शिवमोग्गालोकसभाक्षेत्रम्
शिवमोग्गालोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । १९६२ तमे वर्षे यदा लोकसभाक्षेत्राणां घटनम् अभवत् तदा एतत् अस्तित्वे आगतम्। अत्र अष्टविधानसभाक्षेत्राणि सन्ति । बैन्दूरुविधानसभाक्षेत्रं केवलम् उडुपीमण्डले अन्तर्भवति । अन्यानि विधानसभाक्षेत्राणि शिवमोग्गामण्डले एव अन्तर्भवन्ति ।२००५तमवर्षस्य गणनानुसारम् अत्र १,२८६,१८१ मतदातारः सन्ति । तेषु अनुसूचितजातीयाः अनुसूचितजनाङ्गीयाः च २.२ लक्षमिताः, द्विलक्षमिताः लिङ्गायताः, धीवराः १.८ लक्षमिताः, मुस्लिं जनाः १.६ लक्षमिताः, ब्राह्मणाः,ओक्कलिगाः च सम्भूय १.२५ लक्षमिताः सन्ति ।
विधानसभाक्षेत्राणि
सम्पादयतुशिवमोग्गालोकसभाक्षेत्रे प्रकृतं कर्णाटकस्य विधानसभायाः अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति ।
विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या | नाम | आरक्षितम्(SC/ST/इतरे) | मण्डलम् |
---|---|---|---|
१११ | शिवमोग्गाग्रमान्तरम् | SC | शिवमोग्गामण्डलम् |
११२ | भद्रावती | इतरे | शिवमोग्गामण्डलम् |
११३ | शिवमोग्गा | इतरे | शिवमोग्गामण्डलम् |
११४ | तीर्थहळ्ळी | इतरे | शिवमोग्गामण्डलम् |
११५ | शिकारिपुरम् | इतरे | शिवमोग्गामण्डलम् |
११६ | सोरब | इतरे | शिवमोग्गामण्डलम् |
११७ | सागर | इतरे | शिवमोग्गामण्डलम् |
११८ | बैन्दूरु | इतरे | उडुपीमण्डलम् |