शङ्कराभरणम् (२०१५ चलच्चित्रम्)

२०१५ तमे वर्षे प्रकाशितं एकं तेलुगुचलच्चित्रमस्ति शङ्कराभरणम्। उदयनन्दनावनेन निर्देशितं कोनावेङ्कट् इत्यनेन लिखितं च इदं चित्रम्। अस्मिन् निखिलसिद्धार्थः, नन्दिताराजः च मुख्यभूमिकासु अभिनयम् अकरोत्। अस्य निर्माता एम.वी.वी. सत्यनारायणः आसीत। २०१० तमे वर्षे निर्मितं "फंस् गये रे ओबामा" इति नाम्ना हिन्दीचलच्चित्रस्य पुनर्निर्माणम् आसीत् इदं चलच्चित्रम्।