शाङ्घै (चीनीय-भाषायाम् : 上海) चीनीयस्य जनवादिनः गणराज्यस्य चतुर्णां प्रत्यक्षप्रशासितनगरपालिकानां मध्ये एकं नगरम् अन्यतमम् अस्ति ।  नगरं याङ्गत्से-नद्याः दक्षिणमुहानेः उपरि स्थितम् अस्ति ।

शाङ्घै-नगरस्य परिदृश्यम्
चीनदेशस्य मानचित्रे शाङ्घै-नगरस्य स्थिति

2021-तमे वर्षे, २५.८९ प्रयुतानां जनानां गणे जनसंख्यया सह शाङ्घै-नगरं चीनदेशे सर्वाधिकजनसंख्यायुक्तं नगरीयं क्षेत्रं [१] तथा तस्मै संगतात् धनपुञ्जात् महत्तरेण देशीयेन उत्पादेन सह पूर्व-एशिया-महाद्वीपे एकमेव नगरम् अस्ति । मानवविकाससूचकाङ्कस्य दृष्ट्या प्रशासनिक-एककेषु शाङ्घै-नगरं द्वितीयं स्थानं प्राप्नोति । २०१८-तमे वर्षे महा-शङ्घै-महानगरक्षेत्रे प्रायः ९.१ महापद्मानि रेन्मिन्बि इतीमानि (१.३३ महापद्मानि अमेरिकी-डॉलर् इतीमानि) (नाममात्रस्य) सकलस्य महानगरीय-उत्पादस्य अनुमानं भवति, यत् मेक्सिको-देशम् अतिक्रान्त्वा, यस्य १.२२ महापद्मानि अमेरिकी-डॉलर्-रूप्यकानां मूल्यस्य सकल-देशीय-उत्पादः अस्ति, यत् विश्वस्य १५-तमः बृहत्तमः आकारः अस्ति । सः अपि महापोताश्रयात्मकस्य महानगरस्य तथा विश्वे बृहत्तमस्य पोताश्रयात्मकस्य नगरस्य रूपेण वर्गीकृतम् अस्ति ।  तद् नगरं व्यवसायस्य च अर्थशास्त्रस्य च वैज्ञानिकानुसंधानस्य च विनयस्य च विज्ञानस्य च उद्योगकलायाः च उत्पादनस्य च पर्यटनस्य च संस्कृतेः च पाकशास्त्रस्य च कलेः च वस्त्र-चलनस्य च क्रीडायाः च परिवहनस्य च मुख्येषु विश्वव्यापिषु केन्द्रेषु अन्यतमम् अस्ति [२]। 2019-तमे वर्षे शाङ्घै-फुतुङ्ग् (Shanghai Pudong) इतीदम् अन्तर्राष्ट्रीयं विमानपत्तनं यात्रिणां गतेः दृष्टया जगति दश व्यस्ततमेषु विमानपत्तनेषु अन्यतमं तथा शाङ्घै-नगरस्य महानगरीयाय क्षेत्राय सेवां कुर्वतोः अन्तर्राष्ट्रीययोः विमानाश्रययोः अन्यतमम् आसीत् तथा शाङ्घै हुङ्गछ्यौ (Shanghai Hongqiao) इति विमानाश्रयः तस्य दृष्ट्या द्वितीयः आसीत् ।

टिप्पण्यः सम्पादयतु

  1. "Major Agglomerations of the World - Population Statistics and Maps". www.citypopulation.de. 2022-तमे वर्षे अगस्त-मसस्य चतुर्दशमे तत् पुनःप्राप्तम्
  2. Roberts, Toby; Williams, Ian; Preston, John (2021). "The Southampton system: A new universal standard approach for port-city classification". Maritime Policy & Management 48 (4): 530–542. doi:10.1080/03088839.2020.1802785.  Unknown parameter |s2cid= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=शाङ्घै&oldid=473293" इत्यस्माद् प्रतिप्राप्तम्