाति, तत्प्रणेतुर्विषये एव विदुषां मध्ये कर्षणापकर्षणभावाः स्फुरन्ति । तेनैकमत्यं धारयन्ति । अस्मिन् विषये विद्वद्व रेण्याः अनुसन्धानजगति प्रवीणाः महामान्या युधिष्ठिरमीमांसकाः सादरं स्मर्यन्ते । तैः महता प्रयत्नेन, विभिन्नमतान्यालोच्य यन्मतं सुनिश्चितं तदेवादरणीयमस्माकम् । एतन्मतञ्च यथा—'चन्द्रगोमिद्वारा परिष्कृतवर्तमानपाठमाधारीकृत्य महाभाष्यकारस्य पतञ्जले: कालनिर्धारणं सर्वथाऽन्याय्यम्' । यदि मदीयप्रदर्शितः २००० वि० पू० काल: कथञ्चित् विद्वद्भयो न रोचते चेत् तथापि अमुष्यकालो विक्रमपूर्वतः १२०० वर्षाद् उत्तरकालिकः कथमपि नैव सम्भवति' इति ।

किं नाम भाष्यत्वम् - महाभाष्यत्वं च कथम्- सुविदितमस्ति तत्रभवतां विदुषां मध्ये यन्महामुने पाणिनेः सूत्राणामुपरि मुनिसत्तमस्य कात्यायनस्य वार्तिकपाठाः सन्ति । ये साम्प्रतं स्वातन्त्र्येण नोपलभ्यन्ते । एनमेवाश्रित्य महर्षिणा पतञ्जलिना भाष्यरचना कृता। किमिदं भाष्यमिति जिज्ञासायाम्-सहसा विष्णुधर्मोत्तरे दृष्टिपातो जायते । तस्य तृतीये खण्डे चतुर्थाध्याये भाष्यस्य सुस्पष्टं लक्षणं विद्यते । तद्यथा

सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः ।

स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥

अत्रायमाशयो यत्-सूत्रानुसारिभिः वाक्यरित्यनेन वार्तिकसम्बन्धिसर्वचनैरिति भावस्तेन पाणिनिसूत्राणामुपरि कात्यायनवार्तिकवाक्यरिति यत्र= यस्मिन् स्थले सूत्रार्थः विशदं व्याख्यानं भवति, अपि च स्वपदानि = स्ववाक्यानि यत्र वर्ण्यन्ते तत्र भाष्यत्वं भवति । महच्छब्दयोजनेन चेति सूच्यते यत् पूर्वमपि किमपि भाष्य मासीत् तस्मादपि श्रेष्ठतरं यतो हि पतञ्जलेः पूर्वमप्यनेके व्याख्यातारो वार्तिकस्या भूवन् । ते चेमे सन्ति-हेलाराजः राघवसूरिः राजरुद्रप्रभृतयः ।

जन्मभूमि-वंशादि परिचयः - एतयोविषये परोक्तिरेव प्रमाणम् । सुप्रसिद्धन समीक्ष केण वैयाकरणेन श्रीमता नागेशेन पतञ्जलेर्मातुर्नाम 'गोणिका' इति ख्यापितं तथा चोक्तम्-'गोणिकापुत्रो भाष्यकार' इति । विदुषां मध्ये इयं किंवदन्ती विद्यते यत् पतञ्जलेर्जन्मभूमिः गोनर्ददेशोऽस्ति । पतञ्जलेरेकमपरं नाम 'गोनर्दीय' इत्यपि कथ्यते । अयं गोनर्ददेशः कुत्रास्ति इत्यपि अनुसन्धेय एव । भण्डारकरमहोदयाः एतत्स्थानं 'गोण्डा' इत्यामनन्ति । प्राकृतव्याकरणानुसारं 'ई' इत्यस्य स्थाने 'ह' अथवा 'ड्ड' इति भवत्यतो गोनत्-गोनड्ड इत्युच्चतस्म। एतद् विपरीतं. कनिंघमस्य स्वभूगोले कथनमस्ति-गोण्डा इति संस्कृत-गौडादुद्भूतोऽस्ति ।

