श्रीकृष्णमिश्रः
प्रबोधचन्द्रोदयप्रस्तावनायां कीर्त्तिवर्मणः उल्लेखो दृश्यते, कीर्त्तिवर्मणः समयश्च १०४९ तमख्रीष्टाब्दतः ११०० तमख्रीष्टाद्बपर्यन्तमिति पुरातत्त्वविदो वदन्ति । अनेनैव कीर्त्तिवर्मणा १०६५ ख्रीष्टाब्दसमीपे कर्णवर्मा जितः । अस्य कर्णवर्मविजयस्योल्लेखोऽपि प्रवोधचन्द्रोदयप्रस्तावनायां विद्यते । अतः प्रबोधचन्द्रोदय- प्रणेतुः श्रीकृष्णमिश्रस्य जीवनकाल एकादशशतकस्योत्तरार्धभागोऽवधारयितुं शक्यते । अयं बङ्गदेशोद्भव इति वस्तुवृत्तविदः ।
श्रीकृष्णमिश्रस्यैकमेव प्रबोधचन्द्रोदयाभिधानं रुपकं प्राप्यते । इदं रुपकं प्रतीकेषु प्रथमत्वेन सरसरचनाशालित्वेन च प्रसिध्दम् । अमूर्त्ता भावा धर्मादयोऽत्र मूर्त्तप्राणिरुपतया कल्पिताः । इदमेव चास्य प्रतीकरुपकत्वम् । अस्यैव सरसस्य सरलस्य च ग्रन्थरत्नस्यानुकरणे तैस्तैः कविपण्डितैः चैतन्यचन्द्रोदयविद्यापरिणयामृतोदयादीनि प्रतीकरुपकाणि विरचितानीति संस्कृते प्रतीकरुपकप्रणयनपथि प्रदर्शकोऽयं मन्यते । अत्र प्रबोधचन्द्रोदये स्वशिष्यान्यतमस्य कस्यचन मन्दमतेः शिक्षायै श्रीकृष्णामिश्रोऽमूर्तान् धर्मादिभावेन परिकल्प्य सरसया शैल्या अद्वैतमतप्राधान्यं प्रदर्शितवान्