वेदव्यासः

(व्यासः इत्यस्मात् पुनर्निर्दिष्टम्)

वेदव्यासः (Vyasa‌) हिन्दुपरम्परायां कश्चन प्रमुखः । महाभारतस्य रचनाकारः भगवान् व्यासः । वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम । द्वीपे अस्य जन्म अभवत् इत्यतः ‘कृष्णद्वैपायनः’ इत्यपि एतस्य नाम । एतस्य पिता पराशरमुनिः माता च सत्यवती ।

वेदव्यासः
सम्मानाः भारतीयशास्त्रानुसारं वेदव्यासस्य जन्म पूर्णिमायाः दिवसे अभवत्, अतः वेदव्यासपूर्णिमायाः उत्सवः आरर्यते ।

व्यासस्य शैली अपि वाल्मीकेः इव सरला एव । महाभारतम् अपि आधिक्येन अनुष्टुप्छन्दसा एव उपनिबद्धम् अस्ति । भगवान् वेदव्यासः महर्षेः पराशरस्य पुत्रः । एषः कैवर्तराजस्य पालितपुत्र्याः सत्यवत्याः गर्भे जन्म प्राप्तवान् । एषः कश्चन अलौकिकः शक्तिसम्पन्नः महापुरुषः अपि च महानाकारक पुरुषः आसीत् । एषः जनानां स्मरणशक्तेः क्षीणतां दृष्ट्वा वेदानाम् ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्वणवेदः च इति विभजनम् अकरोत् । प्रत्येकां संहिताम् अपि प्रत्येकं शिष्यं बोधितवान् । एकैकस्याःः संहितायाः अपि अन्यान्याः शाखाः, उपशाखाः च अभवन् । एवम् एतस्य यत्नेन वैदिकसाहित्यस्य बहुविस्तारः आसादितः । विस्तारं व्यासः इति वदन्ति । वेदस्य विस्तारः एतेन सम्पादितः इति कारणेन एषः ‘वेदव्यासः’ इति नाम्ना प्रसिद्धः जातः । एतस्य जन्म कस्मिंश्चित् द्वीपे अभवत् । श्यामलवर्णस्य एतं जनाः ‘कृष्णद्वैपायन’ इत्यपि आह्वयन्ति । बदरीवने एषः आसीत् इति कारणेन एतस्य नाम ‘बादरायणः’ इत्यपि आसीत् । अष्टादशपुराणानि, महाभारतस्य रचनाम् एषः एव अकरोत् । संक्षेपेण उपनिषदः तत्त्वान् बोधयितुं ब्रह्मसूत्राणां निर्माणम् अकरोत् । तेषां विषये अन्यान्याः आचार्याः भाष्याणि रचयित्वा स्वेषां विभिन्नान् अभिप्रायान् प्रकटितवन्तः । ‘व्यासस्मृतिः’ एतेन रचितः कश्चन स्मृतिग्रन्थः । एवं भारतीयसाहित्यस्य, हिन्दूसंस्कृतेः विषये व्यासस्य महत् योगदानम् अस्ति । श्रुति-स्मृति-पुराणोक्तस्य सनातनधर्मस्य कश्चन प्रधानः व्याख्यानकारः व्यासः इति उच्यते । हिन्दवः, भारतीयसंस्कृतिः च यावत् पर्यन्तं तिष्ठति तावत् पर्यन्तम् एतस्य नाम अमरम् एव । जगति एव एषः महान् श्रेष्ठः पथप्रदर्शकः, शिक्षकः च इति उच्यते । अतः तेन ‘जगद्गुरुः’ इति गौरवम् अपि प्राप्तम् अस्ति । गुरुपूर्णिमायाम् [आषाढपूर्णिमा] प्रत्येकं हिन्दूगृहस्थः एतस्य पूजां करोति । श्रीकृष्णपरमात्मनः अमरम् उपदेशं स्वस्य महाभारतस्य संहितायां योजयित्वा जगतः महदुपकारं कृतवान् अस्ति । महाभारतं लक्षश्लोकात्मकः विस्तृतः ग्रन्थः । व्यासः भारतकथां पुत्रं शुकं शिष्यं वैशम्पायनं च बोधितवान् । वैशम्पायनः जनमेजयं तां कथाम् अवदत् । जनमेजयेन उक्ता भारतकथा एव इदानीम् उपलभ्यते । रामायणे इव अत्रापि ब्रह्मा व्यासं भारतकथालेखनाय प्रोत्साहयति । व्यासः योग्यस्य लेखकस्य अभावं वदति । ततः गणेशः भारतकथायाः लेखनकार्यम् अङ्गीकरोति । व्यासेन उक्तां भारतकथां सः लिखति च । आर्यभटः वदति - क्रि. पू. ३१०१ तमे वर्षे कलियुगस्य आरम्भः अभवत् इति । कलियुगस्य आरम्भदिने श्रीकृष्णः परं धाम गतवान् । ततः ३७ वर्षेभ्यः पूर्वं महाभारतयुद्धं प्रवृत्तम् । अतः महाभारतकालः, व्यासकालः च प्रायः एषः एव इति निर्णेतुं शक्यः। महाभारते बह्वयः उपकथाः उपलभ्यन्ते । अतः भारतकथाम् अवलम्ब्य गद्यपद्यचम्पूकाव्यादीनि बहूनि लिखितानि विविधैः कविभिः । भगवद्गीता, हरिवंशः इत्यादयः अपि महाभारते एव अन्तर्भवन्ति ।