अत्र विशेषेण सम्भाव्यते यत्-संस्कृतगोनर्दशब्दादेव गोण्डा इत्यभवत् । पतञ्जलिस्तर निवासी आसीत्। काशिकाया: १।१।७५ सूत्रे वृत्तौ च गोनर्दीय, भोज यादयः कतिपयशब्दा उदाहरणत्वेन व्याख्याताः सन्ति । इमे गोनीयाः । देशवासिनः सन्ति तथा च पतञ्जलि: गोनर्दीयः कथितः अतोऽसौ प्राच्यवैय कर आसीदिति । अपरञ्च कैयटेनानेकत्र पतञ्जलि: आचार्यदेशीयः कथितः । गोला स्टुकर-वेबरयोर्मते आचार्यदेशीयस्यार्थः आचार्यदेशस्थो जनः, आचार्यश्चायं कात्यायन निर्देशवाचकः । पतञ्जलयः प्राच्यदेशीयाः आसन् अतोऽस्य सिद्धान्तस्यानुसारं कात्या यनोऽपि तद्देशीयसम्भूतो भविष्यति । अत्रेति तु पूर्वमेव सुनिश्चितं यत् कात्यायन: दाक्षिणात्य इति । अत गोल्डस्टुकरस्य मतं चिन्त्यम् । अन्यच्च--पतञ्जलेविषये प्रसिद्धिरियं वर्तते यत् -इमे किञ्चित्कालपर्यन्तं काश्मीरे वसन्ति स्म । महाभाष्या तिरिक्त तेषां पाणि निव्याकरणेऽनेकानि वार्तिकान्यपि सन्ति, येषां संज्ञा 'इष्टि' रित्यभिधीयते ।

अपरञ्च पतञ्जलिना स्वमहाभाष्ये व्युत्पन्नविचारनैपुण्यस्य परिचयः प्रदत्तः । कात्यायनकृताया: पाणिनिसमालोचनायाः वैधतानिरूपणार्थमेव महाभाष्यस्य रचना कृता। सत्यां पाणिनेरष्टाध्याय्याम्, सति च कात्यायनस्य वार्तिके व्याकरणस्य याऽङ्गहीनताऽऽसीत्, पतञ्जलिना . स्वमहाभाष्यस्य रचनया तत्पूरिता। वस्तुतः पातञ्जलमहाभाष्यपर्यन्तं विवरणं प्राप्येव संस्कृतव्याकरणं स्वचरमसीमासीमा यामासीत् ।

कैयटेन महाभाष्यस्योपरि एका टीका विरचिता, यस्याः नाम 'भाष्यप्रदीप' इत्यस्ति । तदनन्तरं नागोजीभट्टेन 'प्रदीपोद्योत'नाम्नी टीका भाष्यप्रदीपे लिखिता। तदनु टीकायाः शृङ्खला समुदिता। भर्तृहरिकृते वाक्यपदीयनामके भाष्ये एका टीका विद्यते । एतदतिरिक्तं 'कारिका' नाम्न्या एका छन्दोमयी रचना दृष्टिगोचरा भवति । वाक्यपदीयस्य द्वितीये काण्डे लिखितमस्ति यत्--पतञ्जलिना व्याडिप्रणीतं संग्रह विलुप्तप्रायं दृष्ट्वा 'सवार्तिकस्य पाणिनीयभाष्यस्य' रचना कृता ।

मुख्यार्थबोधकः स्फोटवादः

सम्पादयतु

वेदान्तिनां मते यथा 'ब्रह्मसत्यं जगन्मिथ्या' इति घोषणया जगतः मिथ्यात्वं सिद्धयति तद्वत्--वैयाकरणविदुषां मते शब्दोऽपि समुत्पत्त्यनन्तरं विनाशशीलो भवति । परश्चात्र स्फोटेन शब्दानामर्थज्ञानं जायते। किम्भूतोऽयं स्फोटः इति जिज्ञासायां विद्वांसः कथयन्ति यत्-वर्णस्य, पदस्य, वाक्यस्य वा सुस्पष्टाथों यस्य साहाय्येन स्फुटितो भवति, प्रकाशितो भवति स एव स्फोटः ।

