शृङ्गेरीशारदापीठम्
शृङ्गेरी शारदापीठः अष्टमशताब्द्याम् अद्वैतवेदान्तस्य प्रतिपादकेन शङ्कराचार्येन स्थापितेषु चतुर्षु प्रमुखेषु मठेषु प्रथमः मठः अस्ति । दक्षिणम्नायपीठम् इति उच्यते । शृङ्गेरीमठः यजुर्वेदस्य उत्तरदायित्वं वहति। नवरात्रस्य अवसरे चण्डिकाहवनं, रथोत्सवः, कुङ्कुमार्चनं, स्वर्णरथसेवा इत्यादयः सेवाः देव्याः शारदायाः कृते भवन्ति।
आचार्य: श्री भारती थीर्थ | ||
---|---|---|
स्थानम् | शृङ्गेरी | |
संस्थापक | आदि शंकराचार्य | |
प्रथमाचार्यः | मण्डनमिश्रः | |
संस्तापनम् | ८२० ई ई.पू | |
जालपुतम् | http://www.sringeri.net/ |
ऐतिह्यम्
सम्पादयतुएषा कथा कारणम् अस्ति यत् आदिशङ्कराचार्यः मातरं शारदां स्थापयित्वा शृङ्गगिरौ मठस्य स्थापनां कृतवान् । एकदा शङ्कराचार्यः तुङ्गतीरे आगतः । तदा प्रबलः आतपः आसीत् । तस्मिन् सन्दर्भे सर्पः फणाः उद्घाट्य मण्डूकं रक्षति स्म । अस्मिन् स्थाने अपूर्वशक्तिः अस्ति यत्र शत्रवः अपि मित्राणि भूत्वा सहकार्यं कुर्वन्ति इति अवगत्य आचार्यैः एतत् क्षेत्रं तीर्थक्षेत्रम् इति कथितम् |
पीठाधिपतयः
सम्पादयतुआदिशङ्कराचार्यात् अद्यपर्यन्तम् आहत्य ३६ यथिवरेण्याः श्रीमठस्य पीठाधिपतयः अभवन् । (वर्तमाने श्री श्री भारतीतीर्थः ३६ पीठाधिपतिः)पीठारोहणस्य रजतमहोत्सवम् आचरन् शृङ्गेरी जगद्गुरवः ४-१-२०१५ दिनाङ्के शिष्यं स्वीकृत्य कुप्पूरु वेंकटेश्वरप्रसाद शर्मा इत्याख्यम् उत्तराधिकारी रूपेण ३७ तम पीठाधिपतिः इति घोषणां कृतवन्तः ।
शिष्यस्वीकारस्य प्रारम्भिकाः क्रियाः
सम्पादयतु22-1-2015 दिनाङ्के गुरुवासरे दक्षिणाम्नायशारदा पीठाधिपतिः शंकराचार्य भारतीतीर्थ शृङ्गेरीनगरे शिष्यस्वीकारकार्यक्रमः गुरुवासरे अभवत्।
पीठस्य उत्तराधिकारी भवितव्यः ब्रह्मचारी कुप्पा वेङ्कटेश्वरप्रसाद शर्मा प्रातः ८ वादने नरसिंहवने भारतीतीर्थ स्वामिनां कृते गुरुवन्दनां समर्पितवन्तः। ततः शारदाम्बा मन्दिरं प्रविष्टवान्। शक्ति गणपति देवालये आयोजिते महागणपति्होमे पूर्णहुतौ भागं ग्रहीत्वा शारदाम्बायाः दर्शनं कृतम् ।
पश्चात् पीठस्य मुख्यकार्यनिर्वहणाधिकारिणः अपि च अधिकारी-प्रशासकः वी.आर.गौरीशंकरः इत्यादयः ज्येष्ठा:भक्तजनैः साकं देवालयस्य पूर्वस्वामिनां वृन्दावनस्य च दर्शनं कृतवन्तः । पश्चात् कृच्छ्राचरण विधिं अकरोत् । सः वस्त्रं, हिरण्यं, धान्यम् इत्यादीन् दानं कृतवान्।
देवऋण- ऋषिऋण- पितृऋणैः च मुक्तौ सः अष्टश्राद्धं कृतवान् । अस्य संस्कारस्य निमित्तम् १८ वैदिकानां कृते दानं दत्त्वा आशीर्वादं प्राप्तवान् । गुरुवासरे रात्रौ पूर्णोपवासः अभवत्, जप-पाठैः च जागरणं कृतम् ।
शुक्रवासरे प्रातःकाले पुरुषसूक्तहोमं विराजहोमं च करिष्यमाणाः शर्माणः तुङ्गातटे भारतीतीर्थमहास्वामिभिः संन्यासदीक्षां प्राप्स्यन्ति। अस्य समारोहस्य दर्शनार्थम् विभिन्नेभ्यः भागेभ्यः सहस्राणि भक्ताः शृङ्गेरी-नगरम् आगताः सन्ति । कार्यक्रमे लोकायुक्त- न्यायाधीशः भास्कर राव, मद्रास उच्च न्यायालय न्यायाधीश रामनाथन् आदि गण्याः उपस्ठिताः आसन्।(प्रजावाणी वार्ता-शुक्र,23/01/2015)