महर्षिः वेदव्यासः त्रिकालदर्शी, इच्छागतिमान् च आसीत् । एषः सर्वस्य मनसः चिन्तनं ज्ञातुं शक्नोति स्म । यत्र इच्छति क्षणाभ्यन्तरे तत्र गन्तुं शक्नोति स्म। जन्मानुक्षणं मातुः आज्ञां प्राप्य तपः कर्तुं वनं गतवान् । गमनसमये उक्त्वा गतवान् यद् – ‘यदा भवत्यै मम आवश्यकता भवति तदा मां स्मरतु । अहं भवत्याः समीपे उपस्थितः भविष्यामि’ इति ।

पाण्डवाः विदुरस्य युक्त्या लाक्षागृहतः बहिः आगत्य एकचक्रनगरे आसन् । तस्मिन् सन्दर्भे व्यासः मेलनार्थं तत्र गतवान् आसीत् । प्रसङ्गवशात् सः द्रौपद्याः पूर्वजन्मनः वृत्तान्तं कथयन् ‘एषा कन्या भवद्भ्यः इति एव पूर्वनिश्चिता अस्ति’ इति । एतत् वचनं श्रुत्वा पाण्डवानाम् आनन्दः उत्साहः च वर्धितः । ते द्रौपद्याः स्वयंवरे भागं ग्रहीतुं पाञ्चालनगरं गतवन्तः । तत्र अर्जुनः स्वयंवरस्य नियमानुसारं द्रौपदीं जितवान् । मातुः कुन्त्याः आज्ञया यदा पञ्चसहोदराः अपि तया सह विवाहं कर्तुम् इच्छन्ति तदा राजा द्रुपदः न अङ्गीकरोति । तस्मिन् समये व्यासः तत्र आगत्य तस्याः पूर्वजन्मनः वृत्तान्तं निवेद्य पञ्चभिः सहोदरैः सह तस्याः विवाहं कारयितुं द्रुपदम् अङ्गीकारितवान् ।

यदा महाराजः युधिष्ठिरः इन्द्रप्रस्थनगरे राजसूययागं कृतवान् तदापि वेदव्यासः यज्ञे भागं ग्रहीतुं स्वस्य शिष्यवृन्दैः सह आगतवान् आसीत् । यज्ञं समाप्य गमनसमये सः युधिष्ठिरम् “अद्यारभ्य त्रयोदशवर्षाणाम् अनन्तरं क्षत्रियाणां महासंहारः भविष्यति । तस्मिन् दुर्योधनस्य अपराधानां निमित्तं भविष्यति भवान्” इति वदति ।

