शन्तनुः महाभारते हस्तिनापुरस्य राजा । अयं चन्द्रवंशस्य भरतस्य कुलजः । कौरवपाण्ड्वयोः पूर्वजः ।

शन्तनुः सत्यवती च ।(राजरविवर्मणः चित्रम्)

शन्तनुः गङ्गा च

सम्पादयतु

कदाचित् शन्तनुः गङ्गातीरे भ्रमन् काञ्चित् सुन्दरीम् अपश्यत् । तया आकृष्टः अनुरक्तः च परिणयेच्छां प्रकटितवान् । ससमयं सा विवाहार्थम् अङ्गीकृतवती । तदनुगुणं सा किमपि करोति चेत् अपि तेन प्रश्नः न करणीयः । पृष्टे सति तत्क्षणे एव सा तं त्यक्त्वा गमिष्यति इति । समयम् एतम् अङ्गीकृत्य तां परिणीतवान् । गच्छत्सु कालेषु पुत्रमेकम् असूत । किन्तु शिशुं गङ्गानद्यां प्राक्षिपत् । खिन्नः चेदपि राजा त्यागभयात् किमपि नोक्तवान् । कालक्रमेण सप्तशिशून् अपि गङ्गायां न्यमज्जत् । अष्टमं शिशुं यदा सा गङ्गायां प्रक्षेप्तुं गता तदा कोपम् असहमानः राजा शन्तनुः ताम् अवरुध्य कारणम् अपृच्छत् । तदा सा उक्तवती अहं गङ्गा, शिशुं नीत्वा कालन्तरेण प्रत्यर्पयामि इति । तस्याः निर्गमनेन अपत्यानाशेन च अतीव दुःखितः राजा अन्तिमपुत्रस्य आगमनं निरीक्षमाणः वार्षाणि यापितवान् । दत्तवचनानुगुणं गङ्गा तं पुत्रं प्रर्यर्पितवती । अयं पुत्रः एव देवव्रतः अग्रे भीष्‍मः इति विश्रुतः महाभारतस्य महाभूमिका ।

शन्तनुः सत्यवती

सम्पादयतु

देवव्रतः यदा युवा अभवत् तदा कदाचित् दाशकन्यायां सत्यत्याम् अनुरक्तः । तां दातुं तस्याः पिता कञ्चित् समयम् अभियुक्तवान् । एतेन समयानुसारं सत्यवत्याः पुत्रस्य एव सिंहासनाधिकारः दातव्यः इति । यदि अङ्गीकरोति तर्हि प्रथमपुत्रस्य देवव्रतस्य अन्यायः भविष्यति इति तं समयम् अनङ्गीकृत्य निर्गतवान् । पितुः खिन्नताम् औदासीन्यं तस्य कारणं च विज्ञाय सत्यवत्याः पुत्रः एव सिंहासनमारोयिष्यामि इति पित्रे वचनं दत्त्वा दाशराजस्य स्थानं गतवान् । तत्र तस्मिन् विश्वासम् उत्पादयितुम् "अहम् आजन्म ब्रह्मचर्यम् आचरामि " इति प्रतिज्ञां कृतवान् । अनेन अस्य नाम भीष्म इति अभवत् । शन्तनुसत्यवत्योः दाम्पत्यफलरूपेण द्वौ पुत्रौ अजायेताम् । एकः चित्रवीर्यः अपरः विचित्रवीर्यः । शन्तनोः मरणस्य पश्चात् । सत्यवती पुत्राभ्यां सह भीष्मस्य साहाय्येन राज्यभारम् अकरोत् ।

"https://sa.wikipedia.org/w/index.php?title=शन्तनुः&oldid=296660" इत्यस्माद् प्रतिप्राप्तम्