प्रमुखा विकल्पसूचिः उद्घाट्यताम्

शोधलक्षणम्सम्पाद्यताम्

१ नूतनतथ्यानां नूतनसिद्धान्तानां वा उद्धाटनाय अनुष्ठितः बुद्धिपूर्वकः प्रयासः।-आचार्य हजारीप्रसाद द्विवेदी
२ नवीनज्ञानप्राप्त्यर्थं कृतः व्यवस्थितः प्रयत्नः शोधः।-रैडमन, मोरी
३ अवलोकितसामग्र्याः वर्गीकरण-साधारणीकरण-द्वारा सत्यान्वेषणार्थम् आचरिता व्यवस्थिता पद्धतिः।-लुण्डबर्ग
सर्वेषु एतेषु लक्षणेषु ज्ञानप्राप्तिमुद्दिश्य प्रामाणिकः व्यापारः इति लक्षणांशः न व्यभिचरति।ज्ञानप्राप्तिः इति शोधस्य फलम्।तदर्थं कृतः प्रामाणिकः व्यापारः साधनम्।अस्य साधनस्य एव संज्ञा शोधः इति। प्रामाणिकः इति प्रमाणानां साहाय्येन कृतः, प्रमाणैः निर्वृतः इति।

शोधप्रयोजनानिसम्पाद्यताम्

ज्ञानवृद्धिःसम्पाद्यताम्

शोधस्य उपर्युक्तलक्षणे एव शोधस्य मुख्यं प्रयोजनमुक्तं- ज्ञानवृद्धिः इति। अत्रापि नैके सूक्ष्मभेदाः सन्ति।

अ) अज्ञातार्थज्ञानम् ये विषयाः अज्ञाताः तेषां ज्ञानं शोधेन भवति। यथा ‘महाभारते साधनचतुष्टयस्य विवेचनम्’ महाभारते विद्यमानमपि साधनचतुष्टयस्य विवरणं साधनचतुष्टयरूपेण अज्ञातम्। तस्य ज्ञानाय कृतेन प्रामाणिकप्रयत्नेन अज्ञातार्थस्य ज्ञानं जायते। प्रयोजनम् इदं कर्तृगामि अपि, समाजगामि अपि। अज्ञातार्थस्य ज्ञानम् इति लाभः स्वयं शोधकर्तुः भवति एव, समाजस्य अपि भवति।
आ) सन्दिग्धार्थनिर्णयः येषु विषयेषु सन्देहः वर्तते तेषु विषयेषु शोधव्यापारेण निर्णयः भवति। यथा शाङ्करं दर्शनम् अद्वैतपरम्। तत्र भक्तेः स्थानम् अस्ति न वा इति संशये सति शोधः आरभ्यते- ‘शाङ्करदर्शने भक्तिविचारः’ इति। अनेन शोधेन संशयस्य निर्णयः भवति। अयं निर्णयः अपि शोधकर्तुः उपकारकः, समाजस्य च उपकारकः।

समस्यानां समाधानम्सम्पाद्यताम्

अज्ञातार्थस्य ज्ञानेन , सन्दिग्धार्थस्य निर्णयेन बहुविधसमस्यानां निराकरणं भवति।यथा वेदान्तमतानुयायिनः साधनचतुष्टयस्य सम्पादनम् इच्छन्ति परं तदुपायानां न जानन्ति।‘योगवासिष्ठे वैराग्यलाभाय उपदिष्टाः उपायाः’ इति अस्मिन् विषये कृतेन संशोधनेन वैराग्यकाङ्क्षिणां समस्यायाः समाधानं प्राप्यते।

नवीना दिक्सम्पाद्यताम्

विद्यमानविचारविषयेभ्यः कश्चन पृथग् विचारः शोधेन उपलभ्यते।एषा एव नवीना चिन्तनदिक् इति उच्यते।यथा प्रत्येकं दर्शनं स्वमतमण्डनं परमतखण्डनं करोति एव।एषा विद्यमाना विचारदिक्।तत्र यदि संशोधकः ‘वेदान्तानुकूलानां जैनविचाराणाम् अध्ययनम्’ इति विषयम् अधिकृत्य शोधकार्यं करोति तर्हि नूतनी विचारदिग् उपलभ्यते।

