शङ्खो नाम मुनिः पुराणसाहित्ये कृतप्रतिष्ठो कृतप्रतिष्ठो धर्मशास्त्रं रचयन् मानवसमाजस्याचारव्यवहारशिक्षा-विषये महान्तमुपकारं विधत्ते । स्मृतावस्यां वर्णाश्रमस्य सकलविधि व्यवस्थावर्णन् पुरः सरं गृहस्थाश्रमस्य तथा तदीयसंस्कारादिकस्यापि विशेषवर्णना विद्यते । अस्याश्च स्मृतेर्विशेषत्वमिदं यत् सांख्यतत्त्वस्य व्याख्यापि सम्यग् विधीयते । तेन च प्रतिपादितम् अस्मिन्नेव हृदये सर्वे देवाः प्रतिवसन्ति । हृदयं यदि निर्मलं भवेत्-तार्हि दिव्यं ज्योतिस्तत्र विराजते । भगवान् सूर्यः, भगवान् चन्द्रः, भगबान हव्यवाहनः ततः सर्वे देवा अपि हृदि प्रत्यक्षमनुभूयेरन् । परमात्मापि प्रत्यक्षमनुभूयते, अतोऽन्तः करणं सदा निर्मलं विधीयेत, येन सर्वं किञ्चित् सिध्यतीति स्मृतिसम्मतमभिमतम् । अहं ब्रह्मास्मि इति प्रत्यक्षानुभूतिः अस्मिन् हृदय जायते, तस्य पूजा सर्वथा विधीयेत इति सांख्यदर्शनानुसारेण मुक्तिपदं प्राप्तुं पञ्चविंशतितत्त्वानां मानमवगन्तव्यं सर्वैरिति स्मृतिः स्पष्टं उपदिशति । आचार व्यवहारैर्यथा बाहया पवित्रता स्मुपजायते, तताऽध्यात्मिकज्ञानेनैवत्मोपलब्धिः सर्वथा सञ्जायत एवेति शङ्खेन प्रतिपादितमस्ति । वर्णाश्रमविधिः, संस्कारविधिः, ब्रह्मचर्यशिक्षा, सदाचारशिक्षा, पञ्चमहायज्ञविधानम्, तथा तर्पणविधानादिवर्णनं सर्वाः शास्त्रीयव्यवास्था अपि साङ्गेपाङ्गमस्यां स्मृतौ निरुप्यते ।

शङ्खस्मृतौ अष्टादशाध्यायाः सन्ति । तेषु प्रथमाध्याये ब्राह्मणादीनां कर्माणि, द्वितीयाध्याये ब्राह्मणादीनां संस्काराः, तृतीये ब्रह्मचर्याद्याचाराः, चतुर्थे विवाहसंस्कारः, पञ्चमे पञ्चमहायज्ञाः गृहस्थाश्रमप्रशंसा च षष्ठे वानप्रस्थसन्यासयोः धर्माः, सप्तमे प्राणायामलक्षरम्, धारणाध्यानयोग-निरुपणञ्च कृतम् । अष्टमाध्याये नित्यनैमित्तिकादिस्नानानां लक्षणम्, नवमे क्रियास्नानविधिः, दशमे आचमनविधिः, एकादश्रोऽधर्मतर्पणविधिः, द्वादशे गायत्रीजपविधिः, त्रयोदशे तर्पणविधिः, चतुर्दशाध्याये श्राद्धे ब्राह्मणापरीक्षा, वर्ज्यब्राह्मणाः, पडिक्तपावन ब्राह्मणाः, पञ्चदशे जन्ममरण- शौचविधिः, शोडाशे द्रव्यशुद्धिः, मृण्मयादिपात्रशुद्धिश्च प्रतिपादिता । ततः सप्तदशाध्याये क्षत्रियादिवधप्रायश्चित्तम्, विवत्सादीनां क्षीरपाने शूद्रादीनां चान्नभोजने प्रायश्चित्तम् प्रतिपादितम् अष्टादशाध्याये अघमर्षणपराक वारुण-कुच्छ्राति कुच्छ्र-सान्नापनादिव्रतविधिः सम्यक् प्रतिपादितम् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शङ्खस्मृतिः&oldid=481004" इत्यस्माद् प्रतिप्राप्तम्