अपरञ्च-अथ ज्ञानस्योपयुक्तं शक्तिशालिनं पदार्थविशेषमेव स्फोटमिति कथयन्ति, तथा च येनार्थबांध वर्णस्य साहाय्यं भवति तं वर्णस्फोटः, येन पदार्थबोधे उपयुक्तता भवति तं पदस्फोट येन च वाक्यस्यार्थबोधने क्षमता भवति तं वाक्यस्फोट इति कथ्यते । एतदेव स्कार गतं पार्थक्यमस्ति । वर्णानां समूह एव पदं भवति तथा च 'सूपतिङन्तं पदम् । व्याहरन्ति वैयाकरणाः । एवञ्च पदानां समूहो वाक्यं भवति । वर्णाः पदानि च क्षणमात्रं तिष्ठन्ति । अतोऽनेकवर्णानां पदानां वा एकस्मिन् समये समावेशो न भविष्यति । एतादशस्य समावेशस्याभावे पदस्य वाक्यस्य वा सङ्गठनं न भवितुमर्हति । परि णामतः पदार्थज्ञानं वाक्यार्थस्य शाब्दज्ञानमपि न सम्भवमस्ति । वाक्यपदीये भर्तृहरेः सुस्पष्टं मतमस्ति यत् विश्वे तादशं किमपि ज्ञानं नास्ति यत् शब्दसम्पर्केण विना तस्य जनिर्भवेत् । अतः ज्ञानमेव शब्देन सह ग्रथितं भवति । अस्यामवस्थायामर्थ बोधस्यानुकूलं स्फोटनामकमेकं पदार्थमवश्यमेव स्वीकरणीयमिति ।

वर्णस्फोटस्य विषये माधवाचार्यस्य मतमस्ति यत्-यो हि वर्णैरभिव्यक्तो भवेत् स एव वर्णस्फोटः । अपरञ्च वर्णसमूहस्य वाचकत्वेऽसम्भवे सति यस्याः शक्तेः साहाय्ये नार्थबोध उत्पद्यते स एव स्फोट: । तथोक्तः स्फोट: वर्णेनैव व्यक्तो भवति । अत एव विद्वांसः स्फोटमर्थप्रतीतिजनकं नित्यं शब्दविषयकमामनन्ति । अत्र शब्दो द्विधा नित्यशब्दः, अनित्यशब्दश्च । स्फोटरूपः शब्दः नित्यः प्रकृतो वा भवति । वर्णरूपः शब्दश्चानित्यो वैकृतो वा भवति ।

स्फोटवादिनां मतं पूर्वपक्षरूपे संस्थाप्य वर्णवादिनः ( यस्य मते वर्णादेवार्थबोधो भवति स्फोटस्य काऽऽवश्यकता ) कथयन्ति यत्-यदि वर्णसमूहा एव एकमात्रं ज्ञान गम्यविषयत्वात्--अर्थबोधमुत्पादयन्ति तदा 'नव'शब्दात् वनशब्दस्यार्थः कथं न प्रकाशितो भवति । अस्योत्तरं प्रयच्छन्त: शारीरिकभाष्यकाराः श्रीमदाद्यशङ्कराचार्याः कथयन्ति--'शब्द इति चेन्नातः प्रभवात्' इत्यनेन तेषां तात्पर्यमस्ति यत् पदान्तर्गतस्य समस्तवर्णस्य ज्ञानेनैव पदज्ञानं भविष्यति तन्न ।

यथा अव्याहतरूपेण कीटानामनुगमनेनैव तेषां पंक्तिरुदीर्यते, नंहि क्रमभङ्गे सति । तथैव वर्णसमूहोऽपि क्रमानुसारे णव स्थास्यन्ति तदैवार्थबोधकाः स्युरिति । अतः 'नव'शब्देन 'वन'शब्दस्यार्थबोधस्य न किमपि कारणं प्रतीयते । शारीरिकभाष्यस्य भामतीटीकायां सुगृहीतनामधेयाः वाचस्पति मिश्राः तौतिकाचार्यस्य--

