एषः शिग्रुः भारते वर्धमानः कश्चन शाकविशेषः । मुरुङ्गी इति अस्य नामान्तरम् । अयम् सस्यजन्यः आहारपादार्थः । एषः शिग्रुः भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । स्वस्य पर्णैः, शाखोपशाखषिन्यासैः च सुन्दरी कलाकृतिः इव दृश्यते इति कारणेन शोभाञ्जनः इति अस्य अपरं नामधेयम् । अयं तीक्ष्णगुणोपेतः इति कारणेन अस्य तीक्ष्णगन्धा इत्यपि नामान्तरं विद्यते । अनेकैः औषधिगुणैः युक्तः अयं शाकरूपेण औषधिरुपेण च प्रयुज्यते ।

शिग्रुः
Moringa oleifera flower edit.jpg
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Brassicales
कुलम् Moringaceae
वंशः Moringa
जातिः M. oleifera
द्विपदनाम
Moringa oleifera
Lam.


शिग्रुनिर्मितं क्वथितम्

एषः वृक्षः भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । अयं वृक्षः २० – २५ पादमितः उन्नतः भवति । अयं बहुशीघ्रं वर्धते । अस्य शिग्रुवृक्षस्य शाखाः पर्णानि च अत्यन्तं मृदु भवन्ति । अस्य पर्णानि १ – २ पादमितं दीर्घाणि भवन्ति । तत्र ६ – ९ पत्रकाणि भवन्ति । अस्य पर्णानि दूरे दूरे भवन्ति इत्यस्मात् तस्य वृक्षस्य अधः छाया न भवति । अस्मिन् वृक्षे जनवरितः एप्रिल्-मासाभ्यन्तरे पुष्पाणि भवन्ति । अस्य वृक्षस्य पुष्पाणि नीलवर्णयुक्तश्वेतवर्णीयानि । अस्य फलं ६ – १७ अङ्गुलं यावत् दीर्घं भवति । अस्य फलं, पर्णं, पुष्पं च यथा औषधत्वेन उपयुज्यते तथैव आहारत्वेन अपि उपयुज्यते । अस्य वृक्षस्य संस्कृतेन “शोभाञ्जनः” “मोचकः” इत्यपि नामानि सन्ति । अस्य फलेभ्यः अवलेहः अपि निर्मीयते । कटुरसयुक्तम् अस्य मूलं यूरोप्-देशेषु सर्षपस्य स्थाने उपयुज्यते । अस्य वृक्षस्य पल्लवानि पर्णानि च धेनूनाम् आहारत्वेन अपि उपयुज्यन्ते । अस्य त्वचा वल्कलं निष्कास्य रज्जुः अपि निर्मीयते ।

इतरभाषाभिः अस्य शिग्रुवृक्षस्य नामानिसम्पाद्यताम्

अयं शिग्रुवृक्षः आङ्ग्लभाषया“हार्स् रेडप् ट्रेस्” (Drumstick Tree) इति उच्यते । तस्य सस्यशास्त्रीयं नाम अस्ति Moringa olifera इति । सः हिन्दीभाषया“सहिञ्जर” इति, तेलुगुभाषया“मुनगा” इति, तमिळ्भाषया “मुरुङ्गाय्” इति, मलयाळभाषया“मुरिगा” इति, मराठीभाषया“शेवणा” इति, गुजरातीभाषया“सरगपो” इति, बेङ्गालीभाषया“शिजिना” इति, कन्नडभाषया“नुग्गे मर” इति च उच्यते ।

फलषुष्पकालःसम्पाद्यताम्

फेब्रवरितः –एप्रिलमासपर्यन्तं शिग्रुः पुष्पितः भवति । पुष्पागमनात् पूर्वं पर्णानि सर्वाणि निपतन्ति । पुष्पाणि नीनमिश्रितश्वेतवर्णानि भवन्ति । पुष्पाणि गुच्छरुपेण भवन्ति । अस्य फनं दीर्घं दण्डवत् भवति । अस्य षड् धाराः भवन्ति ।

प्रयोजनानिसम्पाद्यताम्

आहारत्वेन सेवनस्य प्रयोजनानिसम्पाद्यताम्

शिग्रोः फलपुष्पैः व्यञ्जनं क्वथितम् इत्यादिकं निर्मीय सेवनं क्रियते । अयं प्रधानतया कफपित्तयोः नाशकः । अतः जीर्णशक्तिं वर्धयति । अयम् आमाशये रक्तसञ्चारक्रियायाः वेगं वर्धयति । तेन अधिक्येन पाचकस्रावकान् उत्पादयति । अन्त्रस्य बलं वर्धयित्वा मलविसर्जने अपि साहाय्यं करोति । स्वेदग्रन्थीः उत्तेव्य स्वेदं जनयति । श्वासकोषे, श्वासनाले च विद्यमानं कफं बहिः प्रेषयति । एषः मूत्रपिण्डमपि उत्तेजयति । अतः अस्य उपयोगेन मूत्रपरिमाणः वर्धते । शिग्रुपुष्पे स्नायुरोगस्य, मांसपेशीरोगस्य विद्रधेः(Abcess)च शामकगुणः वर्तते ।

