श्लोकसङ्ग्रहः
बृहत्कथाश्लोकसंग्रहापराभिधानः श्लोकसंग्रहनामायं ग्रन्थो बुध्दस्वामिना कृतः । अस्यैकमेव खण्डं नेपालप्रान्ते प्राप्तं यत्र हस्तलिखिते ग्रन्थे २८ सर्गाः ४५३९ मिताः श्लोकाश्च सन्ति ।
अस्य ग्रन्थस्य हस्तलिखिताः प्रतयो नेपालप्रान्ते प्राप्ताः । अनेन बृहत्कथाया नेपालप्रान्तीयं रुपान्तरमिदमिति प्रतिभाति । अस्य कर्त्तुर्बुध्दस्वामिनः नेपालेन सह सम्बन्धस्तु नावधारयितुं शक्यते सम्भवति बृहत्कथाया मूलं पुस्तकं दृष्ट्वा श्लोकसंग्रहो निर्मितः स्यात् ।
अत्र नरवाहनदत्तस्य शृङ्गारमवपराक्रमकार्याणि वर्णितानि । अत्र श्लोकसंग्रहे अविद्यमाना अपि कथाः पञ्चतन्त्रकथा वेतालपञ्चविंशतिकथाप्रभृतयः काश्मीरेषु निर्मितयोः बृहत्कथामञ्जरी- कथासरित्सागारयोरुपलभ्यते, तत्र किङ्कारणमिति प्रश्ने तत्क्षेपकसहितमेव श्लोकसंग्रहपुस्तकं क्षेमेन्द्र सोमदत्ताभ्यामधिगतं स्यादित्येकामुत्तरम्,द्वितीयच्चेदमृत्तरं यत् क्षेमेन्द्रसोमदत्तौ ज्ञात्वैव कथान्तरं समावेशिवन्तौ । यावत् श्लोकसंग्रहस्य सर्वथा परिशीलनं न क्रियते तावद् बृहत्कथामञ्जर्याः कतिचन सन्दर्भा न स्फुटीभवति । एतेन बृहत्काथामञ्जर्याः श्लोकसंग्रहस्ंक्षेपरुपता सिध्दां भवति । विदुषां सम्मतौ श्लोकसंग्रहस्य निर्माणकालोऽष्टमं नवमं वा शतकम् । श्लोकसंग्रहस्य शैली सरला स्वच्छा च । शैलीगुणेनैव ग्रन्थोऽयं लोकप्रियत्वं प्राप्तवान् ।
अत्र चित्रितानि पात्राणि स्फुटचरित्रतया प्रसिध्दानि । ग्रन्थस्यावलोकनात प्रतीयते यद् लेखको भ्रान्त्वा प्रत्यक्षीकृत्य जनपदान् तद्बासिनश्चावर्णयत् । अत्र प्राकृतभाषाप्रयोगेण विलक्ष्णैव कापि भाषा प्रतिभासते । व्याकरणशास्रप्रियता चास्य ग्रन्थे द्र्ष्टुं योग्या ।