यावन्तो यादृशा ये च पदार्थप्रतिपादने ।

वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥

इत्येकं श्लोकमुद्धत्यास्यैव मतस्य समर्थनं कुर्वन्ति ।।

अन्यच्च--वेदान्तशास्त्रे तु एतादृशः पूर्वपक्षः उत्तरपक्षश्च विद्यमानो वर्तते । एतत्सत्यम् । परञ्च महाभाष्यस्य विचारानुसारं द्वयोः पक्षयोः तर्कस्य आवश्यकता न भवति । भाष्यकाराः कथयन्ति यत्--उच्चारणस्य द्वितीये क्षणे एव वर्णस्य विनाशो जायते । अतो वर्णसमूहस्य पौर्वापर्यत्वं भविष्यत्येव नहि । अलमत्र वर्णविवादेन । तथापि स्फोटात्मकस्य शब्दब्रह्मणः साहाय्येनैव वर्णप्रत्ययस्योद्दीप्तिर्भवति । शास्त्रे कथितमस्ति-'ब्रह्मेदं शब्दनिर्माणम्' ।

कात्यायनस्य गुरुः मीमांसावृत्तिकार उपवर्षः वर्णवादी आसीत् । तेनैव 'शब्द इति चेत् न' इत्यस्य शारीरकभाष्ये उक्तमस्ति-वर्णा एव तु शब्द इति भगवानुप वर्षः । वर्णसमूह एव प्रतीतिमुत्पादयति। एतत्प्रकारके मते सति ते स्फोटवादस्य प्रामाण्यं न स्वीकुर्वन्ति । एषां मते--अयमेव सः शब्दः इत्याकारिकाया प्रत्यभिज्ञा भवति सैव वर्णनित्यत्वस्य प्रतिपादिका विद्यते।

मीमांसादर्शने शब्दानां नित्यता-स्थापनाय जैमिनिना यानि सूत्राणि विस तानि सूत्राणि स्फोटविषये गृहीतव्यानि भवेयुः । यतो हि स्फोटपक्षमादाय यो लोचना भवेत् तदा सूत्राणां गौरवं मुस्थिरं स्यात् । अस्यामालोचनायामनेकशा समन्वयो विद्यते । जैमिनि-पतञ्जल्यादिमुनीनां मतेऽनक्यं नास्ति ।

स्फोटवादिनां मतमस्ति यत्-यथा द्रव्यस्य द्वौ प्रकारौ भवतः-व्यावहार पारमार्थिकश्च, तद्वत् शब्दस्यापि प्रकारद्वयं भवति-वैकृतः प्राकृतश्चेति । वा पदीये भर्तृहरेः उक्तिरियं विद्यते -

स्फोटश्च ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ।

वृत्तिभेदे निमित्तत्वं वैकृतं प्रतिपद्यते ।।

भर्तृहरेरेतत्कथनस्य कारणं विद्यते महाभाप्यस्य व्याख्यानं; तद्यथा--'ध्रुवं कूटस्थ मविचाल्यनपायोपजनविकार्यानुत्पत्त्यवृद्धयव्यययोगि यत् तन्नित्यमिति । तदपि नित्यं यस्मिन् तत्त्वं न विहन्यते'।

