महाकवि लक्ष्मीप्रसाद देवकोटा महाभागेन २००२ तमे वैक्रमाब्दे त्रयमासावधौ एव रचितस्य शाकुन्तलमहाकाव्यस्य नेपाली साहित्ये महत्त्वपूर्णस्थानं वर्तते । पञ्चविंशति सर्गात्मकं इदं महाकाव्यं महाकवेः लक्ष्मीप्रसादस्य प्रथममहाकाव्यम् । पाैराणिक कथायामाधारितं एतन्माहाकाव्यं श्रृङ्गारकरुणरसे अाप्लाविताेऽस्ति । काव्याेद्देश्यविषये प्रथमसर्गस्य पञ्चमश्लाेके महाकवेः एतत् स्पष्टाेक्तिः दृश्यते -

महाकवि लक्ष्मीप्रसाद देवकोटा
आफैंलाई चिनाउने रस दिने प्राचीन सम्झाउने,
मीठा व्यञ्जन ल्याउने धन हुने संसार ब्यूँझाउने ।
चिन्ता दूर भगाउने समयमै स्वर्णाभ फर्काउने,
ज्ञानीले पनि गाउने प्रिय काथा आनन्द वर्षाउने ।।


आचार्य जगन्नाथः वदति यद्रमणीयार्थप्रतिपादकः शब्दः काव्यम् । महाकवि लक्ष्मीप्रसादः जगन्नाथस्य काव्यपरिभाषामनुसरति स्म ।
नेपाली साहित्याकाशे असङ्ख्याः कवयः वर्तन्ते इति जानीमः । तेषु प्रसिद्धः देवकाेटेत्युपनामधारी महाकवि लक्ष्मीप्रसादोस्ति । रससिद्धस्य अस्य महाकवेः महिमा एतदीय काव्यैः एव ज्ञायते । सः निबन्धकारेष्वपि अग्रणी ।

रचनाकाैशलम् सम्पादयतु

कल्पनाप्राचुर्यं नवनव पदानां निर्माणं रसनैपुण्यं ललितमनाेहरवचनानि इत्यादिभिः अस्य कवेः काव्यानि सर्वजनादरणीयानि इति । अयं नेपाली साहित्यस्य स्वच्छन्दतावादीधारायाः प्रवर्तकः एवं अग्रणी च वर्तते । महाकवि कालिदासकृत अभिज्ञानहाकुन्तलस्य कथानक अस्य कृतेः प्रमुख आधाराेऽस्ति । अत एतस्मिन् महाकाव्ये देवकाेटा महाभागेन विश्वप्रसिद्धमहाकविकालिदासस्यानुसरणङ्कृतमिति विद्वांसः वदन्ति ।

सन्दर्भसूचयः सम्पादयतु

बाह्यसम्पर्कः सम्पादयतु

[१][नष्टसम्पर्कः]शाकुन्तल महाकाव्य

[२][नष्टसम्पर्कः] इ पुस्तकालय

"https://sa.wikipedia.org/w/index.php?title=शाकुन्तलमहाकाव्यम्&oldid=481812" इत्यस्माद् प्रतिप्राप्तम्