शबरस्वामिना जैमिनिसूत्रस्य गूढरहस्योन्मीलकं भाष्यं व्यरचि। जैनमतानुसारिभिः कृतादुपसर्गादात्मानं रिरक्षिषुरसौ शबरवसतौ शबरवेषं स्वीकृत्य न्युवासेत्याख्यायिका[१] श्रूयते। अपराख्यायिकया‘[२] तु विक्रमादित्यनृपतिपितायमिति ज्ञायते।

देशःसम्पाद्यताम्

अयम् उत्तरभारतीयः काश्मीरस्थः अथवा तक्षशिलास्थः आसीदिति गङ्गानाथझामहाभागः अभिप्रैति[३]। गंगासागररायमहोदयस्तु श्लोकवार्तिकप्रास्ताविके दाक्षिणात्योऽयमिति ब्रवीति− ‘ऐतिह्यविदां बहुलः समाज इमं विद्वद्धौरेयं दाक्षिणात्यमेवाभिमन्यते− इति वयमपि तथैव स्वीकुर्मः’[४] इति।

कालःसम्पाद्यताम्

शबरभाष्ये पाणिनिकात्यायनौ स्मृताविति पूर्वमेवोपदर्शितम्। तयोरनन्तरकालीनोऽयमिति सिद्ध्यति। पतञ्जलेरुल्लखो यद्यपि शबरेण न कृतं तथापि पतञ्जलेरर्वाचीनोऽयमिति प्रतिभाति। यतोहि महाभाष्यस्य वचनानां साक्षादनुवादः तत्र तत्र शबरभाष्ये उपलभ्यते। [५] चतुर्थशतकोत्पन्नोऽयमिति केचन विद्वांसो वदन्ति। द्वितीयशतकोत्पन्नोऽयमिति गजाननशास्त्री।

कृतिःसम्पाद्यताम्

महाभागेनानेन जैमिनिसूत्रस्य सुविस्तृतं भाष्यं विरचितम्। भाष्यमिदं महाभाष्यवत् सरलं, सरसं, संवादात्मकञ्च। अस्मादेव भाष्यात् प्राचीनानां वृत्तिकाराणामुपवर्षादीनां भाष्यकाराणाञ्च अस्तित्वमनुमीयते, भाष्ये तत्र तत्र ‘अन्यैरुक्तम्’, ‘अपर आह’ इत्यादिवचनलाभात्। ‘सत्याषाढश्रौतसूत्रम्’ इत्यस्य भाष्यं शबरो विरचयामास इति दत्तकमीमांसानुयायिनः। दीप्तस्वामिनः पुत्रःशबरस्वामी ‘लिङ्गानुशासनम्’ इत्यस्य ‘सर्वार्थलक्षणी’ इत्याख्यां टीकां व्यररचत् इत्यपि श्रूयते। परन्तु एते टीकाकारा मीमांसाभाष्यकाराच्छबरादभिन्नाः इत्यत्र प्रमाणं नास्ति।

उद्धरणम्सम्पाद्यताम्

  1. “...His the name being Ādityadeva, while he adopted true soubriquet Śabara, when he disguised himself as a forestor to avoid Jain persecution” − Keith A. B., Karma Mīmāṃsā, p. 9.
  2. ‘ब्राह्मण्यामभवद्वराहमिहिरो ज्योतिर्विदामग्रणीः राजा भर्तृहरिश्च विक्रमनृपः क्षत्रात्मजायामभूत्। वैश्यायां हरिश्चन्द्रवैद्यतिलको जातश्च शङ्कुः कृती शूद्रायाममरः षडेव शबरस्वामिद्वजस्यात्मजाः॥’ (परम्परया श्रूयमाणोऽयं श्लोकः)
  3. डॉक्टर रघुनाथ गिरि, “शबर”, भारतकोश, Last modified- 22 September, 2015, http://www.bharatdiscovery.org/india/शबर.
  4. श्लोकवार्तिकम् (प्रास्ताविकम्), पृष्ठम्- ९।
  5. “The form of his name and his relation to the Vṛttikāra suggest that 400 A. D.is the earliest date to which he can be assigned” −Ibid-page 9.

सम्बद्धाः लेखाःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=शबरस्वामी&oldid=395910" इत्यस्माद् प्रतिप्राप्तम्