अत्रायमाशय:-स्फोटवादिनां हृद्गतो भावोऽयमस्ति यत्--अभिघातादिप्रयत्न यंत् श्रोत्रग्राह्यो भवति, स एव शब्दस्य वैकृतभागः कार्यभागो भवति, तथा चोपलव्धे रनन्तरं स्वयमभिज्वलितो भूत्वा यत् पदवाक्यादिबुद्धि-निर्ग्राह्यार्थविशेषमभिव्यञ्जयति स एव शब्दस्य नित्यः प्राकृतो वा भागो विद्यते । इत्थं व्याख्याने जैमिने: सूत्रमिदं स्फोटवादस्य बाधकं नास्तीति मन्ये । महामुनेः जैमिने:- 'समं तु तत्र दर्शनम्' 'सतः परमदर्शनं विषयानागमात्' 'प्रयोगस्य परम्', 'आदित्यवद् योगपद्यम्', 'वर्णान्तरमविकारः' इत्येतेषां पञ्चसूत्राणां निर्गलिताशयोऽयं विद्यते यत्-वर्णसमूह स्यान्तर्गतौ प्रकृति-विकृतिभावो न भवतः, अतः शब्दाः नित्याः सन्ति ।

वर्णविकारविषयकं मीमांसकानां सिद्धान्तं वैयाकरणाः न स्वीकुर्वन्ति । पाणिनि सम्प्रदाये तु प्रचलितेयमुक्ति: -

वर्णागमो वर्णविपर्ययश्च द्वो चापरौ वर्णविकारनाशी ।

धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ।।

एतस्योदाहरणं यथा -

वर्णागमो गवेन्द्राद्रौ सिंहे वर्णविपर्ययः ।

षोडशादौ विकारः स्याद् वर्णनाशः पृषोदरे ।

किञ्च-'नादवृद्धिः परा' इत्येतद् जैमिनिसूत्रस्याशयोऽयं विद्यते यत्-उच्चार कस्यानेकत्वात् शब्दस्य नादः वृद्धिमाप्नोति । अत्र जैमिनि-पतञ्जल्योरैकमत्यं तिष्ठति ।

स्फोट: शब्दः । ध्वनि: शब्दगुणः । कथम् । भेर्याघातवत् तद् यथा भेर्याघातो भरा माहत्य कश्चित् विंशति पदानि गच्छति, कश्चित त्रिंशत, कश्चित् त्रयस्त्रिंशत् । स्का स्तावानेव भवति ध्वनिकता वृद्धि: । अत्रेदं तात्पर्यमस्ति यत्-नादस्याथवा व भंवति परञ्च स्फोटस्तु कूटस्थस्येवाविकृतभावेन तिष्ठति । जैमिनिशबरस्वामि नादः कथ्यते-पतञ्जलिस्तमेव ध्वनिरिति समर्थयति । इत्थमुपरि यस्य । सिद्धान्तस्य प्रतिपादनमभूत, स च सिद्धान्तः न श्रुतिप्रमाणितः इति केचन प्रतिपादयन्ति, कोऽपि टीकाकारः क्वाप्युल्लेखं करोति ।

परञ्चैतद् कथनं केनापि प्रकारेण समुचितं नैव प्रतिभाति । महाभाष्यादौ तु अस्योल्लेखः कथञ्चित् कस्मिन्नपि रूपेऽभू देव । ‘एवं तर्हि स्फोटः शब्दः । ध्वनिः शब्दगुणः । कथं भेर्याघातवत् ।

यदि वयं पुराणेषु स्फोटविषयकानां मतामतानामनुसन्धानं कुर्मस्तदास्यौचित्ये दृष्टिपातस्य सम्भवः । स्मृतिविरोधस्य परिहाराय वेदमेव चरमप्रमाणरूपे स्वीक्रियते । परञ्च सिद्धान्तानुकूलोऽर्थः यदि वेदे तिरोहितोऽथवा प्रच्छन्नो भवेत्, तथा च स्मृतावपि तस्य विषये किमपि प्राप्तं न भवेत्तदा इतिहास-पुराणादिकमेव प्रमाणत्वेन स्वीकरणीयम् । 'इतिहासपुराणाभ्यां वेदार्थमुपळहयेत् । इत्येव नहि, स्कन्दपुराणे तु कथितमस्ति यत् -