अञ्ननवत् नेत्रे प्रयोगेण लाभाःसम्पाद्यताम्

शिग्रो सुवृद्धानां पर्णानां रसः अञ्जनवत् नेत्रे उपयुज्यते चेत् अनेके नेत्ररोगाः निवारिताः भवन्ति । एनं रसं मधुना मिश्रीकृत्य नेत्रे अञ्जनवत् उपयुज्यते चेत् रक्तनेत्रम्, रात्र्यन्धता, नेत्रवेदना इत्यादिः शाम्यतिः । मूर्छितं जागरितं कर्तुं अस्य रसस्य उपयोगं कुर्वन्ति स्म इति उल्लेखः ग्रन्थेषु उपलभ्यते । अतः एव शिग्रोः अक्षीवः, चक्षुष्यः इत्यपि नामानि सन्ति ।

उत्तेजकःसम्पाद्यताम्

स्वस्य तीक्ष्णतागुणेन नरानुत्तेज्य सांवेदनिकनाडिसंस्थाने तत्सम्बद्धेषु अङ्गेषु च शिग्रुः महान्तं प्रभावं करोति । अस्मिन् विद्यमानय अस्फटीकीयरय अंशास्य कार्यक्षमाता स्फटिकीयसन्न्वात् अधिकः । रक्त हृदयगतौ तीव्रता, रक्तनात्मानां सङ्कोचः इत्यादिसमस्यासु आद्रिनिमिन् , एफेड्रिन् इव परिणामकारी वर्तते शिग्रुः । जीर्णाङ्गनां श्वासनालानां च स्वतन्त्रपेशीनां गतौ कुण्ठनं शिग्रुः निवारयति । हृदयोत्तेजकः अयं शिग्रुः रक्त वर्धयति । श्वथुः, हृदयविद्रधिः इत्यादीन् हृद्रोगान् शमयति ।

शिग्रुं निर्यासस्य उपयोगितासम्पाद्यताम्

शिग्रुवृक्षं स्वल्पं व्रणितं कुर्मः चेत् ततः निर्यासः निर्गच्छति ।

•एनं निर्यासं तिलतैलेन मिश्रीकृत्य कर्णे स्थापयन्ति चेत् श्रवणशक्तिः वर्धते
• निर्यासं क्षीरेण मिश्रीकृत्य ललाटे लेपयन्ति चेत् शिरोवेदना त्वरितं उपशाम्यति ।

शिग्रुत्वचः उपयोगितासम्पाद्यताम्

शिग्रो त्वचः कुट्टयित्वा कल्कः सज्जीकरणीयः । अस्य लेपनेन जानुशोथः (Synovites) शाम्यति । प्रतिदिनं ३-४ वारम् अस्य लेपनं करणीयम् । मूलस्य त्वचः तिलतैलेन सह कषायाः निर्मातव्यः । अस्य सेवनेन जलोदर रोगः शाम्यति । कण्ठस्फोटेन यदा ध्वनिहानिः भवति तदा अस्य कषायेन गण्डूषः करणीयः । तेन बहु हितानुभवः भवति । त्वचः कषाये मधुं योजयित्वा पिबति चेत् क्रिमिदोषः परिहृतः भवति ।

शिग्रोः सामान्यः उपयोगःसम्पाद्यताम्

आमवाते, पक्षाधाते च शिग्रोः कषायसेवनं परिणामकारी । अस्मिन् गन्धकस्य अंशः भवति । अतः लेह्यः परिणामकारी भवति । शस्त्रचिकित्सातः पूर्वं अस्य कषायस्य पानेन २५% शीघ्रं शमनं भवति इति संशोधनेन ज्ञातमस्ति । शिघ्रोः पर्णैः सारं निर्मीय सेवनेन हिक्का निवारिता भवति । मूत्रकोषे पाषाणः भवति चेत् शिग्रोः मूलस्य कषायः सेवनीयः । पर्णानि पिष्ट्वा लेपयन्ति चेत् मूलव्याधेः अङ्कुरः नष्टः भवति । प्रधानमूलस्य अहितम् खण्डं धृष्ट्वा लेपयन्ति चेत् दद्रुमण्डलं उपशाम्यति ।

शिग्रोः अहितकरसेवनेन दाहादिपैत्तिकलक्षणानि भवितुम् अर्हन्ति । तदा क्षीरम् अथवा तादृशानि फितशाअकद्वव्यानि सेवनीयानि ।

