परमशिवमधिकृत्य दशदशकैरुपनिबद्धं स्तोत्रकाव्यं भवति शिवशतकम् । शतकेषु भगवतः महिम्नः वर्णनम् एवं कृतं भवति - प्रथमशतके शिवस्य ताण्डवनृत्तम्, द्वितीये केशादिपादवर्णनम्, तृतीये त्रिपुरदाहनकथा, चतुर्थे दक्षयागकथा, पञ्चमे षष्ठे च सती-पार्वतीपरिणयौ, सप्तमे तात्त्विकदृष्ट्या भगवतः निष्कलावस्थायाः वर्णनम्, अष्टमे शिवकृतं ब्रह्मणः शिरश्छेदः एवं ब्रह्मणः शापः, नवमे भगवतः स्तुतिः, दशमे पादादिकेशवर्णनं च अस्ति । अस्य सम्पादनं १९४७ तमे संवत्सरे केरलसर्वकलाशालातः कृतम् ।

"https://sa.wikipedia.org/w/index.php?title=शिवशतकम्&oldid=363185" इत्यस्माद् प्रतिप्राप्तम्