पाण्डवानां सर्वस्वम् अपहृत्य तान् द्वादशवर्षाणां वनवासं प्रति प्रेषयित्वा अपि दुर्योधनः न हृष्टः । सः पाण्डवान् वने एव मारयितुं चिन्तितवान् । मातुलः शकुनिः, कर्णः, दुःशासनः इत्येतैः सह रहस्येन पाण्डवानाम् उपरि आक्रमणं कर्तुं निश्चित्य शस्त्रास्त्रैः सुसज्ज रथम् आरुह्य वनं प्रस्थितवान् । व्यासः दिव्यदृष्ट्या एतत् दुष्टं कुतन्त्रं ज्ञातवान् । सः अनुक्षणं तत्र आगत्य घोरात् दुष्कर्मणः तं निवारितवान् । अनन्तरं सः धृतराष्ट्रं ‘भवान् द्यूतस्य पराजयव्याजेन पाण्डवान् वनं प्रेषितवान् । एतत् सत्कार्यं न । एतस्य परिणामः उत्तमः न भवति । भवान् भवतः, भवतः पुत्राणां च हितम् इच्छति चेत् इदानीं वा कृतस्य दोषस्य परिहारं करोतु । दुरात्मा दुर्योधनः राज्यलोभेन पाण्डवान् मारयितुम् इच्छति ! पाण्डवान् यदि मारयितुं यत्नं करोति तर्हि तेन तस्य प्राणाः दातव्याः भवेयुः। भवान् यदि पुत्रस्य द्वेषबुद्धेः निवारणं कर्तुं यत्नं न करोति तर्हि अनर्थः भविष्यति । दुर्योधनः एकः एव गत्वा किञ्चित् कालं पाण्डवानां समीपे तिष्ठतु इति मम अभिप्रायः । पाण्डवानां सत्सङ्गेन तस्य द्वेषभावः अपगछेत्, प्रेमभावस्य जागरणं भवेत् । एतद् कठिनम् अस्ति । यतः जन्मतः आगतस्य स्वभावस्य परिवर्तनं सहजं न । पाण्डवैः सह भवतः पुत्राः मिलित्वा तिष्ठन्ति चेत् कुरुवंशः अवशिष्यते। किञ्चित् कालाभ्यन्तरे महर्षिः मैत्रेयः अत्र आगमिष्यति । सः भवतः पुत्रान् उद्दिश्य 'स्नेहेन सर्वे सहजीवनं कुर्वन्तु' इति उपदेशं करोति । चिन्तनं विना भवन्तः तस्य वचनं शृण्वन्तु । अन्यता सः कोपेन शापं दद्यात्’ इत्यपि व्यासः उक्तवान् । तथैव किञ्चिदनन्तरं मैत्रेयः तत्र आगत्य बोधनं कृतवान् । किन्तु दुर्योधनः तस्य वचनं न श्रुतवान् । अतः महर्षेः कोपस्य परिणामम् अनुभूतवान् ।

यदा पाण्डवाः वने आसन् तदा कदाचित् सः आगत्य युधिष्ठिरस्य द्वारा अर्जुनाय स्मृतिविद्यायाः उपदेशं दत्तवान् । ततः अर्जुनेन देवदर्शनस्य योग्यता प्राप्ता । तावदेव न, व्यासः सञ्जयाय दिव्यदृष्टिं दत्तवान् । तेन कारणेन सः युद्धस्य सर्वान् विवरणानि ज्ञातुं शक्नोति स्म । भगवतः विश्वरूपस्य दिव्यचतुर्भुजस्य रूपस्य देवदुर्लभदर्शनस्य योग्यतामपि प्राप्तवान् । साक्षात् भगवतः मुखतः भगवद्गीतायाः दिव्योपदेशम् अपि श्रुतवान् । अर्जुनेन विना अन्ये केऽपि गीतां न श्रुतवन्तः । दिव्यदृष्टेः प्रभावतः सञ्जयाय एषा योग्यता आगता । सः तु साक्षात् नारायणस्य अंशः एव आसीत् ।

