श्रीलङ्कामाता
श्रीलङ्कामाता (सिंहली: ශ්රී ලංකා ජාතික ගීය, तमिल: சிறீ லங்கா தாயே), श्रीलङ्कादेशस्य राष्ट्रगानम् अस्ति । एतस्य राष्टगानस्य लेखनं, सङ्गीतरचना च आनन्द समाराकून इत्याख्येन १९४० तमे वर्षे कृता । १९१५ तमे वर्षे आधिकारिकरूपेण श्रीलङ्कादेशस्य राष्ट्रगानत्वेन तद् अङ्गीकृतम् ।
संस्कृत: श्रीलङ्कामाता | |
---|---|
राष्ट्रः यस्य राष्ट्रगानम् अस्ति | भारतम् |
शब्दाः | आनन्द समाराकून, १९४० |
सङ्गीतम् | आनन्द समाराकून, १९४० |
अङ्गीकृतम् | १९५१ |
इतिहासः
सम्पादयतु१९४० तमे वर्षे आनन्द समाराकून इत्यनेन सिंहलभाषायां नमो नमो माता नामकं गीतं रचितम् । १९५१ तमस्य वर्षस्य नवम्बर-मासस्य द्वादशे दिनाङ्के सर एड्विन विजेयेरत्ने इत्यस्य अध्यक्षतायां काचित् समितिः एतत् गीतम् आधिकारिकतया श्रीलङ्कायाः राष्ट्रगानत्वेन अङ्गीकर्तुं निर्णयम् अकरोत् । एतस्य राष्ट्रगानस्य तमिलभाषायाम् अपि अनुवादः अभवत् । तदनुवादं एम. नल्लाथम्बी इत्येषः अकरोत् [१] ।
मूलगीतस्य प्रथमायाः पङ्क्त्याः "नमो नमो माता, अपा श्रीलङ्का" इत्येभ्यः शब्देभ्यः १९५० तमे वर्षे विवादः अभवत् । अतः विवादं शमयितुं १९६१ तमे वर्षे समाराकूल इत्यस्य सहमतिं विना [१] शब्देषु परिर्तनं कृत्वा श्रीलङ्कामाता, अपा श्रीलङ्का इति अभवत् (वर्तमानस्वरूपम् एतत्)।
एतेन परिवर्तनेन व्यथितः समाराकून इत्येषः ११९६२ तमे वर्षे आत्महत्याम् अकरोत् ।
१९७८ तमे वर्षे श्रीलङ्कामाता-गीतं संवैधानिकरीत्या राष्ट्रगानत्वेन मान्यम् अभवत् [२] ।
तमिलसंस्करणे विवादः
सम्पादयतुश्रीलङ्कादेशस्य 'द संडे टाइम्स' इत्याख्ये समाचारपत्रे २०१० तमस्य वर्षस्य दिसम्बर-मासस्य द्वादशे दिनाङ्के तमिलसंस्करणस्योपरि लेखः प्रकटः अभवत् । तस्मिन् लिखितम् आसीत् यत्, श्रीलङ्कादेशस्य मन्त्रिमण्डलं यस्य अध्यक्षः श्रीलङ्कादेशस्य राष्ट्रपतिः महिन्दा राजपक्षे आसीत्, तेन श्रीलङ्कादेशस्य राष्ट्रगानस्य तमिल-अनुवादस्य आधिकारिकमान्यता निरस्तीकृता । एवं राष्ट्रिये उत प्रान्तीये समारोहे एतस्य गीतस्य गानं न भवति । तस्य कारणं सम्मुखम् आगतं यत्, सम्पूर्णे विश्वे नैकस्यापि देशस्य राष्ट्रगानम् अपरभाषायाम् अस्ति । एकस्य राष्टगानस्य भाषाद्वयम् अनुचितम् इति कारणत्वात् एतस्य गीतस्य निरसनम् अभवत् [३] इति ।
परन्तु ततः श्रीलङ्कादेशस्य सर्वकारेण एतादृशं किमपि नाभवत् इत्युक्तवा समाचारपत्रीयलेखस्य खण्डनम् अपि कृतम् आसीत् [४][५] ।
श्रीलङ्कामाता
सम्पादयतुमूलगीतं सिंहलभाषायम् | देवनागरीलिप्यां सिंहलशब्दाः | राष्ट्रगीतस्य तमिलानुवादः | |
---|---|---|---|
|
|
|
उद्धरणम्
सम्पादयतु- ↑ १.० १.१ D. B. S. Jeyaraj. "The language controversy over Sri Lankan National Anthem". dbsjeyaraj.com. Archived from the original on 2010-12-20. आह्रियत 17 दिसम्बर 2010.
- ↑ "THE CONSTITUTION OF THE DEMOCRATIC SOCIALIST REPUBLIC OF SRI LANKA - Section 7 The National Anthem". LawNet, Government of Sri Lanka. Archived from the original on 2011-07-16. आह्रियत 2015-11-30.
- ↑ http://sundaytimes.lk/101212/News/nws_01.html
- ↑ http://www.bbc.co.uk/news/world-south-asia-11980434
- ↑ http://www.thehindu.com/news/international/article950506.ece