शिष्यस्वीकारः
सम्पादयतु- दक्षिणाम्नाय शारदापीठस्य उत्तराधिकारिरूपेण नियुक्तः कुप्पा वेङ्कटेश्वरप्रसादशर्मा शुक्रवासरे दीक्षां प्राप्य जगद्गुरुभारतीथीर्थाः 'विधुशेखरभारती' इति योगपदवीं प्रदत्तवन्तः । देश विदेशात् शृङ्गेरीं आगतानां सहस्राणां भक्तानां सान्निध्ये नरसिंहवनस्य अधिष्ठानमन्दिरे प्रातः ७ वादने पुरुषसूक्तहोमः, विरजाहोमः च आयोजितः। अथ वेङ्कटेश्वरप्रसादशर्मा तुङ्गानद्या: सन्ध्यामण्डपसमीपे नदीजले स्थित्वा शिखां यज्ञोपवीतं श्वेतवस्त्रं च त्यक्तवान्। जगद्गुरु भारतीतीर्थाः शिष्याय कशाय वस्त्रं, दण्डं, कमण्डलं च दत्त्वा आशीर्वादं दत्तवन्तः। श्रीचरणौ काशायवस्त्रधारिणौ भूत्वा चन्द्रशेखरभारती, सच्चिदानन्द शिवानुभव नृसिंह भारती, अभिनव विद्यातीर्थानान्च अधिष्ठानं प्रति अगच्छताम्। तत्र जगद्गुरुभारतीतीर्थः शिष्याय प्रणवोपदेशं महाव्यक्योपदेशं च दत्तवन्तः। पश्चात् वेङ्कटेश्वरप्रसादशर्मा तुङ्गनदीं तिर्त्वा पर्यन्क शौचकार्यं अभवत् । जगद्गुरुः शिष्यं शारदम्बामन्दिरे व्याख्यानसिम्हासने उपविश्य सलिग्रामं शिरसि स्थापयित्वा पूजां कृतवान् । श्रीशङ्कराचार्येन (भारती, सरस्वती, आश्रम, गिरी, तीर्थ, अरण्य, पर्वत, सागर, पुरी, वन) द्वारा दत्तेषु दशनामेषु एकं नामं चित्वा तेषां पूर्वगुरुणां चन्द्रशेखर भारति च नाम अभिनव विद्यातीर्थं च दत्तम् सः 'विधुशेखरा भारती' इति उपाधिं दत्तवान् । नूतन स्वामिः व्याखान सिम्हासने जगद्गुरुभारतीथीर्थं पूजयित्वा पादपूजां च अर्पितवन्तः। पश्चात् आयोजिते महासभायां एड्तोरे, शिवगंगा, अनेगुण्डी, हेब्बूर तथा धर्मपुरी मठाधीशाः, केन्द्रीय मंत्री अनंतकुमार, सीमांध्र विधानसभा अध्यक्ष ओडला शिवप्रसाद, राज्य कानूनु मंत्री टी.बी.जयचन्द्र, जिल्ला प्रभारी मंत्री के.अभयचन्द्र जैन, सांसद बी. येडियूरप्पा, शोभा करंडलाजे, विधायक डी.एन. जीवनराज, विजयकुमार.
- यः बीसीसीआई अध्यक्षपदात् निलम्बितः अस्ति। श्रीनिवासन, टाफ़े संस्था प्रमुखः मल्लिका श्रीनिवासन, सिम्पसन संस्था प्रमुख ए. कृष्णमूर्ति, संगसुई संस्था प्रमुख रामा सुब्रह्मण्य राजा, मद्रास उच्च न्यायालयस्य न्यायाधीश रामनाथन, अमेरिकी निवासी भारतीय व्यापारी यज्ञ सुब्रह्मण्यम, मठस्य प्रशासक वि.आर. गौरीशङ्करः तत्र आसीत् । सभा कार्यक्रमस्य अनन्तरं रात्रौ ९ वादनतः भारती वीथ्यां स्वर्ण-रजत-पल्लक्कि-महोत्सवः आयोजितः ।(प्रजावाणी-२४-१-२०१५)
अविच्छिन्ना गुरुशिष्यपरम्परा
सम्पादयतुगुरुपरम्परायां दैवत्वस्य समूहः
सम्पादयतु- सदाशिवः
- नारायणः
- ब्रह्मा
- वशिष्ठ महर्षि
- शक्ति महर्षि
- पराशर महर्षि
- वेद व्यासः
- शुक्लाचार्य महोदय
- श्री गौडपाद आचार्य
- श्री गोविन्द भागवतपद
- श्री शंकर भागवतपद (788-820)