'यन्न दृष्टं हि वेदेषु न दृष्टं स्मृतिबुद्धिना।

उभयोर्यन्न दृष्टं हि तत्पुराणे प्रगीयते' ॥

अपरञ्च ‘महाभारतम्' एको बृहत्कायग्रन्थोऽस्ति । हरिवंशपुराणमस्यैवाङ्गस्था नीयमस्ति । 'एकाक्षरा वै सर्वे वाक्', 'ऊकारो वै वाक्', 'उकारो वागेवेदं सर्वम्' इत्यादिकं श्रुतेः तात्पर्यमादायान्तरं प्रणवस्वरूपं स्फोटात्मकं भगवन्नामलक्षितं कृत्वा कथयति–'अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः' । अस्य तात्पर्यमिदमस्ति यत् अक्षराणां मध्ये प्रणवस्यादि बीजमपि त्वमेवासि, एवञ्च वर्णसमूहस्याश्रयभूता स्फोटशक्तिरपि त्वमेवासि ।

श्रीमद्भागवतेऽपि द्वादशस्कन्धस्य षष्ठाध्याये यो हि श्लोक: 'समाहितात्मनो ब्रह्मणः' समागतस्तस्यापि तात्पर्यमिदमेव ।

परमेष्ठिब्रह्मणः यः सूक्ष्मतमो नाद; उत्पद्यते स एव शब्दब्रह्म विद्यते । तदा चित्त वृत्तनिराधो भवति तदा योगिनः नादरूपशब्दब्रह्मणोऽनुभवं कुर्वन्ति । अस्मादेव सूक्ष्मतमनादात् त्रिमात्रात्मक ओङ्कारः अनिर्वाच्यरूपेण स्वयं प्रकाशितो भवति । तथा च स एव नादः स्फोटस्य ब्रह्मणो वा वाचको विद्यते । अनेन प्रकारेण भागवतस्य मते वर्णसमूहः उत्पत्ति-विनाशशील: परञ्च स्फोटस्तु शब्दब्रह्मत्वात् अखण्डो नित्यश्च ।

वर्णानामुत्पत्तिर्भवति अतस्तेषां विनाशोऽप्यनिवार्यरूपेण भवति । इत्येतस्य प्रमाणं न केवलं भागवतपुराणे एवापितु ब्रह्माण्डपुराणेऽपि प्राप्यते । ब्रह्माण्डपुराणन्तु कथयति यत् —दन्तताल्वोष्ठादीनामाश्रयेणोच्चरितो भवति, तस्मिन् क्षणे वर्णसमूहमुत्पत्तिशील मिति कथयित्वा 'यत्कृतकं तन्नष्टम्' इति सिद्धान्तानुसारं सः विनाशशीलोऽस्ति । अतोऽत्र जिज्ञासा भवति यत्-वर्णसमूहः क्षरोऽस्ति तदा तमक्षरं कथं कथ्यते । अत्र अक्षरविधानस्य कारणमस्ति यत्--वर्णराशे: वैकृतभाग एव क्षरः = विनाशशीलोऽस्ति, परञ्च तस्य प्राकृतभागः स्फोटरूपं शब्दब्रह्मनित्यमखण्डञ्चास्ति अतोऽक्षरो विद्यते।।

सांख्यदर्शने कथितमस्ति यत्--'प्रतीत्यप्रतीतिकं न स्फोटात्मकः शब्दः' । अस्मिन् स्थले व्याख्यातुजिज्ञासा. विद्यते यत्-यदि वर्णादेव प्रतीतेरुत्पत्तिर्भवति तदा अस्य मध्ये एकस्यातिरिक्तस्य स्फोटस्य कल्पनायाः काऽऽवश्यकता। वर्णेन स्फोटः, स्फोटेन चार्थस्य प्रतीतिर्भवति । अस्याः कल्पनाया अपेक्षया इदमेव समुचितमस्ति यत् - वर्णेनार्थस्य प्रतीतिर्भवति । सांख्यकाराणां मते--'यत्परः शब्द स शब्दार्थः'। मा काराणां मतममान्यमस्ति ।

