·       श्रव्यकाव्यम्

यानि  काव्यानि कर्णाभ्यां  श्रूयन्ते  तानि श्रव्यकाव्यानि  इति  उच्यन्ते । प्राचीनकाले  काव्यम् अधिकतया  श्रूयन्ते  स्म । केवलं गानद्वारा  एव  तेषां प्रचारः  भवति  स्म । पुस्तकरूपेण  पठनं तु  न्यूनम्  आसीत् । अतः यत्  काव्यं  श्रवणतन्त्रद्वारा  हृदयं रञ्जयति  इति  श्रव्यकाव्यम् । श्रव्यकव्यानि  अद्यकाले अधिकतया  पठ्यन्ते । तथापि  परम्परानुसारं ते  पाठकाव्यं  न उच्यन्ते  किन्तु  श्रव्यकाव्यमित्येव  उच्यन्ते । श्रव्यकाव्यस्य द्वौ भेदौ भवतः मुक्तककाव्यं प्रबन्धकाव्यमिति । मुक्तकस्य पाठ्यं गेयं चेति भेदौ भवतः प्रबन्धस्य तु महाकाव्यं खण्डकाव्यं गीतिकाव्यमिति त्रयः भेदाः भवन्ति ।

"https://sa.wikipedia.org/w/index.php?title=श्रव्यकाव्यम्&oldid=485750" इत्यस्माद् प्रतिप्राप्तम्