ज्योतिषशास्त्रे विद्यमानेषु त्रिषु स्कन्धेषु संहितास्कन्धोऽपि अन्यतमः । वराहमिहिराचार्यैः विरचितः बृहत्संहिता इत्येषः ग्रन्थः अस्मिन् स्कन्धे अत्यन्तं प्रसिद्धः । अस्मिन्नेव ग्रन्थे संहितायाः लक्षणं प्रोक्तं यथा -
ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितं
तत्कार्त्स्न्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता । इति ।
भावार्थः - ज्योतिःशास्त्रम् अनेकैः भेदैः उपेतं त्रिषु स्कन्धेषु अधिष्ठितं च वर्तते । यत्र तस्य सम्पूर्णतया विवरणं भवति सा एव संहिता इति मुनिभिः सङ्कीर्त्यते ।

"https://sa.wikipedia.org/w/index.php?title=संहिता(ज्योतिषम्)&oldid=395964" इत्यस्माद् प्रतिप्राप्तम्