एषां शास्त्रे प्रकृतिपुरुषातिरिक्तं ब्रह्मतत्त्वादीनां का न विद्यते । यतो हि स्फोट: ब्रह्मतत्त्वस्यान्तर्गतो विद्यते, अतो यदि सांख्ये वर्णवादी ग्रहणं स्फोटस्य चास्वीकृति रस्ति चेत् किमत्र चित्रं वैचित्र्यं वा । एवञ्च नया गित अपि सांख्यकारस्येव स्फोटवादस्यावश्यकतां न स्वीकुर्वन्ति । तेषां कथनमस्ति यत वर्णोच्चारणेन यस्मिन् समये पदस्यार्थो ज्ञायते तस्मिन् समये वर्णातिरिक्तस्य स्फोट कल्पनैव निष्प्रयोजना। तेषां मते वर्ण एव शब्दः, तथा च वर्णस्योच्चारणं भवति अतः उत्पत्तिशीलो विद्यते। 'यत्कृतकं तदनित्यम्' इति निर्देशानुसारेण शब्दस्य नित्यता न कदापि स्वीकरणीया ।

नैयायिकाः शब्दानामुत्पत्तिमवलोक्य शब्दानामनित्यत्वं कथयन्ति । सामान्यरूपेण दश्यते यत्-~-यस्योत्पत्तिर्भवति तस्य नाशोऽपि जायते । यथा-घटपटादीनाम् । आकाशस्योत्पत्तिर्न भवति, अत: विनाशोऽपि न जायते । नैयायिकानां मते शब्दोऽपि घटपटादिवत् निर्माणशीलोऽस्ति, अतोऽनित्यो विद्यते ।

नैयायिकचिन्तनधारायां पञ्चावयवाः स्वीक्रियन्ते । ते च यथा--प्रतिज्ञा, हेतुः उदाहरणम्, उपनयः निगमनञ्चेति । मीमांसायां दृष्टौ शब्दं नित्यं द्रव्यञ्च कथ्यते । शब्दस्य नित्यतायाः सम्बन्धे सन्देहस्य किं कारणम् अस्ति ? नैयायिका उत्तरयन्ति यत्-सर्वेषां वस्तूनामुत्पत्तिविनाशो दृश्येते । शब्दोऽप्युत्पत्तिशील: अतोऽनित्यो विद्यते । नित्यता बोधकत्वमेवास्य हेतुः। उत्पत्यव वस्तु विनाशशीलं भविष्यति । अस्य किं प्रमाणम् ।

नैयायिका घटपटादीनामुदाहरणानि प्रयच्छन्ति । तुल्यजातित्व कारणात् शब्दोऽपि घटादिवत् कृतकत्वोऽस्ति, कारणमनित्यमित्युपनयः । उपनयेनायं सिद्धान्तः सुस्थिरो यत् शब्दोऽनित्य इति । न्यायसरणिः कस्याप्यतीन्द्रियपदार्थस्य समाधाने समर्था नास्ति। श्रुतेरुच्चर्घोषणा विद्यते—'नैषा तर्केण मतिरापनेये'ति । अयमत्राशयः-तर्कबुद्धया कदापि तत्त्वस्य प्राप्ति व भविष्यति । एतस्य कथनस्य पुराणमप्यनुवदति, तद्यथा -

'अनित्या खलु ये भावा न तांस्तर्केण योजयेत् ।

प्रकृतिभ्यः परं यश्च तदचिन्त्यस्य लक्षणम् ॥

अर्थात् यः (भावः ) त्रिगुणातीतः स एवानित्यः । अचिन्त्यस्य पदार्थस्य सम्बन्धे तर्कबुद्धेरवतारणा व्यर्था विद्यते । स्फोटः शब्दः ब्रह्मस्वरूपो विद्यते अतोऽयं अखण्डः गुणातीतः नित्यं वस्तु विद्यते। स्फोटस्यान्यदुदाहरणं नास्ति, स्वयमेव स्वस्योपमा विद्यते ।

'गगनं गगनाकारं सागरः सागरोपमः ।

रामरावणयोर्युद्धं रामरावणयोरिव' ।

भर्तृहरयोऽप्येतदेव कथयन्ति, तद्यथा -

'अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।

विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः' ।