फलस्य बीजस्य सेवनेन लाभःसम्पाद्यताम्

अस्य फलं मस्तिष्कस्य हितकरं वर्तते । बीजस्य तैलं वातरोगेषु उपयुज्यते । शुकबीजानि घृतेन सह धृष्ट्वा लेपयन्ति चेत् रात्र्यन्धता, दृष्टिमान्द्यं च शाम्यति ।


संक्षिप्तचिकित्सा सूचीसम्पाद्यताम्

अस्य वृक्षस्य मूलस्य त्वचि “मोरिञ्जिन्” नामकः उपयोगयोग्यः अंशः अस्ति । मूले “तेरिगोस्टर्मिन्” नामकः अंशः अस्ति । अस्य शिग्रोः रसः कटुः, तिक्तः च । अयं गुणेषु लघुः, रूक्षः, तीक्ष्णः चापि । विपाके कटुः एव भवति । उष्णवीर्ययुक्तः अयम् । अस्य वृक्षस्य मूलं, त्वक्, बीजं चापि औषधत्वेन उपयुज्यते ।

१. अस्य शिग्रुवृक्षस्य बाह्या त्वक्, पर्णं च निदाहि । शोथं निवारयतः, विदधिपाचिकं चापि ।
२. अस्य बीजात् निर्मितं चूर्णं सस्यशिरोविरेचं करोति ।
३. अयं व्रणशोधं, अर्धितं (मुखस्य अर्धभागस्य पार्श्ववायुरोगः) च परिहरति ।
४. शिग्रोः उपयोगेन अग्निमान्द्यम्, अरुचिः, उदरसम्बद्धाः रोगाः च अपगच्छन्ति ।
५. अयं गुल्मं, कासं, कष्टार्तवं, रजोरोधं, मेदोरोगं च निवारयति ।
६. शिग्रुः शीतज्वरम् अपि परिहरति ।
७. अस्य मूलस्य त्वचः स्वरसः १० – २० मी.ली यावत्, बीजस्य चूर्णं १ – ३ ग्रां यावत् च सेवितुं शक्यते ।
८. अयं शिग्रुः रक्तपित्तेन पीडितानां, पित्तप्रकृतियुक्तानाम्, अहितप्रभावविदाहिनां च न हितकरः ।
९. अनेन शिग्रुणा निर्मितानि “शोभाञ्जनासिलेपः”, “श्यामादिचूर्णम्” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु लभ्यन्ते ।
१०. शिरोभ्रमणं जायते चेत् शिग्रुपर्णं पच्चहरितेन सह पक्त्वा सेवते चेत् शिरोभ्रमणम् अपगच्छति ।
११. कामलारोगेण पीडिताः भोजने अस्य त्वचा, पर्णैः वा निर्मितस्य व्यञ्जनस्य उपयोगं कुर्युः ।
१२. सद्यः प्रसूतानां महिलानां पादस्य अङ्गुष्ठयोः अस्य वृक्षस्य त्वक्, सर्षपं, लशुनं च संयोज्य निर्मितं पिष्टं लेपयित्वा वस्त्रबन्धनं क्रियते चेत् विषं शरीरं न प्रविशति ।
१३. उष्णसम्बद्धेषु रोगेषु अस्य निर्यासः हितकरः ।
१४. सुरक्षिततया प्रसवार्थम् अपि शिग्रुः उत्तमः ।
१५. रात्रौ नेत्रयोः दृष्टिः न्यूना भवति चेत् अस्य मुष्टिद्वयमितं पर्णानि, किञ्चित् प्रमाणेन दालम्, एकं गृञ्जनकं, रागीधान्यं, गुडं च योजयित्वा पक्त्वा सेवनीयम् । एवं १५ दिनानि यावत् निरन्तरं करणीयम् ।
१६. मूलव्याधिना पीडिताः अस्य शिग्रोः मुष्टिमितं पर्णानि अर्कक्षीरेण सह सम्पेष्य मधु योजयित्वा रात्रौ लेपयेयुः । क्रमेण मूलव्याधेः अङ्कुरः नश्यति ।
१७. कर्णस्रावे अस्य पुष्पस्य रसः हितकरः ।
१८. अस्मिन् “विटमिन् ए” नामकः अंशः अत्यधिकः अस्ति । तस्मात् गर्भिण्यः, अशक्ताः च अधिकतया अस्य उपयोगं कुर्युः ।
 
शिग्रुशाखा, पुष्पं, शाख्यायं लम्बमानः शिग्रुः च
 
शुष्काणि शिग्रुबीजानि
 
शिग्रुवृक्षः

"https://sa.wikipedia.org/w/index.php?title=शिग्रुः&oldid=396075" इत्यस्माद् प्रतिप्राप्तम्