श्यामशास्त्री

(शामशास्त्री इत्यस्मात् पुनर्निर्दिष्टम्)


नाम श्यामाशास्त्री (Shyamashastri) - (डा|| रुद्रपट्टणस्य श्यामाशास्त्री) जननम् : १२ जनवरी १८६८ स्थानम् : रुद्रपट्टणग्रामः, अरकलगोडु उपमण्डलम्, हासनमण्डलम् (तदांनीतनं मैसूरु मण्डलम्) सम्पदिता कृतिः कौटिल्येन(चाणक्य) विरचितम् "अर्थशास्त्रम्"

रुद्रपट्टणस्य श्यामाशास्त्रिणः संस्कृते महापण्डितः आसीत् । अयं महामेधावी आसीत् । १८९१ तमे वर्षे मैसूरुमहाराजेनस्थापिते प्राच्यसंशोधनालये (ओ.आर्. ऐ) अयं निरीक्षकः आसीत् । तस्मिन् समये ’ कौटिलस्य अर्थशास्त्रम् " दृष्टवान् अयं महोदयः । तं तालग्रन्थं परिशीलितावन् । तस्य प्राकाशनः करणीयः इति चिन्तितवान् । तञ्जावूरु अस्य कश्चन विद्वान् एतं ग्रन्थं प्राच्यसंशोधनालयाय दतावान् । अयं ग्रन्थः संस्कृतेन लिखितमासीत्, परन्तु लिपि न देवनागर्याः अपि तु तमिळुलिपिसदृशग्रन्थलिपिः आसीत् । १९०५ तः सततं चत्वारि वर्षाणि अविरतशमेण १९०९ तमे वर्षे एतं ग्रन्थं देवनागरी लिप्यां लोकाय अर्पितवन्तः । एषः ग्रन्थः लोकप्रियः अभवत् ।एषः आङ्ग्लभाषया अनूद्य प्रकाशनीयः इति मतिः अभवत् तस्य । १९१५ तमे वर्षे आङ्ग्लभाषया अनूद्य लोकार्पणमकरोत् ।

काचित् घटना : "नाल्वडिकृष्णराज-ओडेयरः" कदाचित् जर्मनिदेशं गतवान् । तस्मिन् समये जर्मन् विश्वविद्यालयस्य उपकुलपतिं द्र्ष्टुं गतवान् । तदा उपकुलपतिः ’ ओ किम् भवान् श्यामाशास्त्रिणां नगरात् आगतवान् वा " ? इति एतदनन्तरम् मैसूरुनगरं प्रत्यागत्य महाराजः शास्त्रिणं राजभवनम् आकार्य पुरस्कृतवान् ।. "मैसूरप्रदेशे अहमेव राजा, भवान् तु प्रजा, परन्तु मैसूरुप्रदेशात् बहिः भवतः नाम्ना अहम् अभिज्ञातः " इत्युक्त्वा जर्मनिदेशे प्रवृत्तां घटनाम् उक्तवान् ।

लब्धपदव्यः सम्पादयतु

१९१९ तमे वर्षे श्यामाशास्तिर्णे वाषिङ्ग्टन् विश्वविद्यालयः गोरवडाक्टरेट्उपाधिम्(विद्यावारिधि) अदात् । १९२१ तमे वर्षे कोल्कता विश्वविद्यानिलयः अपि डाक्टरेट्-उपाधिम् प्रायच्छत् ।

"https://sa.wikipedia.org/w/index.php?title=श्यामशास्त्री&oldid=369360" इत्यस्माद् प्रतिप्राप्तम्