धृतराष्ट्रः गान्धारी कुन्ती च यदा वने आसन् तदा कदाचित् युधिष्ठिरः तान् द्रष्टुं परिवारैः सह तत्र गतवान् आसीत् । तदा व्यासः अपि तत्र आगतवान् आसीत् । धृतराष्ट्रगान्धार्योः पुत्रशोकः इतोऽपि शान्तः न आसीत् । कुन्ती अपि बान्धवानां वियोगेन दुःखे अस्ति इति ज्ञात्वा व्यासः धृतराष्ट्रं 'वरः पृच्छ्यताम्' इति वदति । युद्धे मृतानां पुत्राणां मित्राणां च गतिः का स्यात् इति सः ज्ञातुम् इष्टवान् । “एकवारं तान् सर्वान् द्रष्टुम् इच्छामि” इति सः व्यासं प्रार्थितवान् । व्यासः वदति यद् – शयनानन्तरम् उत्थितं मानवमिव अद्य रात्रौ भवन्तः सर्वे मृतान् बन्धून् पश्यन्ति’ इति । सर्वे सायंकर्माणि समाप्य गङ्गातटे मिलितवन्तः ।

व्यासः गङ्गायाः पवित्रं जलं प्रविश्य युद्धे मृतान् कौरवान् पाण्डवान् च उच्चैः आह्वयति । अनुक्षणं यथा कुरुक्षेत्रस्य अङ्गणे युद्धाय समावेशितानां सैन्यानां कोलाहलः श्रूयते स्म तथा शब्दः जलेऽपि श्रुतः । अनन्तरं युद्धे वीरगतिं प्राप्तवन्तः सर्वे राजानः, राजकुमाराः च भीष्मद्रोणादीनां नेतृत्वे एव जलतः बहिः आगतवन्तः। युद्धसमये यथा वेशं, ध्वजं, वाहनं, दिव्यवस्त्रं, दिव्यमालाः, कुण्डलं च धृतवन्तः आसन् तथा एव इदानीमपि धृतवन्तः आसन् । सर्वाणि शरीराणि अपि दिव्यप्रभया कान्तियुक्तानि आसन् । प्रत्येकम् अपि क्रोधरहितः, द्वेषासूयारहितः, निरभिमानयुक्तः च दृश्यन्ते स्म । गन्धर्वाः तेषां यशोगानं कुर्वन्तः आसन् । वन्दीजनाः तेषां स्तुतिं कुर्वन्तः आसन् । तदा व्यासः धृतराष्ट्राय दिव्ये नेत्रे दत्तवान् आसीत् । अतः सः सम्यक् सर्वान् योधान् अपश्यत् ।

तत् दृश्यं तु अत्यद्भुतम्, अचिन्त्यं, रोमाञ्चकारि च आसीत् । सर्वे तदेकदृष्ट्या तत् दृश्यं दृष्टवन्तः । आगताः जनाः क्रोधेन विना बन्धुभिः मिलितवन्तः । एवम् आरात्रि प्रेमीणां समागमः चलति स्म । अनन्तरं ते सर्वे यथा आगतवन्तः तथैव भागीरथ्याः जलं प्रविश्य स्वलोकान् गतवन्तः । तदा व्यासः वदति ‘काः अपि स्त्रियः पत्युः लोकं गन्तुम् इच्छन्ति चेत् गङ्गायां प्रवेशः करणीयः ’ इति । तच्छृत्वा बह्व्यःः स्त्रियः जलं प्रविश्य मानवदेहं त्यक्त्वा पत्युः लोकं गतवत्यः । एताः अपि दिव्यं वस्त्राभूषणं धृत्वा विमानयाने उपविश्य गतवत्यः ।

अत्र राजा जनमेजयः वैशम्पायनस्य मुखतः एतम् अद्भुतं वृत्तान्तं श्रुत्वा बहुकुतूहलम् अनुभूतवान् । सः अपि स्वस्य स्वर्गवासिनः पितुः महाराजस्य परीक्षितस्य दर्शनं कर्तुम् ऐच्छत् । व्यासः तदापि तत्रैव आसीत् । सः तस्य इच्छापूरणाय राजानं परीक्षितं तत्र आहूतवान् । जनमेजयः यज्ञान्ते स्नानसमये स्वेन सह पितुः अपि स्नानं यदा कारयति तदनन्तरं परीक्षितः ततः प्रस्थितवान् । एवं महर्षिः वेदव्यासः कश्चन अलौकिकः शक्तिशाली महापुरुषः च ।

"https://sa.wikipedia.org/w/index.php?title=वेदव्यासः&oldid=482894" इत्यस्माद् प्रतिप्राप्तम्