षड्गुरुशिष्यः ऐतरेयब्राह्मणस्य भाष्यम् अरचयत्। अस्य विदुषः टीकानां सङ्ख्या नातिलघीयसी। ऐतरेयब्राह्मणस्य ऐतरेयारण्यकस्य, आश्वलायनश्रौतसूत्रस्य, आश्वलायनगृह्यसूत्रस्य च व्याख्या कृताऽनेन विदुषा। सर्वानुक्रमणीषु उपरि व्याख्याऽपि लिखिताऽनेनेति। वेदार्थदीपिकाख्या कात्यायनस्य सर्वानुक्रमण्याः व्याख्याऽस्य विदुषः सरसरचनाशालित्वेन नितान्तप्रख्याता, आक्सफोर्ड-विश्वविद्यालयद्वारा सुसम्पादिता प्रकाशिता चाऽस्तिष। ग्रन्थकारेण स्वयम् अस्याः टीकायाः रचनाकालः १२३४ सं. तथा तदनुसारेण ख्रीष्टस्य ११७७ ई० लिखितः । अतोऽस्य समयः ख्रीष्टीयद्वादशशतकस्य पूर्वार्द्धम् एवाऽस्ति, इति निश्चयेन वक्तुं शक्यते।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=षड्गुरुशिष्यः&oldid=441057" इत्यस्माद् प्रतिप्राप्तम्