बुद्धितैक्ष्ण्यम्सम्पाद्यताम्

संशोधनस्य प्रक्रिया संशोधकस्य बुद्धेः तैक्ष्ण्यं वर्धयति।यथा न्यायशास्त्रेण बुद्धिः तैक्ष्ण्यं नीयते तथैव शोधप्रक्रियया अपि एतत् कार्यं सिद्ध्यति।शोधविषयस्य चयनम्, तत्र सीमानिर्धारणम्, शोधरीतेः चिन्तनम्, सामग्रीसङ्कलनम्, सामग्र्याः प्रमाणैः परीक्षणम्, पूर्वसूरिणां मतानाम् आकलनम्, तेषु ग्राह्याग्राह्यविचारः, विचाराधीनपदार्थानां निर्दुष्टलक्षणानि, पदार्थानां सिद्धिः, पदार्थानां परस्परसम्बन्धः, विरुद्धविचाराणां प्रतिवादः इति एतैः कारणैः संशोधकस्य बुद्धिः तीक्ष्णा भवति।अयं लाभः संशोधकमात्रगामी।

जिज्ञासाशमनम्सम्पाद्यताम्

किमिदम्? कथम् इदम्? कुतः इदम्? इत्येतादृश्यः नैकाः जिज्ञासाः सत्त्वगुणबहुले पुरुषे भवन्ति।ज्ञानेन वा निरोधेन वा तासां शमनं भवति। अतः संशोधनस्य एतदपि प्रयोजनं गणनीयं यद् जिज्ञासाशमनम्।

मनोविकासःसम्पाद्यताम्

अ) सत्वं रजः तमः इति त्रयः मानसाः गुणाः। तेषु सत्वगुणस्य विकासेन मनोविकासः भवति।
ऊर्ध्वं गच्छन्ति सत्वस्थाः।भ.गीता
इतरयोः गुणयोः प्रकर्षेण दुःखं वर्धते। एते गुणाः सततम् उच्चावचं स्थानं प्राप्नुवन्ति।अतः पुरुषेण यदि सत्वगुणस्य उत्कर्षाय यत्नः क्रियते, तर्हि तस्य मनोविकासः भवति।
ज्ञानमिति सत्वगुणस्य कार्यम्।ज्ञानसम्पादनाय यत्नः यदि क्रियते तर्हि स्वाभाविकतया ज्ञानाश्रयस्वरूपः सत्वगुणः अपि वर्धते।अयमेव संशोधकस्य मनोविकासः।फलमेतत् संशोधकमात्रगामि।
आ) अनाग्रहः इति संशोधनकार्यस्य अवान्तरलाभः अवश्यं गणनीयः। संशोधनप्रक्रियायां नानाविधमतानां परिचयः भवति। प्रत्येकं मतस्य किञ्चिद् बलम् अस्ति किञ्चन दौर्बल्यमस्तीति यदा संशोधकः विजानाति तदा तस्य बुद्धिः अनाग्रहा भवति।
बुद्धेः फलमनाग्रहः
इति वचनं विद्यते।तदनुसारं संशोधकः अनाग्रहः भवति चेत् अयं मनोविकासः एव।

नूतनोत्पादःसम्पाद्यताम्

तन्त्रविज्ञानस्य क्षेत्रे संशोधनस्य एतत् प्रयोजनं सम्भवति। नूतनयन्त्राणाम् ,नूतनपद्धतीनां नूतनवस्तूनाम् उत्पादनं संशोधनस्य प्रयोजनं भवति।तेन उत्पादनस्य समयः रक्ष्यते, उत्पादनमूल्यं ह्रसते, स्तरः वर्धते।इदं समाजगामि प्रयोजनम्।

उपसंहारःसम्पाद्यताम्

एतानि संशोधनस्य मुख्यप्रयोजनानि।इतोऽपि गौणानि परम्परया अन्वितानि प्रयोजनानि अपि सन्ति।