शून्यमुद्रा
शून्यमुद्रा | |
---|---|
शून्यमुद्रा, योगस्य एकः उत्तम मुद्र। |
योगासनः | |
---|---|
योगासने एकः भिन्नः |
योगः | |
---|---|
एकः मुद्रा |
योगासन्ः | |
---|---|
योगासने एकः भिन्नः |
करणविधानम्
सम्पादयतुशून्यमुद्रा सपदि एव परिणामं ददाति । मध्यमायाः अग्रभागम् अङ्गुष्ठस्य मूले नीत्वा अङ्गुष्ठं मध्यमायाः पृष्टभागे स्थापनीयम् । अन्याः अङ्गुल्यः सरलाः स्थापनीयाः ।
परिणामः
सम्पादयतुमध्यमा आकाशतत्वं निर्दिशति । यदा आकाशतत्वं अधिकं भवति तदा कर्णसम्बन्धिसमस्यापि उद्भवति । शिरसि ठक् ठक् इति मुद्गरेण प्रहारः भवति इति भासते । तदा शून्यमुद्रया आकाशतत्वं न्यूनीकृत्वा शिरसम्बन्धिदोषाः दूरीकर्तुं शक्यन्ते ।
उपयोगः
सम्पादयतुकर्णवेदना, बधिरतायाः च समस्यायै दिने ५० निमेषपर्यतं शून्यमुद्रां कृत्वा अनन्तरं १५ निमेषपर्यतं प्राणमुद्रा करणीया । कर्णवेदना, कर्णे शब्दः अपि शमितो भवति । यदा कर्णप्रवहणं भवति तदा कर्णस्य शस्त्रचिकित्सा असाध्या इति वैद्याः वदन्ति । तदा शून्यमुद्रया कर्णसमस्यां दूरीकृता भवति । शिर्रोभ्रमणसमस्यायां अपि शून्यमुद्रा रामबाणः इव परिणामं करोति । कदाचित् शिशोः वाक्दोषः भवति । तदा शून्यमुद्रा, प्राणमुद्रायाश्च करणेन ते वाक्पटवः भवितुं अर्हन्ति । अश्रवणेन एव शिशोः वाणी न आगता । किन्तु शून्यमुद्रायाः करणेन कर्णः समीचीनो भूत्वा भाषाश्रवणात् शिशुः वाक्पटुः अभवत् इति अभिप्रायः । शिरसि ठक्-ठक् इति मुद्गरेण प्रहारः भवति इति यदा भासते तदा शून्यमुद्रायाः साकं वायुमुद्रापि ५० निमेषपर्यतं, अनन्तरं १५ निमेषपर्यतं प्राणमुद्रा क्रियते चेत् शिरः पूर्ववत् शान्तः भवति । भयंकरशिरोवेदना, कर्णवेदना, चलनसमये अस्थिरता, कम्पनं, दन्तवेदना, कण्ठवेदना, पृष्टभागवेदना, पार्ष्णिवेदना, सन्धिवेदनाश्च शून्यमुद्रा तथा वायुमुद्रा करणेन वेदनाः शमिताः भवन्ति । तदनन्तरं प्राणमुद्रा अपि करणीया ।