पञ्चपदी इत्यपरनाम्ना प्रथिता सङ्गीतग्रन्थः भवति शिवागीतिः । मुक्तिस्थले वर्तमानायाः देव्याः शिवायाः स्तुतिपरायं कृतिः । अस्मिन् ग्रन्थे षट् सर्गाः प्रतिसर्गं षट् गीताः च सन्ति । प्रति गीतम् एकेन द्वाभ्यां वा श्लोकाभ्यामारभ्यते । पञ्च ध्रुवपदयुक्ताः एते श्लोकाः पञ्चपद्यः इत्युच्यन्ते । आहत्य षट्त्रिंशत् पञ्चपद्यः अस्मिन् ग्रन्थे अन्तर्भवन्ति । अस्य प्रकाशनं डो. के. टी. माधवन् महाशयेन १९९२ तमे संवत्सरे कृतम् ।

"https://sa.wikipedia.org/w/index.php?title=शिवागीतिः&oldid=389092" इत्यस्माद् प्रतिप्राप्तम्